पूर्वम्: १।३।६४
अनन्तरम्: १।३।६६
 
प्रथमावृत्तिः

सूत्रम्॥ समः क्ष्णुवः॥ १।३।६५

पदच्छेदः॥ समः ५।१ क्ष्णुवः ५।१ आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
समः क्ष्णुवः १।३।६५

क्ष्णु तेजने परस्मैपदी। ततः सम्पूर्वातात्मनेपदं भवति। समो गम्यृच्छि १।३।२९ इत्यत्र एव कस्मान् न पठितः? अकर्मकातिति तत्र वर्तते। संक्ष्णुते षस्त्रम्। संक्ष्णुवाते, संक्ष्णुवते।
न्यासः
समः क्ष्णुवः। , १।३।६५

"अकर्मकादिति तत्रानुवत्र्तते" इति। सकर्मकादपि क्ष्णुव आत्मनपदमिष्यत इति मन्यते। अत एव सकर्मकस्योदाहरणमुपन्यस्तम्। "संक्ष्णुते शस्त्रम्" इति। अदादित्वाच्छपो लुक्। "संक्ष्णुवाते" इति। "अचि श्नुधातु" ६।४।७७ इत्यादिनोवङ। "संक्ष्णुवते" इति। पूर्ववदादेशः।
बाल-मनोरमा
समः क्ष्णुवः ५६०, १।३।६५

समः क्ष्णुवः। "आत्मनेपद"मिति शेष"समो गम्यृच्चिभ्या"मित्यत्रैव "समो गम्यृच्छिक्ष् णुव" इति न सूत्रितं , तथा सति अकर्मकादित्यनुवृत्त्या सकर्मकान्न स्यात्। तत्सूचयन्नुदाहरति-- संक्ष्णुते शस्त्रमिति। तीक्ष्णीकरोतीत्यर्थः।

तत्त्व-बोधिनी
समः क्ष्णुवः ४६४, १।३।६५

समः क्ष्णुवः। "समो गम्यृच्छिक्ष्णुभ्यः" इति पठनीये पृथगस्य पाठः सकर्मकादपि विधानार्तं इति ध्वनयन्नुदाहरति-- संक्ष्णुतेशस्त्रमिति।