पूर्वम्: १।४।९
अनन्तरम्: १।४।११
 
प्रथमावृत्तिः

सूत्रम्॥ ह्रस्वं लघु॥ १।४।१०

पदच्छेदः॥ ह्रस्वम् १।१ ११ लघु १।१

अर्थः॥

ह्रस्वम् अक्षरं लघुसंज्ञकं स्यात्।

उदाहरणम्॥

भेत्ता, चेत्ता। अचीकरत्। अजीहरत्॥
काशिका-वृत्तिः
ह्रस्वं लघु १।४।१०

मात्रिकस्य ह्रस्वसंज्ञा कृता तस्य अनेन लघुसंज्ञा विधीयते। ह्रस्वम् अक्षरं लघुसंज्ञं भवति। भेता। छेत्त। अचीकरत्। अजीहरत्। लघुप्रदेशाः पुगन्तलघूपधस्य च इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
ह्रस्वं लघु ४५०, १।४।१०

न्यासः
ह्यस्वं लघु। , १।४।१०

"भेत्ता" इति। "पुगन्तलघूपधस्य च" ७।३।८६ इति गुणः। "अचीकरत्" इत। कृञो णिच्, लुङ, अडागमः, च्लेश्चङ, णिलोपः,"णौ चङ्युपधायाः" ७।४।१ इति ह्यस्वः। "ओः पुयण्च्यपरे" ७।४।८० इति वचनं ज्ञापकम्-- णौ कृतं स्थानिवद्भवतीति। "चङि" ६।१।११ इति कृशब्दो द्विरुच्यते। "उरत्" ७।४।६६ इत्यत्त्वम्, रपरत्वम्, "सन्वल्लघुनि" ७।४।९३ इति लघुसंज्ञायां सत्यां सन्वद्भावादित्त्वम्, "दीर्घो लघोः" ७।४।९४ इति दीर्घत्वम्॥
बाल-मनोरमा
ह्यस्वं लघु ३३, १।४।१०

ह्यस्वं लघु। ह्यस्वं लघुसंज्ञं स्यादित्यर्थस्य स्पष्टत्वान्न व्याख्यातम्। अत एव निर्देसाद्ध्रस्वशब्दो नपुंसकलिङ्गोऽपि।