पूर्वम्: १।३।५
अनन्तरम्: १।३।७
 
प्रथमावृत्तिः

सूत्रम्॥ षः प्रत्ययस्य॥ १।३।६

पदच्छेदः॥ षः १।१ प्रत्ययस्य ६।१ आदिः १।१ उपदेशे ७।१ इत् १।१

अर्थः॥

उपदेशे प्रत्ययस्य आदिः षकारः इत्संज्ञकः भवति।

उदाहरणम्॥

नर्त्तकी, रजकी।
काशिका-वृत्तिः
षः प्रत्ययसय १।३।६

षकारः प्रत्ययसय आदिः इत्संज्ञः भवति। शिल्पिनि ष्वुन् ३।१।१४५ नर्तकी, रजकी। प्रत्ययस्य इति किम्? षोडः, षण्डः, षडिकः। आदिः इत्येव अविमह्योष्टिषच् अविषः, महिषः।
लघु-सिद्धान्त-कौमुदी
षः प्रत्ययस्य ८४२, १।३।६

प्रत्ययस्यादिः ष इत्संज्ञः स्यात्। जल्पाकः। भिक्षाकः। कुट्टाकः। लुण्टाकः। वराकः। वराकी॥
न्यासः
षः प्रत्ययस्य। , १।३।६

"रजकी" इति। षित्त्वात् "षिद्गौरादिभ्यश्च" ४।१।४९ इति ङीष्। अथ केनात्रानुनासकिलोपः? "अनिदिताम्" (६।४।२४) इति चेत्? न; तत्र क्ङितीत्युच्यते,न चात्र क्ङित्प्रत्ययोऽस्ति, नैष दोषः; "जनीजृष्क्नसुरञ्जौ।ञमन्ताश्च" (ग।सू।धा।पा।८१७) #इतिमित्संज्ञाकरणं रञ्जेज्र्ञापकम्- अक्ङित्यपि तस्यानुनासिकलोपो भवति, अन्यथा णौ रञ्जेरकारस्यानुपधत्वात् "अत उपधायाः" ७।२।११६ इति वृद्ध्या न भवितव्यमिति मित्संज्ञाकरणमनर्थकं स्यातदित्येके। "घञि च भावकरणयोः" ६।४।२७ इत्यत्र चकार्सयानुक्तसमुच्चयार्थत्वादक्ङित्यपि क्कचिद्रञ्जेरनुनासकिलोपो भवतीत्यपरे। "षोडः" इति। ष()ड् दन्ता अस्येति बहुव्रीहिः; "वयसि दन्तस्य दतृ" ५।४।१४१ इति दत्रादेशः, ऋकार उगित्कार्यार्थः; "षष उत्वं दतृदशधासूत्त्रपदादेः ष्टुत्वञ्च" (वा।७६५) पृषोदरादिपाठात् षषोऽन्त्यस्योत्वम्, "आद्गुणः" ६।१।८४, उत्तरपदादिष्टु()तवमिति दकारस्य डकारः। षोडत् इति स्थिते षोडन्तमाचष्ट इति "तत्करोति तदादष्टे" (वा।२००,२०१) इति णिच्, "णाविष्ठवत् कार्यम् प्रातिपदिकस्य" (वा।८१३) इतीष्ठवद्बावाट्टिलोपः-- षोडयतीति, ततः पचाद्यच्, णिलोपः। "षण्()डः" इति। "षणु दाने" (धा।पा।१४६४)। "ञमन्ताड्डः" (द।उ।५।७), "उणादयो बहुलम्" ३।३।१इति बहुलवचनात् "धात्वादेः षः सः" ६।१।६२ इति सत्वं न भवति। अथ वा-- "षण्ड" इत्येतदव्युत्पनन्नं प्रातिपदिकमिति। "ष()डिकः" इति। षडङगुलिदत्तशब्दात् अनुकम्पायाम् "बह्वचोऽमनुष्यनाम्नष्ठज्वा" ५।३।७८ इति ठच्। "ठाजादापूध्र्वं द्वितीयादयः" ५।३।८३ इति ङगुलिदत्तस्य लोपः; "ठस्येकः" ७।३।५० इतीकादेशः। ष()डशब्द्सय "यस्येति च" ६।४।१४८ इत्यकारलोपः, तस्य स्थानिवद्भावे सति व्यवधानात् षट्शब्दस्य "यचि भम्" १।४।१८ इति भसंज्ञा न भवति। अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वात् "झलां जशोऽन्ते" ८।२।३९ इति जश्त्वम् = षकारस्य डकारः। यद्येषां षकारस्येत्संज्ञा स्यात्, स्त्रीविवक्षायां "षिद्()गौरादिभ्यश्च" ४।१।४१ इति ङीष् स्यात्। षण्डशब्दोऽयं यद्यपि बलीवर्दे वत्र्तते, तथापि स्त्रीगवीष्पपि षण्डधर्मयोगाद्वृत्तिरस्य सम्भवत्येव। यद्यप्येते षोडादयो लाक्षणिकाः, तथाप्युदेशग्रहणेन षकारो विशिष्यत इति भवन्त्येतानि प्रत्ययग्रहणस्य प्रत्यदाहरणानि। भवति ह्रत्राप्युदेशे षकारः।"अविषः, महिषः" इति। "अव रक्षणे" (धा।पा।६००) "मह पूजायाम्" (धा।पा।१८६७), "अविमह्रोष्टिषच्" (द।उ।९।३।) ननु च"उणादयो बहुलम्" ३।३।१ इति बहुलवचनात् प्रत्ययसंज्ञैवात्र न भवति, सत्यामपि तस्यामित्संज्ञा न भविष्यति, बहुलवचनात्, तत् कस्मादादिग्रहणमेतदनुवत्र्तत#ए? एवं मन्यते-- उत्तरार्थमवश्यमादिग्रहणमनुवत्र्तमानमिहापि स्पष्टार्थं भविष्यति।
बाल-मनोरमा
षः प्रत्ययस्य ४६७, १।३।६

षऋ प्रत्ययस्य। "आदिर्ञिटुडवः" इत्यत आदिरित्यनुवर्तते। "उपदेशेऽजनुनासिक इ"दित्यत इदिति च। तदाह--प्रत्ययस्यादिरिति। षकारस्य इत्संज्ञायां तस्य लोपः।

तत्त्व-बोधिनी
षः प्रत्ययस्य ४२१, १।३।६

षः प्रत्ययस्य। "आदिर्ञिटुडवः"इत्यत "आदि"रित्यनुवर्तत इत्यभिप्रकेत्याह---प्रत्ययस्यादिरिति। प्रत्ययस्य किम्? षोडश।"षष उत्व"मित्यत्र उपदेशस्थोऽयं षकारस्येत्संज्ञा न भविष्यति, टित्वादेवाऽविषी महिषीति रूपसिद्धेः। न च पक्षे ङीष्यन्तोदात्तः प्रयोजनमिति वाच्यम्, "अनुदात्तस्य च यत्रोदात्तलोपः"इत्युदात्तनिवृत्तिस्वरेण टितः परस्य ङीपोऽप्युदात्तत्वात्। अत्राहुः---विनिगमनाऽभावेव पक्षे टकारस्याऽपि श्रवणं स्यात्। तथा च षित्त्वान्ङीषि "अविषी"त्यादिरुपसिद्धिः स्यात्। अतः षकारस्यैव श्रवणं भवतु मा कदाचिट्टकारस्य श्रवणं भूदित्येतदर्थमादिग्रहणानुवृत्तिरिति।