पूर्वम्: १।३।६५
अनन्तरम्: १।३।६७
 
प्रथमावृत्तिः

सूत्रम्॥ भुजोऽनवने॥ १।३।६६

पदच्छेदः॥ भुजः ५।१ अनवने ७।१ आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
भुजो ऽनवने १।३।६६

भुज पालनाभ्यवहारयोः इति रुधादौ पठ्यते। तस्मादनवने ऽपालने वर्तमानादात्मनेपदं भवति। भुङ्क्ते, भुञ्जाते, भुञ्जते। अनवने इति किम्? भुनक्त्येनम् अग्निराहितः। अनवन इति प्रतिषेधेन रौधादिकस्यएव ग्रहनं विज्ञायते, न तौदादिकस्य भुजो कौटिल्ये इत्यस्य। तेन इह न भवति, विभुजति पाणिम्।
लघु-सिद्धान्त-कौमुदी
भुजोऽनवने ६७५, १।३।६६

तङानौ स्तः। ओदनं भुङ्क्ते। अनवने किम्? महीं भुनक्ति॥ ञीन्धी दीप्तौ॥ २१॥ इन्द्धे। इन्धाते। इन्धाताम्। इनधै। ऐन्ध। ऐन्धताम्। ऐन्धाः। विद विचारणे॥ २२॥ विन्ते। वेत्ता॥
लघु-सिद्धान्त-कौमुदी
इति रुधादयः ७ ६७५, १।३।६६

लघु-सिद्धान्त-कौमुदी
अथ तनादयः ६७५, १।३।६६

लघु-सिद्धान्त-कौमुदी
तनु विस्तारे १ ६७५, १।३।६६

लघु-सिद्धान्त-कौमुदी
भुजोऽनवने ७४८, १।३।६६

ओदनं भुङ्क्ते। अनवने किम्? महीं भुनक्ति॥
लघु-सिद्धान्त-कौमुदी
इत्यात्मनेपदप्रक्रिया ७४८, १।३।६६

लघु-सिद्धान्त-कौमुदी
अथ परस्मैपदप्रक्रिया ७४८, १।३।६६

न्यासः
भुजोऽनवने। , १।३।६६

"अवनप्रतिषेधेन" इत्यादि। अवनं पालनम्। तत्प्रतिषेधेन रौधादिकस्य भुजेग्र्रहणं विज्ञायते; न तौदादिकस्य-- "{भुजौ-- धातुपाठः} भुज कौडिस्ये" (धा।पा।१४१७) इत्यस्य। यथैव हि सवत्सा धेनुरानीयतामित्युक्ते यस्या हि वत्सेन सह सम्बन्धः सम्भवति सैव गोधेनुरानीयते, न महिष्यादिधेनुः; तथेहाप्यवनप्रतिषेधेन यस्य भुजोऽनवने वृत्तिः सम्भवति, स एव रौधादिकः प्रतीयते; तस्मात् तस्यैव ग्रहणं विज्ञायते। तेन निर्भुजति, विभुजतीति तौदादिकस्यात्मनेपदं न भवति॥
बाल-मनोरमा
भुजोऽनवने ५६१, १।३।६६

भुजोऽनवने। अवनं---रक्षणम्। ततोऽन्यत्र भुजेरात्मनेपदमित्यर्थः। ननु भुज पालनाऽब्यवहारयो" रिति धातुपाठे स्थितम्। तत्र "बुभुजे पृथिवी"मित्यत्र न पालनमर्थः। तथा सति "अनवने" इति पर्युदासादात्मनेपदाऽयोगात्। नाप्यभ्यवहरणम्, असंभवात्। नहि पृथिव्या अभ्यवहरणं संभवति। तथा "वृद्धो जनो दुःखशतानि भुङ्क्ते" इत्पि न युज्यते, दुःखशतानां पालनस्य अभ्यवहरणस्य चाऽसंभवात्। तत्राह-- इह उपभोगो भुजेरर्थ इति। धातूनामनेकार्थकत्वादिति भावः। महीं भुनक्तीति। रक्षतीत्यर्थः। अत्र रौधादिकस्यैव "भुज पालनाभ्यवहारयो"रित्यस्य ग्रहणम् -- नतु "भुजो कौटिल्ये" इति तौदादिकस्याऽपीति भाष्यम्। भुजति वासः = कुटिली भवतीत्यर्थः।

तत्त्व-बोधिनी
भुजोऽनवने ४६५, १।३।६६

अवनं-- पालनम्। "अदने" इति वक्तव्ये अनवन इति पर्युदासस्य प्रयोजनद्वयम्। संयोगवद्विप्रयोगस्यापि विशेषावधारणहेतुत्वाद्रौधादिकस्यैव भुजेग्र्रहममित्येकम्, अदनादर्थान्तरेऽप्युपभोगादौ आत्मनेपदं भवतीति द्वितीयम्, तदाह-- बुभुजेपृथिवीपाल इति। इहेति। उपभोग इत्युपलक्षममात्मसात्करणस्यापि।पृथिवीं बुभुजे। स्वाधीनां चकारेत्यर्थः। भुज पालनाभ्यवहारयोरित्यस्य रूधादेस्वे ग्रहणमिति भुजो कौटिल्य इत्यस्मात्तुदादेः परस्मैपदमेव। पाणिं विभुजति। मूलानि विभुजति।