पूर्वम्: १।३।७१
अनन्तरम्: १।३।७३
 
प्रथमावृत्तिः

सूत्रम्॥ स्वरितञितः कर्त्रभिप्राये क्रियाफले॥ १।३।७२

पदच्छेदः॥ स्वरितञितः ५।१ कर्त्रभिप्राये ७।१ ७७ क्रियाफले ७।१ ७७ आत्मनेपदम् १।१ १२

समासः॥

स्वरितश्च ञश्च स्वरितञौ, तौ इतौ यस्य सः स्वरितञित्, तस्मात् ॰ द्वन्द्वगर्भः बहुव्रीहिः।
कर्तुः अभिप्रायः कर्त्रभिप्रायः, तस्मिन् ॰ षष्ठीतत्पुरुषः।
क्रियायाः फलं क्रियाफलं, तस्मिन् ॰ क्रियाफले, षष्ठीतत्पुरुषः।

अर्थः॥

स्वरितेतः ञितः च धातुभ्यः आत्मनेपदं भवति, क्रियाफलं यदि कर्त्तारम् अभिप्रौति॥

उदाहरणम्॥

यजते। पचते। सुनुते। कुरुते॥
काशिका-वृत्तिः
स्वरितञितः कर्त्रभिप्राये क्रियाफले १।३।७२

णेः इति निवृत्तम्। शेषात् कर्तरि परस्मैपदे प्रप्ते स्वरितेतो ये धातवो ञितश्च तेभ्यः आत्मनेपदं भवति, कर्तारं चेत् क्रियाफलम् अभिप्रैति। क्रियायाः फलं क्रियाफलं प्रधानभूतम्, यदर्थम् असौ क्रिया आरभ्यते तच् चेत् कर्तुर् लकारवाच्यस्य भवति। यजते। पचते। ञितः खल्वपि सुनुते। कुरुते। स्वर्गादि प्रधानफलम् इह कर्तारम् अभिप्रैति। कर्त्रभिप्राये इति किम्? यजन्ति याजकाः। पचन्ति पाचकाः। कुर्वन्ति कर्मकराः। यद्यपि दक्षिणा भृतिश्च कर्तुः फल्मिहास्ति तथा अपि न तदर्थः क्रियारम्भः।
लघु-सिद्धान्त-कौमुदी
स्वरितञितः कर्त्रभिप्राये क्रियाफले ३८१, १।३।७२

स्वरितेतो ञितश्च धातोरात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले॥
न्यासः
स्वरितञितः कत्र्रभिप्राये क्रियाफले। , १।३।७२

"कत्र्रभिप्राये" इति। कत्र्तारमभिप्रैतीति "कर्मण्यण्" ३।२।१। यदि सामान्येन यत्र क्रियाफलं कत्र्तारमभिप्रैति तत्रात्मनेपदम्, तदेहापि स्यात्-- पचन्ति पाचकाः, यजन्ति याजका इति। तथा ह्रत्र क्रियाफलं दक्षिणा याजकान् कर्त्तृनभिप्रैति, भृतिश्च पाचकानित्यत आह-- "क्रियायाः फलम्" इत्यादि। प्रधानभूतं यत्फलं क्रियायास्तदिह गृह्रते। न च दक्षिणादिकं क्रियाफलं प्रधानभूतम्, ततो न भवत्यतिप्रसङ्गः। किं पुनस्तत्प्रधानभूतमित्यत आह- "यदयर्थम्" इत्यादि। एतेन यदुद्दिश्यासौ यागादिक्रियारभ्यते, न तु दक्षिणाद्यर्थम्। "यदर्थम्" इति। स्वर्गादि, न तु दक्षिणादि। तथा हि स्वर्गाद्यर्थं यागादिक्रियारभ्यते, न तु दक्षिणाद्यर्थम्। "यदर्थम्" इति। क्रियाविशेषणमेतत्। यच्छब्देन क्रियायाः प्रधानभूतं फलं निर्दिश्यते। यदर्थः प्रयोजनं यस्य क्रियारम्भस्य फलमात्रस्य ग्रहमभिप्रेतं स्यात्, तदा फलग्रहणमनर्थकं स्यात्; व्यवच्छेद्याभावत्। नास्त्येव हि स विषयो यत्र क्रियाफलं कत्र्तारं नाभिप्रैति; ततश्च कत्र्रभिप्राये क्रियाया इत्येदं ब्राउयात्। एवमप्युक्ते षष्ठ()आ क्रियायाः सम्बन्धिनि कत्र्रभिप्राये प्रत्यायिते सामथ्र्यात् फमलेव क्रिय#आयाः कत्र्रभिप्रायं गम्यते। न हि फलान्यत् क्रियासम्बन्धि कत्र्तारमभिप्रैति। तस्मात् फलग्रहणसामथ्र्यात् प्रधानं फलं गृह्रते। अथ वा-- प्रधानत्वादेव प्रधानं फलं गृह्रते। तथा चोक्तम्-- प्रधाने कार्यसम्प्रत्ययात् सिद्धमिति। अस्मिन् व्याख्याने फलग्रहणं स्पष्टार्थम्, कर्तर्यात्मनेपदविधानात्। प्रत्यासत्तर्यस्तस्य वाच्यः कत्र्ता यदि तस्यैव तत् फलं भवतीति विज्ञायत इत्याह-- "तच्च" इत्यादि। गतार्थम्। "स्वर्गादि" इति। आदिशब्देनौदनादिकमपि गृह्रते। "तथापि" इत्यादिना दक्षिणादेः फलस्याप्रधान्यं दर्शयति। यदर्थं सा क्रियारभ्यते तत्प्रधानमिहोपात्तं फलम्। स्वर्गाद्यर्थं च यागादिक्रियाऽ‌ऽरभ्यते; न दक्षिणाद्यर्थम्। अतोऽप्रयोजकत्वात्तदप्रधाम्। तेन यद्यपि तत् कत्र्तारमभिप्रैति तथाप्यात्मनेपदं न भवति। अथाभिप्रग्रहणं किमर्थम्? विप्रकृष्टेऽपि फले यथा स्यात् द्विविधं हि क्रियाफलम्-- आसन्नम्, विप्रकृष्टञ्च। तत्रासन्नम्-- यस्य व्यापारानन्तरमेव निष्पत्तिः। विप्रकृष्टन्तु-- उपरतेषु व्यापारेषु यन्निमित्तान्तरमपेक्ष्य कालविप्रकर्षकृतं संस्कारपरिपाकाच्चिराद्भवति। तत्राद्यमासन्नत्वात् दृष्टत्वादुत्पतिं()त प्रत्यव्यभिचाराच्च प्रधानमम्। इतरत् पुनर्विप्रकृष्टत्वादनुमेयत्वात् सम्भवव्यभिचाराच्चोत्पतिं()त प्रति व्यभिचारः। यद्यपि तदुद्दिश्य क्रियारम्भात् तदपि प्रधानम्, तथाप्यविप्रकृष्टफलापेक्षया तस्याप्राधान्यमस्त्येव। तत्र यद्यभिप्रग्रहणं न क्रियेत, तदा लुनीत पुनीत इत्यादावेव स्यात्-- यत्राविप्रकृष्टं क्रियाफलम्। यजते इत्यादौ तु न स्यात्-- यत्र विप्रकृष्टं स्वर्गादिकं क्रियाफलम्, प्रधाने कार्यसम्प्रत्ययात्। अभिग्रहणे तु न दोषः; यस्मादभिराभिमुख्ये वत्र्तते, प्रशब्दसत्त्वारम्भे। तेन प्रारम्भमात्रस्याभिमुख्ये फलनिष्पत्तौ बुद्धावाश्रीयमाणायां सर्वत्र सिद्धं भवति। ननु चासत्यभिप्रग्रहणे प्रकृतीनां यजिप्रभृतीनामनुबन्धविशेषासञ्जनादेव विप्रकृष्टेऽपि फले भविष्यतिच अन्यथा हि तस्य वैयथ्र्यं स्यात्, न; अभिचारादौ यत्राविप्रकृष्टं फलं दृष्टमस्ति तत्र तस्य सार्थकत्वात्। तस्माद्विप्रकृष्टेऽप्यप्रधाने फले स्यादित्येवमर्थमिप्रग्रहणं कत्र्तव्यमेव॥
बाल-मनोरमा
स्वरितञितः कत्र्रभिप्रायेक्रियाफले ८, १।३।७२

स्वरितञितः। स्वरितश्च ञ् च स्वरितञौ, तौ इतौ यस्य तस्मादिति बहुव्रीहिः। इच्छब्दः प्रत्येकं सम्बध्यते। तदाह-- स्वरितेतो ञितश्चेति। धातोरित्यनन्तरं "लस्य स्थाने"इति शेषः। कर्तारमभिप्रैति गच्छतीति "कत्र्रभिप्रायम्"। कर्मण्यण्। तदाह--कर्तृगामिनीति। एवं च "होता याज्यया यजती"त्यादौ यागफलस्य स्वर्गस्य यजमानगामित्वेन होतृगामित्वाऽभावान्नात्मनेपदम्। तथा "वेतनेन यज्ञदत्तभृतो देवदत्तः पचती"त्यत्रापि पाकफलस्य भोजनस्य पक्तृगामित्वाऽभावान्नात्मनेपदम्। दक्षिणादिलाभस्तु न फलम्। लोकतो वेदतो वा यदुद्देशेन क्रियाप्रवृत्तिस्तस्यैवात्र क्रियाफलशब्देन। विवक्षित्वात्। कर्तृगामिफलकक्रियावृत्तेर्धातोरित्यर्थः। आत्मनेपदं तु धात्वर्थफलस्य कर्तृगामित्वं द्योतयतीत्यलम्।

तत्त्व-बोधिनी
स्वरितञितः कत्र्रभिप्राये क्रियाफले ८, १।३।७२

पूर्ववदिच्छब्दः प्रत्येकं संबध्यते। कर्तारमभिप्रैति गच्छतीति कत्र्रभिप्रायम्। "कर्मण्यण्"। धातोरिति। धातोर्लस्येत्यर्थः। लकारधात्वोराक्षेपः पूर्ववद्बोध्यः।