पूर्वम्: १।३।५७
अनन्तरम्: १।३।५९
 
प्रथमावृत्तिः

सूत्रम्॥ नानोर्ज्ञः॥ १।३।५८

पदच्छेदः॥ १।१।५९ अनोः ५।१ ज्ञः ५।१ सनः ५।१ १।१।५७ आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
न अनोर् ज्ञः १।३।५८

पूर्वेण योगेन प्राप्तम् आत्मनेपदम् प्रतिषिध्यते। अनुपूर्वाज् जानातेः सन्नन्तादात्मनेपदं न भवति। तथा च सति सकर्मकस्य एव अयं प्रतिषेधः सम्पद्यते। पुत्रम् अनुजिज्ञासति। अनोः इति किम्? धर्मं जिज्ञासते।
न्यासः
नानोर्ज्ञः। , १।३।५८

"पूर्वेण" इति। अनन्तरसूत्रप्राप्तं यत्तत्प्रतिषिध्यते-- "अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा " (व्या।प।१९) इति कृत्वा। "तथा च" इत्यादि। यस्मादनन्तरसूत्रेणाअत्मनेपदं #एयत्प्राप्नोति, तस्यायं प्रतिषेधः सम्पद्यते। एवंसति सकर्मकस्यैवायं प्रतिषेधः; अनन्तरसूत्रेण सकर्मकादात्मनेपदविधानात्। अकर्मकाद्धि "अकर्मकाच्च" १।३।४५ इत्यनेन प्रागेवात्मनेपदं विहितमित्यनन्तरातीतो योगः सकर्मकार्थो विज्ञायते; यतश्चैवम्, तेनाकर्मकात् "पूर्ववत्सनः" १।३।६२ इत्यात्मनेपदं भवत्येव-- औषधस्यानुजिज्ञासत इति॥
बाल-मनोरमा
नाऽनार्ज्ञः ५५६, १।३।५८

नानोर्ज्ञः। अनुपूर्वाज्ज्ञाधातोः सन्नन्तान्नात्मनेपदमित्यर्थः। पुत्रमनुजिज्ञासतीति। अनुज्ञातुमिच्छतीत्यर्थः। ननु सर्पिषा प्रवर्तितुमिच्छतीत्यर्थे "सर्पिषोऽनुजिज्ञासते" ईत्यत्रापि "अपह्नवे ज्ञः", "अकर्मकाच्चे"त्यात्मनेदस्याप्यनेन निषेधे सति सन्नन्तात्परस्मैपदमेव स्यादित्यत आह-- पूर्वसूत्रस्थेवेति। एवं च "सर्पिषोऽनुजिज्ञासते" इत्यत्र "अकर्मकाच्चे"त्यात्मनेपदं निर्बाधमिति भावः। ननु "अकर्मकाच्चे"ति ज्ञाधातोरात्मनेपदे सन्नन्तात्कथममात्मनेपदलाभ इत्यत आङ-- पूर्ववदिति। केवलात्सन्विहीनाज्ज्ञाधातोरात्मनेपदविधानात्सन्न्नतादपि तस्मात् "पूर्ववत्सनः" इत्यात्मनेपदमित्यर्थः।