पूर्वम्: १।३।७८
अनन्तरम्: १।३।८०
 
प्रथमावृत्तिः

सूत्रम्॥ अनुपराभ्यां कृञः॥ १।३।७९

पदच्छेदः॥ अनुपराभ्याम् ५।२ कृञः ५।१ परस्मैपदम् १।१ ७८

काशिका-वृत्तिः
अनुपराभ्यां कृञः १।३।७९

कर्त्रभिप्राये क्रियाफले गन्धनादिषु च करोतेरात्मनेपदं विहितम्। तदपवादः परस्मैपदं विधीयते। अनु परा इत्येवं पूर्वात् करोतेः परस्मैपदं भवति। अनुकरोति। पराकरोति।
लघु-सिद्धान्त-कौमुदी
अनुपराभ्यां कृञः ७४८, १।३।७९

कर्तृगे च फले गन्धनादौ च परस्मैपदं स्यात्। अनुकरोति। पराकरोति॥
न्यासः
अनुपराभ्यां कृञः। , १।३।७९

बाल-मनोरमा
अनुपराभ्यां कृञः ५७०, १।३।७९

अनुपराभ्यां कृञः। "परस्मैपदमिति शेषः। ननु "स्वरितञितः" इत्यात्मनेपदस्य कर्तगाम्नियेव फले विधानादकर्तृगामिनि फले "शेषात्कर्तरी"ति परस्मैपदस्य सिद्धत्वात् किमर्थ मिदमित्यत आह-- कर्तृगेऽपीति। गन्धनादाविति। गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु इत्यर्थः। मा भूदिति। भावे कर्मणि लकारस्य कर्तृगे फलेपरस्मपैदनिवृत्त्यर्थं कर्तरीत्यस्याऽनुवृत्तिरिति भावः। ननु कर्तरीत्यस्यानुवृत्तावपि "अनुक्रियते शब्दः स्वयमेवे"त्यत्र कर्मकर्तरि परस्मैपदं दुर्वारमित्याशङ्क्य परिहरति-- नचेति। एवमपि = कर्तरीत्यस्यानुवृत्तावपि कर्मकर्तरि आत्मनेपदस्य प्रसङ्गो न शङ्क्य इत्यर्थः। कुत इत्यत आह-- कार्यातिदेशेति। तत्र कर्मकर्तरि "कर्मवत्कर्मणा तुल्यक्रियः" इत्यात्मनेपदेन परेणाऽस्य परस्मैपदस्य बाधादित्यन्वयः। नु कर्मणि यच्छास्त्रं तत् "कर्मवत्कर्मणे"ति कर्मकर्तर्यतिदिश्यते, तथा चाऽत्र कर्मकर्तरि "भावकर्मणो"रित्यात्मनेपदशास्त्रमिह प्राप्तम्। तस्य च परत्वाऽभावात् "अनुपराभ्यां कृञः" इत्यनेन कथं बाधः स्यादित्यत आह-- कार्यातिदेशपक्षस्य मुख्यतयेति। शास्त्रातिदेशस्य कार्यातिदेशार्थतया कार्यातिदेशस्य मुख्यत्वम्। ततश्च "कर्मवत् कर्मणे"त्यनेन कर्मणि विहितमात्मनेपदं कर्मकर्तरि विधीयते। तस्य च परत्वात्तेनात्मनेपदेन "अनुपराभ्याटमिति परस्मैपदं कर्मकर्तरि बाधमर्हतीति भावः। "कर्मवत्कर्मणे"त्यत्र शास्त्रातिदेशमभ्युपगम्याअह----- शास्त्रातिदेशपक्षे त्विति। "अनुपराभ्यां कृञः" इत्यत्र "कर्तरि कर्मव्यतिहारे" इत्यस्मादेकं कर्तृघणमनुवर्तते। तथा "शेषात्कर्तरि परस्मैपद"मित्यस्माद्द्वितीयं कर्तृग्रहणमनुवर्तते। तथा च "स्वभावतः एव यः कर्ता, नतु विवक्षाधीनः कर्मकर्ता तथाविधकर्तर्येव अनुपराभ्यां कृञः परस्मैपद"मिति लभ्यते। एवं च कर्मकर्तरि नास्य प्रवृत्तिरित्यर्थः।

तत्त्व-बोधिनी
अनुपराभ्यां कृञः ४७१, १।३।७९

अस्य बाधादिति। "अनुपराभ्या"मित्यस्येत्यर्थः। अत एव "कर्मवत्कर्मणे"ति सूत्रे कार्यातिदेशोऽयमिति वक्ष्यति। शास्त्रातिदेशपक्षे "कर्मवत्कर्मणे" त्यनेनात्मनेपदं न विधीयते, किं तु तद्विधायकं "भावकर्मणो"रिति शास्त्रमतिदिश्यते, तस्य च पूर्वत्वात्परेण "अनुपराभ्या"मित्यनेन बाधमाशङ्क्याह-- शास्त्रातिदेश इत्यादि। स्वरितेदिति। तथा च कर्तृगामिनि क्रियाफलेऽपि परस्मैपदार्थः सूत्रारम्भ इति भावः।