पूर्वम्: १।४।१०१
अनन्तरम्: १।४।१०३
 
प्रथमावृत्तिः

सूत्रम्॥ सुपः॥ १।४।१०२

पदच्छेदः॥ सुपः ६।१ १०३ एकवचन-द्विवचन-बहुवचनानि ६।१ १०१ एकशः १०१ त्रीणि १।३ १०० त्रीणि १।३ १००

अर्थः॥

सुपश्च त्रीणि त्रीणि एकशः (क्रमेण) एकवचन-द्विवचन-बहुवचन-संज्ञकानि भवन्ति

उदाहरणम्॥

सु (एकवचनम्), औ (द्विवचनम्), जस् (बहुवचनम्) एवं सर्वत्र
काशिका-वृत्तिः
सुपः १।४।१०३

तिङां त्रिकेषु एकवचनादिसंज्ञा विहिताः। सम्प्रति सुपाम् त्रिकेषु विधीयन्ते। सुपश्च त्रीणि त्रीणि पदानि एकश एकवचनद्विवचनबहुवचनसंज्ञानि भवन्ति। सु इति एकवचनम्। औ इति द्विवचनम्। जसिति बहुवचनम्। एवम् सर्वत्र।
लघु-सिद्धान्त-कौमुदी
सुपः १२२, १।४।१०२

सुपस्त्रीणि त्रीणि वचनान्येकश एकवचनद्विवचनबहुवचनसंज्ञानि स्युः॥
न्यासः
सुपः। , १।४।१०२

सुविति प्रत्याहारग्रहणम्। प्रथमैकवचनात् सुशब्दादारभ्य सप्तमीबहुचनस्य सुपः पकारेण। अथ कपः पकारेणायं प्रत्याहार कस्मान्न विज्ञायते? सप्तमीबहुवचनस्य पकारस्य वैयथ्र्यप्रसङ्गात्। स ह्रनुदात्तार्थः स्यात्? प्रत्याहारार्थो वा? तत्रानुदात्तार्थो न भवति; अनुदात्तस्य सुपत्वादेव सिद्धत्वात्। तत्र यदि प्रत्याहारार्थोऽपि न स्यात् तदास्यापार्थकत्वमेव स्यात्। तस्मात् तेनैवायं प्रत्याहारो विज्ञायते, न तु कपः पकारेण; स्वरविधौ तस्य चरितार्थत्वात्॥
बाल-मनोरमा
सुपः १८४, १।४।१०२

सुपः। सुप् प्रत्याहारः, षष्ठ()एकवचनम्। "तान्येकवचनद्विवचनबहुवचनान्येकशः" इति सूत्रं तानीतिवर्जमनुवर्तते। एकश इति। एकैकमित्यर्थः "सङ्ख्यैकवचनाच्च वीप्सायाम्" इति शश्। शसैव वीप्साया अबिधानात् "नित्यवीप्सयोः" इति द्वित्वं न। तच्च "सङ्ख्यैकवचनाच्चे"ति सूत्रव्याख्यावसरे प्रपञ्चयिष्यते। "तिङस्त्रीणि त्रीणी"त्यतः "त्रीणि त्रीणि"त्यनुवर्तते। तदाह--सुपस्त्रीणीत्यादिना।

तत्त्व-बोधिनी
सुपः १५३, १।४।१०२

सुपः। अत्र "तिङस्त्रीणि त्रीणि"--इति सूत्रात् "त्रीणि त्रीणी"ति पदं, "तान्येकवचने"ति सूत्रं च "तानी"ति पदं विहायानुवर्तत इति व्याचष्टे--सुपस्त्रीणि त्रीणित्यादिना। एकश इति। एकैकमित्यर्थः। सङ्ख्यैकवचनाच्चे"ति वीप्सायां प्रथमान्ताच्छस्।