पूर्वम्: १।४।१०६
अनन्तरम्: १।४।१०८
 
प्रथमावृत्तिः

सूत्रम्॥ शेषे प्रथमः॥ १।४।१०७

पदच्छेदः॥ शेषे ७।१ प्रथमः १।१ उपपदे ७।१ १०४ समानाधिकरणे ७।१ १०४ स्थानिनि ७।१ १०४ अपि १०४

अर्थः॥

मधमोत्तम-विषयात् अन्यत्र शेषः। यत्र युष्मदस्मत्-समानाधिकरण-शब्दौ उपपदे न स्थः, तस्मिन् शेषे उपपदे समानाधिकरणे प्रयुज्यमाने, अप्रयुज्यमानेऽपि प्रथमपुरुषः भवति।

उदाहरणम्॥

सः पचति। तौ पचतः। ते पचन्ति। अप्रयुज्यमानेऽपि-पचति, पचतः, पचन्ति।
काशिका-वृत्तिः
शेषे प्रथमः १।४।१०८

शेषः इति मध्यमौत्तमविषयादन्य उच्यते। यत्र युष्मदस्मदी समनाधिकरणे उपपदे न स्तः, तत्र शेषे प्रथमपुरुषो भवति। पचति। पचतः। पचन्ति।
लघु-सिद्धान्त-कौमुदी
शेषे प्रथमः ३८७, १।४।१०७

मध्यमोत्तमयोरविषये प्रथमः स्यात्। भू ति इति जाते॥
न्यासः
शेषे प्रथमः। , १।४।१०७

बाल-मनोरमा
शेषे प्रथमः १५, १।४।१०७

शेषे। उक्तान्मध्यमोत्तमविषयादन्यः शेषः। तदाह--मध्यमोत्तमयोरविषय #इति। "त्वमहं च पचाव" इत्यत्र तु परत्वादुत्तमपुरुष एव न तु मध्यमः। "देवदत्तस्त्वं च पचथ" इत्यत्रापि न प्रथमपुरुषः, युष्मदस्सत्वेन शेषत्वाऽभावादित्यलम्। भू सत्तायामिति। "वर्तते" इति शेषः। भ्वादिगणे प्रथमो धातुरयम्। तत्र "भू"इत्येव गणे पाठः। अर्थनिर्देशस्त्वाधुनिक इति वक्ष्यते। यद्यपि सत्ता जातिः, न क्रिया, तथापि आत्मधारणं सत्तेत्युच्यते। स्वरूपेणाऽवस्थानमिति यावत्। कर्तृविवक्षायामिति। वर्तमानसत्तावृत्तेर्भूधातोः कर्तरि लटि आत्मनेपदनिमित्तहीनतया परस्मैपदे तिबादिनवके तत्रापि युष्मदस्मत्सामानाधिकरण्याऽभावात् प्रथमपुरुषत्रिके, तत्रापि कर्तुरेवकत्वविवक्षायां तिपि सति, भू-ति इति स्थिते प्रक्रिया वक्ष्यत इत्यर्थः।