पूर्वम्: १।४।१०५
अनन्तरम्: १।४।१०७
 
प्रथमावृत्तिः

सूत्रम्॥ अस्मद्युत्तमः॥ १।४।१०६

पदच्छेदः॥ अस्मदि ७।१ उत्तमः १।१ उपपदे ७।१ १०४ समानाधिकरणे ७।१ १०४ स्थानिनि ७।१ १०४ अपि १०४

अर्थः॥

अस्मदि उपपदे स्मानाभिधेये सति प्रयुज्यमानेऽपि अप्रयुज्यमानेऽपि उत्तमपुरुषः भवति।

उदाहरणम्॥

अहं पचामि। आवां पचावः। वयं पचामः॥ अप्रयुज्यमानेऽपि -- पचामि, पचावः, पचामः॥
काशिका-वृत्तिः
अस्मद्युत्तमः १।४।१०७

उत्तमपुरुषो नियम्यते। अस्मद्युपपदे समानाभिधेये प्रयुज्यमाने ऽप्यप्रयुज्यमाने ऽपि उत्तमपुरुषो भवति। अहम् पचामि। आवाम् पचावः। वयम् पचामः। अप्रयुज्यमाने ऽपि पचामि। पचावः। पचामः।
लघु-सिद्धान्त-कौमुदी
अस्मद्युत्तमः ३८६, १।४।१०६

तथाभूतेऽस्मद्युत्तमः॥
न्यासः
अस्मद्युत्तमः। , १।४।१०६

यदा युष्दस्मदी द्वे अप्येते उपपदे स्तः, तदा कथं भवितव्यम्? यदि कर्त्तृशक्ती आधारप्रतिनियते अपेक्ष्येते, तदाऽ‌ऽख्यातमपि पृथगेव प्रयुज्यते-- पचसि पचामि चेति। अथाविरोधाच्छक्तिद्वयेऽपि लकार उत्पद्यते, तदा विप्रतिषेधादुत्तम एव भवति-- त्वञ्चाहञ्च पचाव इति। यद्यपि "त्यदादीनां यद्यत्परं तच्छिष्यते" भवति। आवां पचाव इत्यत्र ह्रस्मच्छब्दस्य युष्मदर्थोऽपि वाच्यः, अन्यथा हि द्विवचनं न स्यात्। न ह्रस्मच्छब्दस्यैव द्वित्वमुपपद्यते॥
बाल-मनोरमा
अस्मद्युत्तमः १४, १।४।१०६

अस्मद्युत्तमः। तथाभूत इति। तिङ्वाच्यकारकवाचिनि अप्रयुज्यमाने प्रयुज्यमाने चेत्यर्थः।

तत्त्व-बोधिनी
अस्मद्युत्तमः १३, १।४।१०६

तथाभूते इति। तिङ्वाच्यकारकवाचिनि प्रयुज्यमानेऽप्रयुज्यमाने चेत्यर्थः॥