पूर्वम्: १।३।८
अनन्तरम्: १।३।१०
 
प्रथमावृत्तिः

सूत्रम्॥ तस्य लोपः॥ १।३।९

पदच्छेदः॥ तस्य ६।१ लोपः १।१

अर्थः॥

तस्य इत्संज्ञकस्य लोपः भवति॥

उदाहरणम्॥

उदाहरणानि पूर्वसूत्रेषु एव द्रष्टव्यानि॥
काशिका-वृत्तिः
तस्य लोपः १।३।९

तस्य इत्संज्ञकस्य लोपो भवति। तथा च एव उदाहृतम्। तस्य ग्रहणं सर्वलोपार्थम्, अलो ऽन्त्यस्य १।१।५१ मा भूतादिर् ञिटुडवः १।३।५ इति।
लघु-सिद्धान्त-कौमुदी
तस्य लोपः ३, १।३।९

तस्येतो लोपः स्यात्। णादयोऽणाद्यर्थाः।
न्यासः
तस्य लोपः। , १।३।९

अथ किमर्थम् "तस्य" इत्युच्यते, यवातेत्संज्ञायाः प्रकृतत्वाद्यस्येत्संज्ञा विहिता सामथ्र्यात्तस्यैव लोपो भविष्यतीति आह-- "तस्यग्रहणम्" इत्यादि। कः पुनरित्संज्ञको योऽलोन्त्यस्य निवृत्त्यर्थं तस्यग्रहणं प्रयोजनतीत्याह-- "आदिर्ञिटुडवः" इति। असति तस्यग्रहणे, एषामपि ञिप्रभृतीनाम् "अलोऽन्त्यस्य" १।१।५१ इति वचनादन्त्यस्य लोपः स्यात्। तस्यग्रहणेन तु प्रकृत इत्संज्ञके सन्निधापिते सर्वस्य लोपो भवति, नान्त्यस्य; अन्यथा हि तस्यग्रहणमनर्थकं स्यात्। यदि तु "नानर्थकेऽलोऽन्त्यविधिः" (व्या।प।६२) इत्येषा परिभाषाऽ‌ऽश्रीयते, तदा तस्यग्रहणमकर्तुं शक्यते। तत् क्रियते विस्पष्टार्थम्।
बाल-मनोरमा
तस्य लोपः ६३, १।३।९

एतेष्वादेशेषु यकारवकारयोर्हलन्त्यमितीत्संज्ञायां लोपमाशङ्कितुमाह--तस्य लोपः। इत्संज्ञाप्रकरणान्ते इदं सूत्रम्। तत्र तच्छब्दः सन्निहितमितं परामृशति। तदाह--तस्येति इति। इत्यनेन सूत्रेण यवयोर्लोपो न शङ्कनीय इत्यर्थः। कुत इत्यत आह--उच्चारणेति। यद्यत्र यवयोर्लोपः स्यात्तर्हि तयोः सूत्रेऽनुच्चारणमेव स्यात्, "प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वर"मिति न्यायादिति भावः। तर्हि किमनयोरित्संज्ञयेत्यत आह--एवंचेति। उक्तप्रकारेण लोपाऽभावे सतीत्संज्ञापीह यकारे वकारे च न भवति, फलाऽभावादित्यर्थः। क्रमेणोदाहस्ति--हरय इत्यादिना। हरे--ए,विष्णो-ए, नै-अकः, पौ-अक इति स्थितेषु एकारादीनां क्रमादयादयः।