पूर्वम्: १।४।१०२
अनन्तरम्: १।४।१०४
 
प्रथमावृत्तिः

सूत्रम्॥ विभक्तिश्च॥ १।४।१०३

पदच्छेदः॥ विभक्तिः १।१ सुपः ६।१ १०२ तिङ् ६।१ १०० त्रीणि १।३ १०० त्रीणि १।३ १००

अर्थः॥

सुपः तिङश्च त्रीणि त्रीणि विभक्तिसंज्ञकानि च भवन्ति

उदाहरणम्॥

पठतः, पुरुषान्
काशिका-वृत्तिः
विभक्तिश्च १।४।१०४

विभक्तिश्च ।त्रीणि त्रीणि इत्यनुवर्तते। त्रीणि त्रीणि विभक्तिसंज्ञाश्च भवन्ति सुपस्तिङश्च। विभक्तिप्रदेशाः अष्टन आ विभक्तौ ७।२।८४ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
विभक्तिश्च १३०, १।४।१०३

सुप्तिङौ विभक्तिसंज्ञौ स्तः॥
न्यासः
विभक्तिश्च। , १।४।१०३

चकारः पुरुषादिसंज्ञासमावेशार्थः। विना तेनैकसंज्ञाधिकारे वचनप्रामाण्यात् पर्यायः स्यात्। तिङो विभक्तत्वे प्रयोजनम् "न विभक्तौ तुस्माः" (र१।३।४) इतीत्संज्ञाप्रतिषेधः। सुपस्त्वेच्च, अन्यच्च त्यदाद्यत्वादि॥
बाल-मनोरमा
विभक्तिश्च १८३, १।४।१०३

अथ "न विभक्तो तुस्माः" इत्याद्युपयोगिनी विभक्तिसंज्ञामाह--विभक्तिश्च। "सुप" इति पूर्वसूत्रात्सुब्ग्रहणम्, "तिङस्त्रीणी"त्यतस्तिङ्ग्रहणं चानुवर्तते, एकदेशे स्वरितत्वप्रतिज्ञाबलात्। तदाह--सुप्तिङाविति। चकारः पुरुषवचनसंज्ञाभिः समावेशार्थः। तेन एकसंज्ञाधिकारस्थत्वेऽपि न पर्यायत्वम्। अन्यथा "रामेभ्यः" "भवाम" इत्यादौ विभक्तिसंज्ञाविरहेण "न विभक्ता"विति निषेधो न स्यात्।

ननु प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा, कर्मणि द्वितीया, कर्तृकरणयोस्तृतीया, चतुर्थी सम्प्रदाने, अपादाने पञ्चमी, षष्ठी शेषे, सम्पतम्यधिकरणे चेत्यादौ कथं प्रथमादिव्यवहारः , सूत्रकृता पाणिनिना प्रथमादिसंज्ञानामनुक्तत्वादित्यत आह--तत्रेति। तेषु स्वादिप्रत्ययेषु मध्य इत्यर्थः। इत्यादीनामिति। आदिना--अम्--औट्--शस्--इत्यादीनां ग्रहणम्। प्राचामिति। पाणिनेः पूर्वेषां स्फोटायनाद्याचार्याणां शास्त्रे प्रथमाद्याः सप्तम्यन्ताः संज्ञाः स्थिता इत्यन्वयः। किं तत् इत्यत आह--ताभिरिति। ताभिः=प्रथमादिसंज्ञाभिरिहापि=पाणिनीयशास्त्रेऽपि व्यवहारः--सम्भवतीत्यर्थः।

तत्त्व-बोधिनी
विभक्तिश्च १५२, १।४।१०३

विभक्तिश्च। "तिङ्स्त्रीणि त्रीणि--" इत्यतस्तिङ्ग्रहणं व्यवहितमपि स्वरितत्वबलादनुवर्तते। "सुपः" इति च संनिहितमित्यभिप्रेत्याहु--सुप्तिङाविति। तिङां विभक्तिसंज्ञायाः प्रयोजनं "न विभक्तौ तुस्माः" इति। सुपां तु त्यदाद्यत्वादिकमपि। चकारः पुरुषवचनसंज्ञाभ्यां संमावेशार्थः। अन्यथा एकसंज्ञाधिकारादेकवचनादिसंज्ञाभिः सह वचनद्वयप्रामाण्यात्पर्यायः स्यात्। ततश्च "रामेभ्यो" "नमाम" इत्यादौ बहुवचनसंज्ञापक्षे विभक्तित्वाऽभावात्सस्येत्संज्ञा स्यात्। इहापीति। अस्मिन्नपि तन्त्रे "प्रातिपदिकार्थलिङ्गपरिमाणे"त्यादावित्यर्थः।