पूर्वम्: १।३।८९
अनन्तरम्: १।३।९१
 
प्रथमावृत्तिः

सूत्रम्॥ वा क्यषः॥ १।३।९०

पदच्छेदः॥ वा ९३ क्यषः ५।१ परस्मैपदम् १।१ ७८

काशिका-वृत्तिः
वा क्यषः १।३।९०

लोहितादिडाज्भ्यः क्यष् ३।१।१३ इति वक्ष्यति। तदन्ताद् धातोर् वा परस्मैपदं भवति। लोहितायति, लोहितायते। पटपटायति, पटपटायते। अथ अत्र प्रस्मैपदेन मुक्ते कथम् आत्मनेपदं लभ्यते, यावता अनुदात्तङित आत्मनेपदम् १।३।१२ इत्येवम् आदिना प्रकर्णेन तन् नियतम्? एवं तर्हि आत्मनेपदम् एव अत्र विकल्पितं विधीयते, तच् च अनन्तरं परस्मैपदप्रतिषेधेन सनिधापितम् इह सम्बध्यते। तेन मुक्ते, शेषात् कर्तरि परस्मैपदम् भवति।
न्यासः
वा क्यषः। , १।३।९०

"लोहितायति" इति। अलोहितो लोहितो भवतीत्यत्रार्थे "लोहितादिडाज्भ्यः क्यष्" ३।१।१३इति क्यष्। "अकृत्सार्वधातुकयोः" ७।४।२५ इति दीर्घः। "पटपटायति" इति। पटच्छब्दस्य डाचि विषयभूते "डाचि बहुलं द्वे" (वा।८८८) इत्युपसंख्यानाद्()द्विर्वचनम्, "अव्यक्तानुकरणात्" ५।४।५७ इत्यादिना डाच्, "नित्यमाम्रेडिते डाचि"६।१।९६ इति पटशब्दस्य योऽन्त्यस्तकारः, यश्च तस्मात्परः पकारः-तयोः "कथम्" इति। न कथञ्चिदित्यर्थः। किं कारणं न लभ्यत आह-- "यावता" इत्यादि। आत्मनेपदं हि "अनुदात्तङितः" १।३।१२ इत्यादि नियतम्, अतो न शक्यते क्यषन्ताद्विज्ञातुमिति। "एवं तर्हि" इत्यादिना परिहरति। "विकल्पितम्" इति विभाषितम्, पाक्षिकमित्यर्थः। ननु चात्मनेपदं परस्मैपदेन व्यवच्छिन्नम्, अतोऽसन्निहित्वान्न शक्यते विज्ञातुमित्याह-- "तच्च"इत्यादि। कत्र्रभिप्राये क्रियाफले विवक्षित आत्मनेपदं प्राप्ते तदपवादेन "अमावकर्मकात्" १।३।८८ इत्यादिना योगद्वयेन परस्मैपदं विहितम्। तस्यापवादस्यानन्तरसूत्रेण यः प्रतिषेधो विहितः, तेनापवादेन परस्मैपदमपनयतात्मनेपदं सन्निधापितम्। अपवादे ह्रपनीते नियोगत एवोत्सर्गेण भवितव्यम्। तदेवं प्रतिषेधेन सन्निधापितमिहात्मनेपदं सम्बध्यते। यदि तह्र्रनेन कर्तर्यात्मनेपदमेव विकल्पेन विधीयते, पक्षे परस्मैपदं कथं लभ्यत इत्याह-- "तेन" इत्यादि॥
बाल-मनोरमा
वा क्यषः ४९४, १।३।९०

वा क्यषः। परस्मैपदमिति। "शेषात्कर्तरी"त्यस्तदनुवृत्तेरिति भावः। लोहितायतीति। अलोहितो लोहितो भवतीत्यर्थः। अत्रेति। "लोहितादी"ति सूत्रे इत्यर्थः। तच्चेति। अभूततद्भाविषयत्वमित्यर्थः। असंभवादिति। अव्यक्तानुकरणड्डाचो विहितत्वेन तस्य अभूततद्भावविषयत्वे अनुकरणत्वस्य भङ्गापत्तेरिति भावः। नाप्यादिशब्दग्राह्राणामिति। "श्यामादिशब्दाना"मिति शेषः। तस्येति। आदिग्रहणस्येत्यर्थः। आदिगर्हणप्रख्याने प्रमाणं दर्शयति-- तथा चेति। आदिग्रहणमपनीय लोहितशब्दाड्डाजन्तेभ्यश्च क्यष्वचनं कर्तव्यम्। इतराणि = लोहितादिगणपठितानि श्यामादीनि प्रतिपदिकानि भृशादिष्वेव पठनीयानीत्यर्थः। एवं च श्यामादिशब्देभ्यः क्यङि आत्मनेपदमेवेति फलितम्। तस्यापीति। आदिग्रहणस्येव क्यषः ककारस्यापि विवक्षिते सति "डाचि विवक्षिते द्वे बहुल"मिति द्वित्वे नित्यमाम्रेडिते "डाची"ति पूर्वखण्डान्तस्य तकारस्य , उत्तरखण्डादेः पकारस्यच पररूपे एकस्मिन् पकारे, डित्त्वाट्टिलोपे, पटपटाशब्दाड्डाजन्तात् क्यषि तदन्ताल्लडादीति भावः। "अभूततद्भावे" इति तु नात्र संबध्यते इत्युक्तम्। न ह्रपटच्छब्दः पटच्छब्दो भवतीति युज्यते। ननु कृभ्वस्तियोगाऽभावादिह कथं डाजित्यत आह-- कृभ्वस्तियोगं विनापीति। भवत्यर्थसत्तामात्रेणेत्यर्थः। कुत इत्यत आह--डाजन्तादिति। तद्भाष्येति। "भृशादिष्वितराणी"त्युक्तवार्तिकतद्भाष्यविरुद्धमित्यर्थः। तस्मादिति। उक्तवार्तिकभाष्यविरोधात्तेभ्यः श्यामादिभ्यो भृशादित्वलक्षणः क्यङेव नतु क्यषित्यर्थः। ततश्च "वा क्यषः" इत्यस्याऽप्रवृत्तेर्ङित्त्वादात्मनेपदमेवेति मत्वाऽ‌ऽह-- श्यामायते इति। श्यामो भवतीत्यर्थः। ननु देवदत्तः सुखायते इति कथम्(), देवदत्तस्य सुखत्वाऽभावादित्यत आह-- सुखादय इति। श्यामादिषु ये सुखदुःखादिशब्दा गुणवनचास्ते सुखादिगुणवति वत्र्तन्ते इत्यर्थः। एवंच "सुखायते" इत्यस् सुखवान् भवतीत्यर्थः। एवं "दुखायते" इत्यादावपि। ननु लोहितशब्दाद्विहितः क्यष् कथं लोहिनीशब्दात्स्यादित्यत आह--- लिङ्गविशिष्टेति।

तत्त्व-बोधिनी
वा क्यषः ४२३, १।३।९०

तस्येति। आदिशब्दस्येत्यर्थः।

* लोहितडाज्भ्यः क्यष्वचनं, भृशादिष्वितराणि। तस्यापीति। क्यषः ककारस्येत्यर्थः। एतेन "नः क्ये" क्यस्य विभाषे"ति सूत्रद्वये क्यषोऽपि ग्रहणं वदन्तः परास्ताः। लोहनीयतीति। क्यङि सति तङेव स्यात्, "क्यङ्मानिनोश्चे"ति पुंवद्भावश्चेति भावः।