पूर्वम्: १।४।१०४
अनन्तरम्: १।४।१०६
 
प्रथमावृत्तिः

सूत्रम्॥ प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च॥ १।४।१०५

पदच्छेदः॥ प्रहासे ७।१ मन्योपपदे ७।१ मन्यतेः ६।१ उत्तमः १।१ एकवत् युष्मदि ७।१ १०४ उपपदे ७।१ १०४ समानाधिकरणे ७।१ १०४ स्थानिनि ७।१ १०४ अपि १०४ मध्यमः १।१ १०४

समासः॥

मन्ये उपपदे यस्य सः मन्योपपदः, तस्मिन् ॰ बहुव्रीहिः।

अर्थः॥

प्रहासः = परिहासः। प्रसाहे गम्यमाने मन्योपपदे धातोः युष्मदि उपपदे समानाधिकरणे स्थानिनि अपि मध्यमपुरुषः भवति, मन्यतेः धातोः च उत्तमपुरुषः भवति, सः च उत्तमः एकवद् भवति॥

उदाहरणम्॥

एहि मन्ये ओदनं भोक्ष्यसे, नहि भोक्ष्यसे, भुक्तः सोऽतिथिभिः। एहि मन्ये रथेन यास्यसि, नहि यास्यसि, यातः तेन ते पिता।
काशिका-वृत्तिः
प्रहासे च मन्यौपपदे मन्यतेरुत्तम एकवच् च १।४।१०६

प्रहासः परिहासः क्रीडा। प्रहासे गम्यमाने मन्यौपपदे धातोर् मध्यमपुरुषो भवति, मन्यतेश्चौत्तमः, स च एकवद् भवति। एहि मन्ये ओदनम् भोक्ष्यसे इति, न हि भोक्ष्यसे, भुक्तः सो ऽतिथिभिः। एहि मन्ये रथेन यास्यसि, न हि यास्यसि, यात्स्तेन ते पिता। मध्यमौत्तमयोः प्राप्तयोः उत्तममध्यमौ विधीयेते। प्रहासे इति किम्? एहि मन्यसे ओदनं भोक्ष्ये इति। सुष्ठु मन्यसे। साधु मन्यसे।
न्यासः
प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च , १।४।१०५

"प्रहासे गम्यमाने" इति। यत्र भूतार्थाभावाद्वञ्चनैव केवलं तत्र वक्तुरभिप्रयाविष्करणेन प्रहासो गम्यते। "मन्योपपदे" इति।मन्यतिरुपपदमुपोच्चारितं पदं यस्य स तथोक्तः। मध्यमस्य धातोर्विधानात् धातुरन्यपाद्रथो विज्ञायत इत्याह-- "धातोःट इति। "स चैकवत्" इति। यत्र द्वौ मन्तारौ बहवो वा तत्रायमेकवद्भावो विधीयते। अन्यत्र तु मन्तुरेकत्वादेवैकवचनं सिद्धम्। "मध्यमोत्तमयोः" इति। यथाक्रमं युष्मदस्मदोरुपपदयोः समानाधिकरणयोरप्रयुज्यमानयोरप्यर्थस्य विद्यमानत्वात्। यथा प्रत्युदाहरणे पूर्वकमुपपदग्रहणं युष्मच्छब्देनाभिसम्बद्धमिहानुवत्र्तेतेति तन्मन्यतिनाऽशक्यमभिसम्बन्धृमिति पुनरुपपदग्रहणं क्रियते। मन्यतेरिति श्यना निर्देशः, इत्यस्य तानादिकस्य ग्रहणं मा भूदत्येवमर्थः। तेनेनह न भवति-- एहि मनुषे रथेन यास्यामि न हि यास्यसि यातस्तेन ते पितेति। एवं हि मनोतेर्भवति॥
बाल-मनोरमा
प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च १३, १।४।१०५

प्रहासे च। वाक्यद्वयमिदं सूत्रम्। "प्रहासे च मन्योपपदे इति प्रथमं वाक्यम्। मध्यम इत्यनुवर्तते। मनधातुः श्यन्विकरण उपपदं यस्येति बहुव्रीहिः। मन्यपदश्रवणबलाद्धाताविति विशेष्यं लभ्यते। तदाह--मन्यधातुरित्यादिना। तस्मिन्प्रकृतिभूते सतीति। तस्माद्धातोर्लस्य स्थाने इत्यर्थः। मध्यमः स्यादिति। "अस्मद्युपपदे" इति शेषः। अस्मद्युत्तमं इत्युत्तरसूत्रात्तदनुवृत्तेः। एवं च उत्तमपुरुषापवादोऽयं मध्यमविधिः। "मन्यतेरुत्तम एकवच्चे"ति द्वितीयं वाक्यम्। तद्व्याचष्टे-- मन्यतेस्तूत्तमः स्यादिति। "युष्मद्युपपदे" इति शेषः। पूर्वसूत्रात्तदनुवृत्तेः। स चेति। सः = मन्येतरुत्तमपुरुषः,द्वित्वबहुत्वयोरपि एकवचनं लभत इत्यर्थः। मध्यमोत्तमयोव्र्यत्यासार्थमिदम्। एतत्सर्वमनुपदमेवोदाहरणे स्पष्टीभविष्यति।

तत्त्व-बोधिनी
प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च १२, १।४।१०५

वाक्यद्वयमिदं सूत्रम्। "प्रहासे च मन्योपपदे" इति प्रथमं वाक्यम्। मध्यम इत्यनुवर्तते। मनधातुः श्यन्विकरण उपपदं यस्येति बहुव्रीहिः। मन्यपदश्रवणबलाद्धाताविति विशेष्यं लभ्यते। तदाह-- मन्यधातुरित्यादिना। तस्मिन्प्रकृतिभूते सतीति। तस्माद्धातोर्लस्य स्थाने इत्यर्थः। मध्यमः स्यादिति। "अस्मद्युपपदे" इति शेषः। अस्मद्युत्तमं इत्युत्तरसूत्रात्तदनुवृत्तेः। एवं च उत्तमपुरुषापवादोऽयं मध्यमविधिः। "मन्यतेरुत्तम एकवच्चे"ति द्वितीयं वाक्यम्। तद्व्याचष्टे--- मन्यतेस्तूत्तमः स्यादिति। "युष्मद्युपपदे" इति शेषः। पूर्वसूत्रात्तदनुवृत्तेः। स चेति। सः = मन्यतेरुत्तमपुरुषः, द्वित्वबहुत्वयोरपि एकवचनं लभत इत्यर्थः। मद्यमोत्तमयोव्र्यत्यासार्थमिदम्। एतत्सर्वमनुवपदमेवोदाहरणे स्पष्टीभविष्यति।