पूर्वम्: १।४।९९
अनन्तरम्: १।४।१०१
 
प्रथमावृत्तिः

सूत्रम्॥ तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः॥ १।४।१००

पदच्छेदः॥ तिङः ६।१ १०३ त्रीणि १।३ १०३ त्रीणि १।३ १०३ प्रथम-मध्यमोत्तमाः १।३

समासः॥

प्रथमश्च, मध्यमश्च, उत्तमश्च, प्रथम-मध्यमोत्तमाः, इतरेतरद्वन्द्वः

अर्थः॥

तिङ् (अष्टादश-प्रत्ययाः) त्रीणि त्रीणि, यथाक्रमं प्रथम-मध्यम-उत्तम-संज्ञकाः भवन्ति

उदाहरणम्॥

तिप्, तस्, झि इति प्रथमः पुरुषः। सिप्, थस्, थ इति मध्यमः। मिप्, वस्, मस् इति उत्तमः
काशिका-वृत्तिः
तिङस् त्रीणि त्रीणि प्रथममध्यमौत्तमाः १।४।१०१

तिङो ऽष्टादश प्रत्ययाः। नव परस्मैपदसंज्ञकाः, नवाऽत्मनेपदसंज्ञकाः। तत्र परस्मैप्रदेषु त्रयस्त्रिकाः यथाक्रमं प्रथममध्यमौत्तमसंज्ञा भवन्ति। तिप्, तस्, झि इति प्रथमः। सिप्, थस्, थ इति मद्यमः। मिप्, वस्, मसिति उत्तमः। आत्मनेपदेषु त, आताम्, झ इति प्रथमः। थास्, आथाम्, ध्वम् इति मध्यामः। इट्, वहि, महिङिति उत्तमः। प्रथममध्यमौत्तमप्रदेशाः शेषे प्रथमः १।४।१०७ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः ३८३, १।४।१००

तिङ उभयोः पदयोस्त्रिकाः क्रमादेतत्संज्ञाः स्युः॥
बाल-मनोरमा
तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः १०, १।४।१००

तिङः षट् त्रिकाः,संज्ञास्तु तिरुआ इति यथासङ्ख्याऽसम्भवादेकैकस्य त्रिकस्य तिसृषु संज्ञासु प्राप्तास्वाह-- तिङ उभयोः पदयोरिति। "लः परस्मैपद"मित्यतः परस्मैपदमिति, "तङानावात्मनेपद"मित्यत आत्मनेपदमिति चानुवृत्तं षष्ठ()न्ततया विपरिणम्यते। ततश्च परस्मैपदात्मनेपदयोरुभयोरपि प्रत्येकं त्रयस्त्रिकाः सन्तीति यथासङ्ख्यं प्रथमादिसंज्ञाः प्रवर्तन्त इति भावः। प्रथमादिषु पुरुषसंज्ञा तु प्राचीनाचार्यशास्त्रसिद्धेति बोध्यम्।

तत्त्व-बोधिनी
तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः ९, १।४।१००

तिङ षट् त्रिकाः, संज्ञास्तु तिरुआ इति यथासङ्ख्याऽसम्भवादेकैकस्य त्रिकस्य तिसृषु संज्ञासु उभयोरिति। परस्मैपदमात्मनेपदमिति चानुवर्तते। तेन पदद्वये प्रत्येकं त्रयस्त्रिका इतियथासंङ्ख्यं संज्ञाः प्रवर्तन्त इति भावः। ननु प्रथमश्च् प्रथमश्च प्रथमौ, मध्यमश्च मध्यमश्च मध्यमावित्येवं कृतैकशेषाणां प्रथमादीनां, प्रथमौ च मध्यमौ च उत्तमौ च प्रथममध्यमोत्तमा इति द्वन्द्वेऽभ्युपगते त्रिकद्वयस्य त्रकद्वयस्य यथासङ्ख्यं प्रथममद्यमोत्तमसंज्ञाः स्युर्न त्वेकैकस्येति "णलुत्तमो वे"ति सूत्रं विरध्येत, णल उत्तमसंज्ञकत्वाऽलाभात्, ततश्च "प्रथममद्यमोत्तमा" इत्यत्र कृतद्वन्द्वानां प्रथममध्योमोत्तमाश्च प्रथममद्यमोत्तमाश्चेत्येकशेष आश्रीयताम्, तथाहि सति सञ्ज्ञा अपि षडिति परस्मैपदात्मनेपदग्रहणानुवृत्तिक्लेशं विनैवेष्टसिद्धिरिति चेत्। मैवम्। एकदेशाश्रयणे गौरवाद्वैयथ्र्याच्च त्वयापि परस्मैपदात्मनेपदग्रहणमनुवर्त्त्यमेव। अन्यथा शतृक्वस्वोः सावकाशा परस्मैपदसंज्ञा प्रथमादिसंज्ञया बाध्येत। ततश्च क्राम्यति पदानामिति विहितस्य णलो "णलुत्तमो वे"ति णित्त्वविकल्पविधानाज्ज्ञापकात्परस्मैपदसंज्ञा प्रथमादिसंज्ञया न बाध्यत इति ब्रूषे, तर्हि सुतरां प्रतिपत्तिगौरवम्॥