पूर्वम्: १।३।९३
अनन्तरम्: १।४।२
 
प्रथमावृत्तिः

सूत्रम्॥ आ कडारादेका संज्ञा॥ १।४।१

पदच्छेदः॥ कडारात् ५।१ एका १।१ संज्ञा १।१

काशिका-वृत्तिः
आ कडारादेका संज्ञा १।४।१

काडराः कर्मधारये २।२।३८ इति वक्ष्यति। आ एतस्मात् सूत्रावधेर्यदित ऊर्ध्वम् अनुक्रमिष्यामः, तत्र एका संज्ञा भवति इति वेदितव्यम्। का पुनरसौ? या परा अनवकाशा च। अन्यत्र सञ्जासमावेशान् नियमार्थं वचनम् एकैव संज्ञा भवति इति। वक्ष्यति ह्रस्वं लघु १।४।१०, भिदि, छिदि भेत्ता, छेत्ता। संयोगे गुरु १।४।११, शिक्षि, भिक्षि शिक्षा, भिक्षा। संयोगपरस्य ह्रस्वस्य लघुसंज्ञा प्राप्नोति, गुरुसंज्ञा च। एका संज्ञा इति वचनाद् गुरुसंज्ञा एव भवति। अततक्षत्, अररक्षत्, सन्वल्लघुनि चङ्परे ऽनग्लोपे ७।४।९३ इत्येष विधिर् न भवति।
लघु-सिद्धान्त-कौमुदी
आकडारादेका संज्ञा १६६, १।४।१

इत ऊर्ध्वं कडाराः कर्मधारय इत्यतः प्रागेकस्यैकैव संज्ञा ज्ञेया। या परानवकाशा च॥
न्यासः
आ कडारादेका संज्ञा। , १।४।१

"या परा" इति। यत्र विप्रतिषेधस्तत्र "विप्रतिषेधे परम्" १।४।२ इति वचनात् परा भवति। "अनवकाशा च या" इति। यस्याः संज्ञायाः क्वचिदवकाशो नास्ति, साऽप्यपवादभूत्वात् संज्ञान्तरं बाधित्वा प्रवत्र्तते। यद्येवम्, अत एव संज्ञासमावेशो न भविष्यति, तत् किमेकसंज्ञाधिकारेण? नैतदस्ति, विरोधे हि सत्यपवादभूतत्वं भवति। विप्रतिषेधस्तु विरोध एव, स च विरोध एकसंज्ञाधिकारे सति भवति, नासति; तथा हि यत्रैकसंज्ञाधिकारो नास्ति, तत्र विप्रतिषेधो नास्त्येव, यथा-- प्रत्ययादीनां संज्ञायाम्; तस्मादस्मिन्नधिकारे सति विरोधो भवति। त()स्मश्च सति "विरोधे परम्" इति वचनात् परा भवति,?पवादभूतत्वादनवकाशा च। तस्मात् कत्र्तव्योऽयमधिकारः। यद्येवम्, अङसंज्ञायां भपदसंज्ञयोः समावेशो वक्तव्यः-- बाभ्रव्यः, धानुष्क इति। बभ्रुशब्दात् "मधुब्राभ्व्रोब्र्राआहृणकौशिकयोः" ४।१।१०६ इति यञ्। तत्र भत्वात् "ओर्गुणः" ६।४।१४६ अङ्गत्वादादिवृद्धिः, तत्र "वान्तो यि प्रत्यये" ६।१।७६ इत्यवादेशः; धनुःशब्दाच्च धनुः प्रहरणमस्य "तदस्य प्रहरणम्" ४।४।५७ इति ठक्; "इसुसुक्तान्तात्कः" ७।३।५१ इति कादेशः, अत्र पदत्वात् "इणः षः" ८।३।३९ इति षत्वम्। अङ्गत्वादादिवृद्धिर्न वक्तव्या। "वा क्यषः" १।३।९० इततो वाग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा। तेन क्वचित् संज्ञासमावेशो भविष्यतीति। "अन्यत्र " इति। लोके च, शास्त्रे च। लोके तावत्-- इन्द्रः, शुक्रः, पुरन्दर इति संज्ञायाः समावेशो दृष्टः। शास्त्रेऽपि प्रत्ययः,कृत्, कृत्यप्रत्ययः। एवमन्यत्र संज्ञासमावेशादिहापि स्यात्, अतएवैका संज्ञा यथा स्यादिति नियमार्थमेतत्। "भिदिश्छिदिः" इति। लघुसंज्ञाया अवकाशः। प्रयोजनं तु-- "भेत्ता, छेत्ता" इति। "पुगन्तलघूपधस्य" ७।३।८६ इति गुणः। "शिक्षिर्भिक्षिः" इति। गुरुसंज्ञाया अवकाशः। प्रयोजनं-- "शिक्षा, भिक्षा" इत। "गुरोश्च हलः" ३।३।१०३ इत्यकारप्रत्ययः। लघुसंज्ञा त्वत्र प्रयोजनाभावान्न भवति। इहोभयं प्राप्नोति-- "अततक्षत्, अररक्षत्" इति। परत्वाद्गुरुसंज्ञैव भवति। "तक्षूत्वक्षू तनूकरणे" (धा।पा।६५५, ६५६), "रक्ष पालने" (धा।पा।६५र८), हेतुमण्णिच्, लुङ, च्लेश्चङ, णिलोपः, "चङि" ६।१।११ इति द्वर्वचनम्। यद्यत्र लघुसंज्ञा स्यात्, "सन्वल्लघुनि" ७।४।९३ इत्यादिना सन्वद्भावादित्वं स्यात्। तदभावान्न भवतीत्याह-- "सन्वल्लघुनि" इत्यादि। "एष विधिः " इति। सन्वद्भावविधिः। परस्या इदमुदाहरणमुक्तम्। अनवकाशायास्तूच्यते-- अयन्ते योनिरृत्विय इति। ऋतुः प्राप्तोऽस्तेति "ऋतोरण्" ५।१।१०४ "छन्दसि घस्" ५।१।१०५ इति घस्; तस्येयादेशे कृते "सिति च" १।४।१६ इति पदसंज्ञा प्राप्नोति, "यचि भम्" १।४।१८ इति भसंज्ञा च, अनवकाशत्वात् पदसंज्ञैव भवति। यदि भसंज्ञा स्यात् तदा "ओर्गुणः" ६।४।१४६ इति गुणः स्यात्। भसंज्ञायास्त्वौपगवादिष्ववकाशः। आ कडारादितीयतोऽवधेग्र्रहणं वैचित्र्यार्थम्; अन्यथा हि "आ द्वन्द्वात इत्येवं ब्राऊयात्। न हि द्वन्द्वसंशब्दानात् परेणाकडारादेकसंज्ञाविधानस्य प्रयोजनमस्ति; यत एतावतोऽवधेग्र्रहणमर्थवद्भवति॥
बाल-मनोरमा
आ कडारादेका संज्ञा २३०, १।४।१

नह्रत्र द्वयोरपि संज्ञयोः समावेसे विरोधोऽस्ति, तव्यत्तव्यानीयरादौ कृत्कृत्यप्रत्ययादिसंज्ञासमावेशदर्शनादित्यत आह-आ कडारा। आङ्मर्यादायामित्याह--कडाराः कर्मधारये इति। आङिह नाभिविधौ। कडारशब्दस्यापि प्रवेशे प्रयोजनाऽभावात्। "प्राक्कडारा"दिति कडारशब्दस्तु नोत्तरावधिः। "कडाराः कर्मधारये" इति कडारशब्दस्य उत्तरावधित्वेऽधिकलाभात्। "प्राक्कडारादित्युत्तरं तत्पुरुषः द्विगुश्चेति चकाराच्च। संज्ञाद्वयसमावेशषार्थो हि चकारः। तत्रैकसंज्ञाया नियमाऽप्रवृत्तौ किं तेन?। नन्वस्त्विह एकैव संज्ञा, तथापि विनिगमनाविरहाद्भसंज्ञैवेति कुतो लाभः?। तत्राह--या परेत्यादि। विरोधाऽभावेन विप्रतिषेधसूत्रस्य सामान्याद्विशेषबलीयस्त्वस्य चाऽप्रवृत्तावपि परत्वनिरवकाशत्वयोरन्यत्र बलवत्त्वेन दृष्टत्वादिहापि ताभ्यां व्यवश्ता युज्यते इति भावः। द्वयोः सावकाशयोः परा संज्ञा बलवती। अन्यतरस्या निरवकाशत्वे तु सैवेति बोध्यम्। तत्र परा यथा--"धनुषा शरैर्विध्यती"त्यत्र शराणां विश्लेषं प्रत्यवधिभूतस्यैव धनुषा व्यधनं प्रति साधकतमत्वादपादानत्वे करणत्वे च प्राप्ते परा करणसंज्ञैव भवति। अनवकाशा यथाअततक्षदिति। अत्र तकारादकारस्य "संयोगे गुरु" इति गुरुसंज्ञैवाऽनवलकाशत्वाद्भवति, नतु लघुसंज्ञा। तस्या असंयोगे परे चरितार्थत्वात्। अतः सन्वल्लघुनीति तत्र न प्रवर्तते। तेनेति। अनवकाशत्वेनेत्यर्थः। अत इति। पदत्वाऽभावाज्जश्त्वं नेत्यर्थः। जश्त्वमिति। दत्-भ्यामिति स्थिते "स्वादिष्वसर्वनामस्थाने" इति पदान्तत्वात्। "झलां जशोऽन्ते" इति जश्त्वमित्यर्थः। इत्यादीति। दद्भिः दते इत्यादिरादिशब्दार्थः। "खरि च" इति चर्त्वे-दत्सु। पक्षे रामवत्। मास इति। मासशब्दस्य शसि "पद्दन्न" इति मासित्यादेशे रूपम्। मासेति तृतीयैकवचनम्। रुत्व इति। मास्-भ्याम् इति स्थिते स्वादिष्विति पदत्वात् "ससजुषोः" इति रुः। "भोभगो" इति तस्य यकारे "हलि सर्वेषा"मिति तस्य लोपे माभ्यां" "माभि"रिति रूपमित्यर्थः। इत्यादीति। "माब्यः" इत्यादिरादिशब्दार्थः। मास्-सु इति स्थिते रुत्वे "खरवसानयोः" इति विसर्गे "वा शरि" इति सत्वविकल्पः। मास्सु-माःसु।

तत्त्व-बोधिनी
आ कडारादेका संज्ञा १९५, १।४।१

आ कडारा। इह "प्राक्कडारात्मसमासः" इत्यस्य नावधित्वं, व्याप्तिन्यायात्। "तत्पुरुषो द्विगुश्चे"ति लिङ्गाच्च। संज्ञाद्वयसमावेशार्थं हि तत्र चकारः। तदाह-कडाराः कर्मधारय इत्यत इति। एकस्यैकैव संज्ञेति। उभयोः सावकाशत्वे "विप्रतिषेधे पर"मिति परैव गृह्रते, निरवकाशत्वे तु सैव। तत्र परस्या उदाहरणं--"धनुषा विध्यती"ति। अत्र शराणामपायं प्रत्यवधिभूतस्यैव धनुषो व्यधनं प्रति साधकत्वमित्युभयप्रसङ्गे परत्वात्करणसंज्ञा अपादानसंज्ञां बाधते। निरवकाशायाः पूर्वस्यास्तदाहरणं "भवतष्ठक्छसौ" भवदीय इति। अत्र हि "सिति चे"ति पदसंज्ञा परामपि भसंज्ञां बाधते, निरवकाशत्वात्। तेन तकारस्य जश्त्वं भवति। प्रकृते तु पराऽनवकाशा भसंज्ञा पदसंज्ञां बाधते इति शसादावचि सैव ग्रहीतुमुचितेत्याशयेनाह--या परेत्यादि। यलोप इति। "हलि सर्वेषा"मित्यनेन। "लोपो व्योर्वली"ति तु न प्रवर्तते, यत्वास्याऽसिद्धत्वात्।