पूर्वम्: १।३।६९
अनन्तरम्: १।३।७१
 
प्रथमावृत्तिः

सूत्रम्॥ लियः सम्माननशालीनीकरणयोश्च॥ १।३।७०

पदच्छेदः॥ लियः ५।१ सम्माननशालीनीकरणयोः ७।२ णेः ५।१ ६७ आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
लियः संमाननशालीनीकरणयोश् च १।३।७०

णेः इति वर्तते। अकर्त्रभिप्रायार्थो ऽयमारम्भः। लीङ् श्लेषणे इति दिवादौ पठ्यते ली श्लेषणे इति च क्र्यादौ। विशेषाभावाद् द्वयोरपि ग्रहणम्। लियो ण्यन्तात् संमानने शालीनीकरणे च वर्तमानादात्मनेपदं भवति। चशब्दात् प्रलम्भने च। सम्माननं पूजनम् जटाभिरालापयते। पूजां समधिगच्छति इत्यर्थः। शालीनीकरणं न्यग्भावनम् श्येनो वर्तिकामुल्लापय्ते। न्यक्करोति इत्यर्थः। प्रलम्भने कस्त्वामुल्लापयते। विसंवादयति इत् यर्थः। विभाषा लीयतेः ६।१।५० इति वा आत्वं विधीयते। तदस्मिन् विषये नित्यम् अन्यत्र विकल्पः। व्यवस्थितविभाषा हि सा। सम्माननादिषु इति किम्? बालकमुल्लापयति।
न्यासः
लियः सम्माननशालीनीकरणयोश्च। , १।३।७०

"विशेषाभावात्" इति। कतं पुनर्विशेषभावः, यावता निरनुबन्धकत्वं सानुबन्धकत्वञ्चानयोर्विशेषोऽस्त्येव,ततश्च "निरनुबन्धकग्रहणे न सानुबन्धकस्यट (व्या।प।#आ५३) इत्यनया पिरभाषाय न लीङो ग्रहणेन भवितव्यम्। तदयुक्तमुक्तं विशेषाभावाद्()द्वयोरपि ग्रहणमिति? नैष दोष-, उत्सृष्टानुबन्धको हि लीह ल्यन्तो भवति। उत्सृष्टे चानुबन्धे द्वयमेवाभेदकं भवति-- अर्थः, शब्दान्तरत्वञ्च। तत्रार्थस्तावदनयोरेक एव, शब्दान्तरत्वमपि नास्ति। शब्दान्तरत्वञ्च प्रकृतिबेदविकरणभेदाभ्यां भवति। न चानयोण्र्यन्तयोः प्रकृतिभेदःष नापि विकरणभेदोऽस्ति;शब्विकरणत्वात्। यदपि "विभाषा लीयतेः" ६।१।५० इत्यात्त्वं तदप्युभयोर्भवति। तथा च वक्ष्यति-- "किमिदं लीयतेरिति? लीनातिलीयत्योरागन्तुकेन यका निदशः" इति। "न्यग्भावम्" इति। अभिभवनमित्यर्थः। "जटाभिः" इति। हेतौ तृतीया। जटा हि पूजाद्यधिगमहेतुभूताः। तथा हि-- यस्य जटाः सन्ति लोके महानयं तपस्वी()तयुपजातसम्प्रत्ययैः पूज्यते॥
बाल-मनोरमा
लियः संमाननशालीनीकरणयोश्च ४२०, १।३।७०

लियः संमानन। "लिय" इतिलीलीङोग्र्रहणम्। "अनुदात्तङितः" इत्यत् आत्मनेपदमिति, "णेरणौ" इत्यतो णेरिति चानुवर्तते। "णिचश्चे"ति सिद्देऽकत्र्रभिप्रायार्थमिदम्। संमाननं - पूजालाभः। शालिनीकरणम् - अभिनवः। चकारात् "गृधिवच्च्यो"रितिपूर्वसूत्रात्प्रलम्भनग्रहणं समुच्चीयते। तदाह-- लीङ्लियोरित्यादिना।

तत्त्व-बोधिनी
लियः संमाननशालीनीकरणयोश्च ३६८, १।३।७०

लियः संमानन। चात्प्रलम्भने।