पूर्वम्: १।३।८८
अनन्तरम्: १।३।९०
 
प्रथमावृत्तिः

सूत्रम्॥ न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः॥ १।३।८९

पदच्छेदः॥ पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः ५।१ णेः ५।१ ८६ परस्मैपदम् १।१ ७८

काशिका-वृत्तिः
न पादम्याङ्यमाऽङ्यसपरिमुहरुचिनृतिवदवसः १।३।८९

पूर्वेण योगद्वयेन कर्त्रभिप्रयक्रियाफलविवक्षायाम् आत्मनेपदापवादः परस्मैपदं विहितम्। तस्य प्रतिषेधो ऽयमुच्यते। यत् कर्त्रभिप्रायविषयम् आत्मनेपदं तदवस्थितम् एव, न प्रतिषिध्यते। पा दमि अङ्यम आङ्यस परिमुह रुचि नृति वद वस इत्येतेभ्यो ण्यन्तेभ्यः परस्मैपदं न भवति। णिचश्च १।३।७४ इत्यात्मनेपदं भवति। तत्र पिवतिर् निगरणार्थः। दमिप्रभृतयश्चित्तवत्कर्तृकाः। नृतिश्चलनार्थो ऽपि। एषां परस्मैपदं न भवति। पा पाययते। दमि दमयते। आङ्यम् आयामयते। यमो ऽपरिवेषणे इति मित्संज्ञा प्रतिषिध्यते। अङ्यस आयासयते। परिमुह परिमोहयते। रुचि रोचयते। नृति नर्तयते। वद वादयते। वस वासयते। पादिषु धेट उपसङ्ख्यानम्। धापयेते शिशुमेकं समीची।
न्यासः
न पादम्याङ्यमाङ्यसमपरिमुहरुचिनृतिवदवसः। , १।३।८९

"पा" इति "लुग्विकरणालुग्विकरणायोरलुग्विकरणस्यैव ग्रहणम्" (व्या।प।५०) इत्यनेन "पा पाने" (धा।पा।९२५) इत्यस्यैव ग्रहणम्, न "पा रक्षणे" (धा।पा।१०५६)इत्येतस्य। "दमु उपशमे" (धा।पा।१२०३), "यम उपरमे" (धा।पा।९८४), "यसु प्रयत्ने" (धा।पा।१२१०), आङपूर्वावेतौ। "मुह वैचित्ये" (धा।पा। ११९८), परिपूर्वः, "रुच दीप्तौ" (७४५), "नृती गात्रविक्षेपे" (धा।पा।१११६), "वद व्यक्तायां वाचि" (धा।पा।१००९) "वस निवासे" (धा।पा।१००५), आच्छादनार्थस्य वसेग्र्रहणं पूर्वोक्तादेव हेतोर्न भवति। "पूर्वेण योगद्वयेन" इति। अन्तरेणेत्यर्थः। "नृतिश्चलनार्थोऽपि" इति। अपिशब्दाच्चितवत्कर्त्तृकार्थश्च। "पाययते" इति। "शाच्छासाह्वाव्यावेपां युक्" ७।३।३७। पातेस्त्वकर्मकत्वविवक्षायां परस्मैपदं भवति। "पालयति" इति। "पातेलुग्वक्तव्यः" (वा।२;७, ३।३७) इत्युपसंख्यानाल्लुगागमः। "दमयते" इति। पूर्ववत् "मितां ह्यस्वः" ६।४।९२। "आयामयते" इति। ननु चात्रपिमित्वे सति ह्यस्वेन भवितव्यमित्यत आह-- "यमोऽपरिवेषणे" इति। तत्र हि "न कम्यमिचमाम्" (ग।सू।धा।पा।८१७)इत्यतो नेत्यनुवर्तते। "आङ"इति। ङिद्विशिष्टस्याकारस्योपबदानमुपसर्गप्रतिपत्त्यर्थम्। तेनोपसर्गप्रतिरूपको य आकारस्तस्य ग्रहणं न भवति। "पादिषु धेट उपसंख्यानम्" इति। पादिष्विति विषयसप्तमी। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। धेटः पादिविषयस्य परस्मैपदप्रतिषेधस्य प्रतिपादनं कत्र्तव्यम्। योऽयं पादिविषयः परस्मैपदप्रतिषेधः,स धेटोऽपि भवतीत्यर्थः। तत्रेदं प्रतिपादनम्- नेति योगविभागः क्रियते, तेन धेटोऽपि प्रतिषेधो भविष्यति। यद्येवम्, नेत्यनेनैव सिद्धत्वात् पादीनां ग्रहणमनर्थकम्? नानर्थकम्; पूर्वयोगस्यासर्वविषयात्वज्ञापनार्थत्वात्। "धापयेते" इति। "धेट पाने" (धा।पा।९०२) "आदेचः" ६।१।४४ इत्यादिनात्त्वम्, पूर्ववत् पुक्। "शिशुम्" इति। "गतिबुद्धि" १।४।५२ इत्यादिना कर्मसंज्ञायां द्वितीया॥
बाल-मनोरमा
न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः ३५, १।३।८९

न पादम्याङ्यम्। पा दमि आङ्यम् आङ्यम् आङ्यस परिमुहरुचि नृति वद वस् एषां समाहारद्वन्द्वात्पञ्चमी। प्राप्तस्य निषेध्यत्वात् प्राप्तिमुपपादयति-- पिबतिर्निगरणार्थ इति। ततश्च "निगरणचलनर्थेभ्यः" इति प्राप्तिरिति भावः। नृतिरिति। नृतिश्चलनार्थकः। अणौ चित्तवत्कर्तृकः अकर्मकश्चेत्यर्थः। सूत्रद्वयनेनेति। "अणावकर्मका"दिति, "निगरणचलनार्थेभ्यश्च" इति च सूत्रद्वयेनेत्यर्थः। पाययते इति। "शाच्छासाह्वाव्यावेपां यु"गिति पुकोऽपवादो युक्। दमयते इति। "जनीजृ()ष्क्नसुरञ्जोऽमन्ताश्चे"त मित्त्वाद्ध्रस्वः। ननु दिवादौ दमिः सकर्मक इत्युक्तम्, अतः कथमिह "अणावकर्मका"दिति प्राप्तिरिति चेद्दमेः परस्मैनिषेधादेव दमिरकर्मकोऽपि। अतो दमिः सकर्मक इत्यस्य न विरोधः। आयामयते इति। "यमोऽपरिवेषणे" इति मित्त्वनिषेधान्न ह्यस्वः। वासयते इति। "वस निवासे" इति भौवादिकस्यैवात्र ग्रहणम्, नतु "वस आच्छादने" इत्यादादिकस्याऽपि, तस्य सकर्मकत्वादेवाऽप्राप्तेः, "लुग्विकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहण"मित्युक्तेश्च। धेट #उपसङ्ख्यानमिति। "परस्मैपदनिषेधस्ये"ति शेषः। धापयेते शिशुमिति मन्त्रः। ननु "वत्सान् पाययति पयः", "दमयन्ती कमनीयतामदं", "भिक्षा वासयती"ति च कथम्। "न पादम्यड()मेति परस्मैपदस्य निषेधादित्यत आह-- अकत्र्रभिप्राये इति। "अनन्तरस्ये"ति न्यायेन "निगरणचलनार्थेभ्यश्च","अणावकर्मकाटदिति सूत्रद्वयप्राप्तस्यैव "न पादम्याङ्यमाङ्यमसे"ति निषेध इति भावः। "वा क्यषः" इत्यादि प्राग्व्याख्यातमपि सूत्रक्रमेण पुनरुपात्तम्। इतिपरस्मैपदव्यवस्था।

अथ परिभाषाप्रकरणम्॥

तत्त्व-बोधिनी
न पादम्याङ्यमाङ्यसपरिमुद्दरुचिनृतिवदवसः २९, १।३।८९

न पाद। चित्तवत्कर्तृका अकर्मका इति। दिवादौ दमिः सकर्मक इत्युक्तम्, इह त्वकर्मक इति पूर्वोत्तरविरोधो यद्यप्यस्ति तथापि कर्मणः कर्तृत्वविवक्षायां दमिरत्राऽकर्मक इत्याहुः। पाययत इति। "शाच्छसे"ति युक्। आयामयत इति। "यमोऽपरिवेषमे" इति मित्त्वनिषेधः। वासयत इति। वस निवास इत्यस्य ग्रहणं। वस आच्छादने इत्यस्य तु न निषेधः, सकर्मकत्वेन तस्य प्राप्त्यभावात्। कर्मकर्तृत्वविवक्षायामकर्मकत्वेऽपि लुग्विकरमपरिभाषया नाऽत्र ग्रहणमित्याहुः।

* धेट उपसङ्ख्यानम्। समीची इति। प्रथमाद्विवचनम्। "वा छन्दसी"ति पूर्वसवर्णदीर्घः। परस्मैपदं स्यादेवेति। "अनन्तरस्य" इति योगद्वयेन प्राप्तस्यैव परसमैपदस्य प्रतिषेध इति भावः।

[इति तत्त्वबोधिन्याम् परस्मैपदप्रक्रिया] इति पदव्यवस्था।

अथ परिभाषाप्रकरणम्।

----------------