पूर्वम्: १।४।१४
अनन्तरम्: १।४।१६
 
प्रथमावृत्तिः

सूत्रम्॥ नः क्ये॥ १।४।१५

पदच्छेदः॥ नः १।१ क्ये ७।१ पदम् १।१

अर्थः॥

क्ये परतः नान्तं शब्दरूपं पदसंज्ञं भवति।

उदाहरणम्॥

क्यच् -- राजीयति। क्यङ् -- राजायते। क्यप् -- चर्मायति, चर्मायते॥
काशिका-वृत्तिः
नः क्ये १।४।१५

क्ये इति क्यच् क्यङ् क्यशां सामान्यग्रहनम्। नान्तं शब्दरूपं क्ये परतः पदसंज्ञं भवति। क्यच् राजीयति। क्यङ् राजायते। क्यश् चर्मायति, चर्मायते। सिद्धे सत्यारम्भो नियमार्थः। नान्तम् एव क्ये परतः पदसम्ंज्ञम् भवति, न अन्यत्। वाच्यति। स्रुच्यति।
लघु-सिद्धान्त-कौमुदी
नः क्ये ७२६, १।४।१५

क्यचि क्यङि च नान्तमेव पदं नान्यत्। नलोपः। राजीयति। नान्तमेवेति किम्? वाच्यति। हलि च। गीर्यति। पूर्यति। धातोरित्येव। नेह - दिवमिच्छति दिव्यति॥
न्यासः
नः क्ये। , १।४।१५

"राजीयति" इति। आत्मनो राजानमिच्छतीति "सुप आत्मनः क्यच्" ३।१।८ "क्यचि च" ७।४।३३ इतीत्त्वम्। "राजायते" इति। राजेवाचरतीति "कर्त्तृः क्यङ सलोपश्च" ३।१।११ इति क्यङ। "अकृत्सार्वधातुकयोः" ७।४।२५ इति दीर्घः। "वर्मायते" इति। अवर्म भवतीति "लोहितादिडाज्भ्यः क्यष" ३।१।१३ इति क्यष्प्रत्ययः। "वा क्यषः" १।३।९० इत्यात्मनेपदम्। पदसंज्ञायामिह नलोपः कार्यः। ननु चैते क्यजादयः सुबन्तादेव विधीयन्ते प्रत्ययलक्षणेन, ततश्च "सुप्तिङन्तं पदम्" १।४।१४ इत्यनेनैवात्र पदसंज्ञा सिद्धा, तत् किमर्थोऽयमारम्भ इत्यत आह-- "सिद्धे सत्यारम्भो नियमार्थः" इति। सिद्ध इति सिद्धावित्यर्थः। "नपुंसके भावे क्तः" ३।३।११४ सिद्धत्वन्तु प्रकृतत्वात् पदसंज्ञाया एव विज्ञायते। अथ वा सिद्ध इत्यकर्मकत्वात् कर्तरि क्तप्रत्ययः। सिद्धे निष्पन्ने पदसंज्ञाकार्य इत्यर्थः। नान्तमेव इति। नियमस्य प्रतिषेधात्। विपरीतनियमे हि सति ङिसम्बुद्धयोः पदसंज्ञाया अभावान्नलोपो न भविष्यतीति किं तत्प्रतिषेधेन? "वाच्यति" इति। "सुप आत्मनः क्यच्" ३।१।८। क्यचि पदत्वाभावात् "चोः कुः" ८।२।३० इति कुत्वं न भवति॥
न्यासः
अनुर्यत्समया। , १।४।१५

यस्य समया यत्समयेति षष्ठीसमासोऽयम्। ननु च समयाशब्दयोगे "अभितः परितः समयानिकषा" (वा। ११९) इत्यादग्युपसंख्यानाद्द्वितीयया भवितव्यम्, अतः षष्ठ()एव तावन्न न सम्भवति, कुतः पुनस्तस्याः समासः? अथापि कथञ्चित् षष्ठी स्यात्, तथापि समयाशब्दस्याव्ययत्वत् "पूरणगुण" (२।२।११) इत्यादिना षष्ठीसमासप्रतिषेधेन भवितव्यम्? नैष दोषः; योगग्रहणादिह समयाशब्दार्थेन योगे द्वितीया विज्ञायते। स चार्थो मुख्य एव गृह्रते, न गौणः। स पुनर्मुख्योऽर्थः समीपम्। न चेह समयाशब्दस्य मुख्योऽर्थोऽस्ति, किं तर्हि? गौणोऽर्थः। अनुरेव समयाशब्देनोच्यते, तस्माच्छेषलक्षणा षष्ठ()एव न्याय्या। अत एव द्रव्यवाचित्वादव्ययसंज्ञाया अभावात् "पूरणगुण" २।२।११ इति प्रतिषेधो नोपपद्यते। "अनुर्यत्समया" इति। एतेनानुशब्दार्थे समयाशब्दो वत्र्तत इति दर्शयति। ननु च समयाशब्दस्य समीपमर्थः, तत्कथमनुशब्दः समयाशब्देनोच्येत इत्याह-- "यस्य समीपवाची"इति। एतेन समयाशब्दार्थाभिधायित्वादनुशब्दः समयाशब्देनोपचाराद्व्यपदिष्ट इत्याचष्टे। भवत्युपचारेण हि तदर्थाभिधायिनि तद्व्यपदेशः, यथा-- सीताहरणं काव्यमिति। तेनेत्यनेन यस्यानुशब्दः समयवाची स परामृश्यते। ननु च स#ओऽर्थः, तत्कुतस्तेन समासः? अर्थे कार्यासम्भवात् तद्वाचिनि शब्दे कार्यं विज्ञायते, तथा च तेनेत्यस्य तद्वाचिना शब्देनेत्ययमर्थोऽत्र गम्यते। "अनुवनम्" इति। तेनेत्यनेन यत् षष्ठ()न्तं तेन वनशब्देन समासः। वनस्यान्विति समीपसमीपिसम्बन्धे षष्ठ()एव युक्ता। "वनं समया" इति; पूर्वोक्तेनोपसंख्यानेन वनशब्दाद्द्वितीया। "वृक्षमनु विद्योतते विद्युत्" इति। अत्र कप्र्रवचनीयलक्षणा द्वितीया। अनुशब्दोऽत्र लक्षणे वत्र्तते, न सामीप्ये॥
बाल-मनोरमा
नः क्ये ४८४, १।४।१५

नः क्ये। नकारादकार उच्चारणार्थः। "सुप्तिङन्त"मित्यतः सुबन्तं पदमित्यनुवर्तते। सुबन्तं नकारेण विशेष्यते। तदन्तविधिः। नकारान्तं सुबन्तं पदसंज्ञं स्यादिति लभ्यते। सुबन्तत्वादेव पदत्वे सिद्धे नियमार्थमिदम्। क्यग्रहणेन क्यच्क्यङोग्र्रहणं न तु क्यषः, "लोहितडाज्भ्यः क्यष्वचन"मिति वक्ष्यमाणतया हलन्तात्क्यषोऽभावात्। तदाह क्यचि क्यङि चेत्यादिना। ननु गव्यांचकारेत्यत्र आम आद्र्धधातुकावादेशसंपन्नवकारस्य यकारलोपं प्रति निमित्तत्वाऽसंभवादिति भावः। गव्यितेति। इटि अतो लोपः। राजीयतीत्यत्र आह-- नलोप इति। राजानमिच्छतीत्यर्थे क्यचि राजन् य ति इतिस्थिते "नः क्ये" इति पदत्वान्नकारस्य लोप इत्यर्थः। कृते नलोपे "क्यचि चे"त्यकारस्य ईत्त्वमिति मत्वाह-- राजीयतीति। न च ईत्त्वे कर्तव्ये नलोपस्याऽसिद्धत्वं शङ्क्यं, "नलोपः सुप्स्वरे"ति नियमादित्यलम्। ननु त्वामात्मन इच्छति, मामात्मन इच्छतीत्यत्र युष्मदस्मद्भ्यां क्यचि धात्ववयवत्वात्सुपो लुकि प्रत्ययलक्षणाऽभावात् "त्वमावेकवचने" इति कथं त्वमौ स्यातां, विभक्तौ परत एव तद्विधानादित्यत आह-- प्रत्ययोत्तरपदयोश्चेति। सुपो लुका लुप्तत्वेऽपि क्यचमादाय मपर्यन्तस्य त्वमाविति भावः। ननु युष्मानात्मन इच्छति, अस्मानात्मन इच्छति- युष्मद्यति अस्मद्यतीत्यत्रापि क्यचमादाय त्वमौ स्यातामित्यत आह-- एकार्थयोरित्येवेति। प्रत्ययोत्तरपदयोश्चे"त्यत्र "त्वमावेकवचने" इति सूत्रमनुवृत्तम्। एकवचनशब्दश्च न रूढः, किंतु एकत्वविशिष्टार्थवृत्तित्वमेकवचनशब्देन विवक्षितमिति युष्मदस्मत्प्रक्रियायां प्रपञ्चितं प्राक्। तथा च युष्मदस्मदोरेकत्वविशिष्टार्थवृत्तित्वाऽभावान्न त्वमाविति भावः। गिरमात्मन इच्छति, पुरमात्मन इच्छतीत्यत्र गिर्शब्दात्पुर्शब्दाच्च क्यचि विशेषमाह-- हलि चेति। "उपधादीर्घ" इति शेषः। ननु दिवमिच्छति दिव्यतीत्यत्रापि "हलि चे"ति दीर्घः स्यादित्यत आह-- धातोरित्येवेति। "हलि चे"ति सूत्रे "सिपि धातो"रित्यस्तदनुवृत्तेरिति भावः। दिव्यतीति। दिव्शब्दोऽव्युत्पन्नं प्रातिपदिकमिति भावः। इहेति। "हलि चे"ति सूत्रे धातोरित्यनुवृत्तेः पुर्यतीत्यत्र न दीर्घ इति माधवग्रन्थश्चिन्त्य इत्यर्थः। कुत इत्यत आह-- पुर्गिरोः साम्यादिति। "गृ? शब्दे" "पृ? पालनपूरणयोः" इत्याभ्यां क्विपि "ऋत इद्धातोटरिति "उदोष्ठ()पूर्वस्ये"ति च इत्त्वे उत्त्वे च कृते रपरत्वे गिर्शब्दस्य च निष्पत्तेरिति भावः। प्रामादिक एवेति। दिव्शब्दस्याऽव्युत्पन्नप्रातिपदिकत्वान्न धातुत्वम्। दिव्धातोः क्विबन्तादूठि द्यूशब्दाच्च क्यचि "द्यूयती"त्येव उचितम्। विचि तु लघुपधगूणे "लोपो व्यो"रिति लोपे देशब्दात् क्यचि देयतीत्येवोचितमिति भावः। अदस्यतीति। अमुमात्मन इच्छतीत्यर्थे अदस्शब्दात्क्यचि सुपो लुका लुप्तत्वाद्विभक्तिपरकत्वाऽभावान्न त्यदाद्यत्वम्। सान्तत्वान्नोत्त्वमत्त्वे। "नः क्ये" इति नियमेन पदान्तत्वाऽभावान्न सस्य रूत्वमिति भावः। कर्तृशब्दात्क्यचि विशेषमाह-- रीङृत इति। गाग्र्यशब्दात्क्यचि विशेषमाह-- क्यच्व्योश्चेति। आपत्यस्य यञो यकारस्य लोप इति भावः। कृते यलोपे "क्यचि चे"त्यकारस्य ईत्त्वं मत्वाह-- गार्गीयतीति। वात्सीयतीति। वात्स्यशब्दात्क्यचि पूर्ववत्। कविशब्दात्क्यचि विशेषमाह-- अकृत्सार्वेति। वाच्यतीति। वाच्शब्दात्क्यचि "नः क्ये" इति नियमेन पदत्वाऽभावान्न कुत्वम्। "वचिस्वपी"ति संप्रसारणं तु न, "धातोः कार्यमुच्यमानं धातुविहितप्रत्यये एवे"ति नियमात्। समिध्यतीति। समिध्शब्दात्क्यचि "नः क्ये" इति नियमेन पदत्वाऽभावान्न जश्त्वम्। लुटस्तासि इटिसमिध्य इता इति स्थिते "यस्य हलः" इति नित्ये यलोपे प्राप्ते--

तत्त्व-बोधिनी
नः क्ये ४१६, १।४।१५

नः क्ये। "लोहितडाज्भ्यः क्यष्वचनं भृशादिष्वितराणी"ति वक्ष्यमाणतया हलन्तात्क्यष् दुर्लभ इत्यभिप्रेत्याह-- क्यचि क्यङीति। एवं चेह "क्यषी" त्यपि कैश्चिदुक्तं तदुपेक्ष्यम्। "यस्य हलः" इति लोपमाशङ्क्याह-- सन्निपातपरिभाषयेति। यकारे परे वान्तादेशविधानाद्वकारो यलोपस्य निमित्तं न भवतीति भावः। [गव्यीति। अत्रान्तर्वर्तिविभक्त्या पदत्वाल्लोपो दुवारः, स्यादित्याशङ्क्याह-- अपदान्तत्वादिति। इदं च "समाधानस्य समाधानान्तराऽदूषकत्वा"दिति न्यायेन समाधिसौकर्यादुक्तम्। वस्तुतस्तु उक्तरीत्या शङ्कैव नेति बोध्यम्। अन्ये तु वार्तिक एव प्रश्लेष इति द्वितीयपक्षमाश्रित्येदं,सूत्रे वकारप्रश्लेषे लोपाऽसंभवात्, "न हि कार्यी"ति न्यायात्। न च वलीति निमित्तत्वेनाऽ‌ऽश्रयणात्तत्रापि लोपो भवत्येव, अन्यथा वलीत्येव कुर्यादिति वाच्यम्, वकारे परतोय कारलोपे तस्य निमित्तत्वेनाऽ‌ऽश्रयणावश्यकत्वादिति द्वितीयकल्प एव युक्त इत्याहुः। राजीयतीति। "क्यचि चे"त्यवर्णस्य ईत्वे कर्तव्ये "पूर्वत्रासिद्ध"मिति नलोपोऽसिद्धो न भवति, "नलोपः सुप्स्वरे" ति नियमात्। यद्यपि नियमसूत्राणां निषेधमुखेन प्रवृत्तिरिति "नलोपः सुप्स्वरे"ति सूत्रं राज#ईयतीत्यादिषु पठनीयम्, "राजभ्या"मित्यादौ तु "पूर्वत्रासिद्ध"मिति नलसोपस्याऽसिद्धत्वेन दीर्घाद्यभावसिद्धेस्तथापि "विधिमुखेन प्रवृत्ति"रिति पक्षाभ्युपगमेन हलन्तेषु राजभ्यां राजभिरित्यत्रैव पठितमिति ज्ञेयम्। नच विधिमुखप्रवृत्तिपक्षो निरालम्ब एवेति वाच्यम्, "अनुपराभ्यां कृञः" इति सूत्रस्थभाष्यग्रन्थपर्यालोपचनया तत्पक्षावगमात्। यत्तु "नलोपः सुप्स्वरे"ति सूत्रे मनोरमायामुक्तं--"नियमसूत्राणां विधिमुखेन प्रवृत्तिः, सामान्यशास्त्रतात्पर्यसङ्कोचकता चे"ति पक्षस्य "द्युद्भ्यो लुङी"ति सूत्रे भाष्यकृता ध्वनितत्वा"दिति। तच्चिन्त्यम्। तत्सूत्रस्य भाष्यकारैरस्पृष्टत्वात्। केचित्तु "द्युद्द्भ्योलुङीतिसूत्रम्"। परस्मैपदप्रकरणमित्यर्थः। तत्र हि "अनुपराभ्या"मिति सूत्रं वर्तत इति तत्सूत्रे यद्ध्वनितं तत्तु परस्मैपदप्रकरणे ध्वनितमिति भवति। यद्वा "अनुपराभ्यां कृञः" इत्यत्र हि भाष्यकृता "द्युद्भ्यो लुङी"ति परामृष्टम्। तथा च "द्युद्भ्यो लुङी"ति सूत्रं य()स्मस्तत् द्युद्भ्योलुङीतिसूत्रम् = "अनुपराभ्यां कृञः" इति सूत्रमित्यर्थ इत्येवं कुकविकृतिवत्कथंचित्स्थितस्य गतिः समर्थनीयेत्याहुः। पूर्गिरोः साम्यादिति। गृ? शब्दे, पृ? पालनपूरणयोरित्येताभ्यां क्विपि "ऋत इद्धातोः", "उदोष्ठ()पूर्वस्ये"ति प्रवृत्तेरिति भावः। प्रामादिक एवेति। दिवु धातोः क्विपि तु "द्यू"रिति स्यात्। ततः क्यचि तु द्यूयतीति भवति। क्विपं विहाय विचि कृते तूपधागुणो वलोपश्च स्यात्। ततः क्यचि तु देयतीति भवति। तथा च "हलि चे" ति सूत्रे वृत्तावपि "दातोरित्येव, नेह दिवमिच्छति दिव्यती"त्येवोक्तमिति भावः। आपत्ययकारस्य लोपं स्मारयति--क्यच्व्योश्चेति। "नः क्ये" इति नियमेन पदत्वाऽभावात्कुत्वं नेत्याह-- वाच्यतीति। एवं "समिध्यती" त्यत्र जश्त्वं नेति बोध्यम्। "मान्ताव्ययेभ्यः प्रतिषेधः" इति वार्तिकस्य यथा श्रुतव्याख्याने पुत्रमिच्छतीत्यत्रापि न स्यात्। पुत्रौ पुत्रान् वा इच्छतीत्यादावेव स्यात्, अतो व्याचष्टे-- मान्तप्रकृतिकादिति।