पूर्वम्: १।४।१५
अनन्तरम्: १।४।१७
 
प्रथमावृत्तिः

सूत्रम्॥ सिति च॥ १।४।१६

पदच्छेदः॥ सिति ७।१ पदम् १।१

समासः॥

सकारः इत् यस्य सः सित्, यस्मिन् सिति, बहुव्रीहिः।

अर्थः॥

सिति प्रत्यये परतः पूर्वं पदसंज्ञं भवति। {यचि भम् (१।४।१८)} इत्यस्य अपवादः अयम्॥

उदाहरणम्॥

भवदीयः। ऊर्णायुः।
काशिका-वृत्तिः
सिति च १।४।१६

यचि भम् १।४।१८ इति वक्ष्यति। तस्यायं पुरस्तादपवादः। सिति प्रत्यये परतः पूर्वं पदसंज्ञं भवति। भवतष् ठक्छसौ ४।२।११४ भवदीयः। ऊर्णाया युस् ५।२।१२२ ऊर्णायुः। ऋतोरण् ५।१।१०४, छन्दसि घस् ५।१।१०५ ऋत्वियः।
न्यासः
सिति च। , १।४।१६

"भवदीयः" इत्यादि। "तत्र जातः"४।३।२५ इत्यादौ शैषिकेऽर्थे तद्धितः, पदत्वात् "झलाञ्जशोऽन्ते" ८।२।३९ इति जश्त्वम्। "ऊर्णायुः" इति। "ऊर्णाया युस्" ५।२।१२२ इति युसि कृते पदसंज्ञया भसंज्ञायां निरस्तायां "यस्येति च" ६।४।१४८ इत्याकारलोपो न भवति। "ऋत्वियः" इति। ऋतुः प्राप्तोऽस्त्येति "ऋतोरण्" "छन्दसि घस्" ५।१।१०५ ऋत्वियः, पदत्वात् भत्वाभावे तदाश्रयः "ओर्गुणः" ६।४।१४६ न भवति।