पूर्वम्: १।३।५९
अनन्तरम्: १।३।६१
 
प्रथमावृत्तिः

सूत्रम्॥ शदेः शितः॥ १।३।६०

पदच्छेदः॥ शदेः ५।१ शितः ६।१ ६१ आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
शदेः शितः १।३।६०

शद्लृ शातने परस्मैपदी, तस्मादात्मनेपदं विधीयते। शदिर्यः शित्, शिद्भावी, शितो वा सम्बन्धी तस्मादात्मनेपदं भवति। शीयते, शीयेते, शीयन्ते। शितः इति किम्? अशत्स्यत्। शत्स्यति। शिशत्सति।
लघु-सिद्धान्त-कौमुदी
शदेः शितः ६६२, १।३।६०

शिद्भाविनोऽस्मात्तङानौ स्तः। शीयते। शीयताम्। अशीयत। शीयेत। शशाद। शत्ता। शत्स्यति। अशदत्। अशत्स्यत्॥ कॄ विक्षेपे॥ ३९॥
न्यासः
शदेः शितः। , १।३।६०

यदि "शदेः शितः" इति व्यधिकरणे एते पञ्चम्यावित्यभ्युपगम्यैवं व्याख्यायते-- शदेः परो यः शित् तस्मादात्मेपदं भवतीति, तदा सार्वधातुकाश्रयत्वाच्छितः प्रागेव तदुत्पत्तेर्धातोः शेषत्वादस्य लावस्थायां परस्मैपदं स्यात्, ततस्तन्निमित्तकः व्याचिख्यासुराह-- शदिर्यः शिदिति। एतेन "शदेः शितः" इति समानाधिकरणे एते पञ्चम्याविति दर्शयति। कथं पुनः शदिः शिद्भवति, यावता विकरणस्य शकार इत्संज्ञक इत्संज्ञासम्बन्धी, न तु शदेः? इत्यत आह-- "शद्भावी" इति। भाविशब्दोऽयम् "भविष्यति गम्यादयः"३।३।३ इति भविष्यत्कालविषयः। शिद्भावीति यतः शिद्भविष्यति स शिद्भावी।एतदुक्तं भवति-- शिन्निमित्तत्वादुपचारेण शदिः शिदित्युक्तमिति। भवति हि कारणे कार्योपचारात् तथा व्यपदेशः, यथा-- नड्वलोदकं पकादरोग इति। शितो वा सम्बन्धी" इति। एतेन "शितः" इत्यस्य षष्ठ()न्ततां दर्शयति। कः शदेः शित्सम्ब्नधी? यस्तस्य प्रकृतिः। प्रागपि शितः शदेस्तत्प्रकृतित्वमस्त्येवेति शित्प्रकृतेः शदेरात्मनेपदं भवति। "शीयते" इति। पाघ्रादिसूत्रेण ७।३।७८ शीयादेशः॥
बाल-मनोरमा
शदेः शितः १९९, १।३।६०

शदेः शिदः। "अनुदात्तङित" इत्यस्मादात्मनेपदमित्यनुवर्तते। श् इत् यस्य स शित्। शप् विवक्षितः।शिति विवक्षिते सतीत्यर्थः, तिङुत्पत्तेः पूर्वं सार्वधातुकाश्रयस्य शपोऽसंभवात्। तदाह--शिद्भाविन इति। शित् भावी = भविष्यन् यस्मात्स शिद्भावी, तस्मादित्यर्थः। शीयते इति। शपि शदेः शीयादेशः। विशीर्यतीत्यर्थः। शीयेते शीयन्ते इत्यादि। "शिद्विषया" दित्युक्तेर्लिटि नात्मनेपदम्। "इत्संज्ञकशकारादा"वित्युक्तेर्न" शीयादेशः। विशीर्यतीत्यर्थः। तदाह--शशादेति। अनिट्कोऽयम्। क्रादिनियमप्राप्तस्य इटः "उपदेशेऽत्वतः" इति नियमात्थलि भारद्वाजनियमाद्वेट्। तदाह-- शेदिथ शशत्थेति च। इट्पक्षे "थलि च सेटी" इत्येत्त्वाभ्यासलोपाविति भावः। शेदिव शेदिम। क्रादिनियमादिट्। अशददिति। लृदित्त्वादङिति भावः। क्रुशधातुरनिट्कः। चुक्रोशिथ। क्रादिनियमात्थलि नित्यमिट्। अजन्ताऽकारवत्त्वाऽभावान्न भारद्वाजनियमः। चुक्रुशिव चुक्रुशिम। क्रोष्टेति। व्रश्चादिना शस्य षः। "षढो"रिति षस्य कः, सस्य षत्वम्। कित्त्वान्न गुणः। कुच। "कुच शब्दे" इति पठितस्य पुनरिह पाठः संपर्चनादावेव ज्वलादिकार्यणप्रत्ययार्थः। अर्थनिर्देशः क्वचित्पाणिनीय इति भूधातौ प्रपञ्चितम्। बुध इति। सेट्कोऽयम्, अनिट्सु श्यन्विकरणस्यैव बुधेग्र्रहणात्। तदाह-- बोधिनेति। अबोधीत्। रुहधातुरनिट्कः। क्रादिनियमात्थल्यपि नित्यमिट्। अजन्ताऽकारवत्त्वाऽभावान्न भारद्वाजनियमः। रोढेति। लुटितासिगुणे ढत्वधत्वष्टुत्वढलोपाः। रोक्ष्यतीति। लृटि स्ये ढकषाः। अरुक्षदिति। इगुपधशलन्तत्वात् क्से ढकषाः। कित्त्वान्न गुणः। वृदिति। "ज्वलितिकसन्तेभ्यः" इति उत्तराऽवधेरपि कसेग्र्रहणादेव सिद्धेर्वृत्करणं स्पष्टार्थमित्याहुः। इति ज्वलादयः। गूहत्यन्ता इति। "गुहू संवरणे" इत्येतत्पर्यन्ता इत्यर्थः। चते चदे याचने। अचीदिति। एदित्त्वान्न वृद्धिः। एवमचदीत्। बुधिर्। "बुध अवगमने" इति केवलपरस्मैपदी गतः। स तु ज्वलादिकार्यार्थः। अयं तु इरित् स्वरितेत्। अनिट्सु श्यन्विकरणस्यैव पाठादयं सेट्। अबुधदिति। इर इत्त्वेऽपि तदवयवस्य इकारस्य प्रत्येकमित्त्वेऽपि न नुम्, "इदितो नु"मित्यत्र कर्मधारयमाश्रित्य इत्संज्ञकेकारान्तस्यैव नुम्वधेः। पूर्वोत्तरेति। जन- पूरि- साहचर्येणेत्यर्थः। उ बुन्दिरित। आद्य उकार इत्-- "उदितो वे" ति क्त्वायामिड्विकल्पार्थः। अबुददिति। इरित्त्वादङि "अनिदिता" नलोपः, इर इकारस्य प्रत्येकमित्संज्ञाविरहात्, अनिदितामित्यस्य इत्संज्ञकेकारान्तभिन्नानामित्यर्थाश्रयणाच्चेति शब्देन्दुशेखरे स्थितम्। वेणृ गतीति। वाद्यभाण्डस्य वादनार्थं ग्रहणं वादित्रग्रहणम्। खनुदातुरुदित्--क्त्वायामिड्विकल्पः।

तत्त्व-बोधिनी
शदेः शितः १७२, १।३।६०

कुच संपर्चनादौ। "कुच शब्दे तारे" इति रचवर्गीयान्तेषु पठितस्य पुनरिह पाठः संपर्चनादावेव ज्वलादित्वप्रयुक्तो णप्रत्ययो यथा स्यादिति मनोरमादौ स्थितम्। अत्र नव्याः-- अनेनैव ग्रन्थेन पाणिनिनापि क्वचित्क्वचिदर्थनिर्देशः कृत इत्यनुमीयते, अन्यथाऽत्रत्यग्रन्थस्वारस्यभङ्गापत्तेरित्याहुः॥ बोधितेति। बुध्यतेरेवाऽनिट्कारिकासु पाठितत्वादयं सेडिति भावः। अकासीदिति। हलन्तलक्षणाया वृद्धेः "नेटी"ति निषेधेऽपि "अतो हलादे"रिति वैकल्पिकी वृद्धिः। वृदिति। अत्र नव्याः-- "ज्वलितिकसन्तेभ्यः" इति निर्देशाद्वृत्करणमिहाऽनार्षमित्यनुमीयते। अन्यथा "ज्वलादीभ्यो णः" इत्येव सूत्रयेदित्याहुः। अञ्चु गतौ। "अनिदिता"मिति नलोपः। अच्यात्। "अची"त्येकीयमते तु इदित्त्वात् -- अञ्च्यात्। मेधृ सङ्गमे च। चात्पूर्वोक्तेऽर्थ। "प्रजायै गृहमेथिना" मित्यत्र गृहैर्दारैर्मेधन्ते = सङ्गच्छन्ते इति विग्रहः। "सुप्यजातौ" इति णिनिः। शृधु मृधु। क्लेदनमिति। आद्र्रीभाव इत्यर्थः। उदित्त्वाक्त्वायां वेट्। शर्धित्वा श्रृद्ध्वा। उबुन्दिर्। बुन्दित्वा। बुत्त्वा। निष्ठायां-- बुन्नम्। निशामनं -चाक्षुषं ज्ञानम्। वेणृ। गत्यादयः पञ्चार्थाः। वाद्यभाण्डस्य वादनार्थं ग्रहणं वादित्रग्रहणम्। वेणिः वेणी वेणुरित्यादिरूपाण्यस्यैव धातोः। नान्तोऽपीति। "उत माता महिषमन्ववेन" दित्यत्र नान्तदर्शनादिति भावः। खनु। खनित्वा। खात्वा। निष्ठायां-- खातः।