पूर्वम्: १।४।१७
अनन्तरम्: १।४।१९
 
प्रथमावृत्तिः

सूत्रम्॥ यचि भम्॥ १।४।१८

पदच्छेदः॥ यचि ७।१ भम् १।१ २० स्वादिषु ७।३ १७ असर्वनामस्थने ७।१ १७

समासः॥

य् च अच् च तस्मिन् यचि, समाहारः द्वन्द्वः

अर्थः॥

सर्वनामस्थान-भिन्न-स्वादौ यकारादौ, अजादौ च प्रत्यये परतः पूर्वं भ-संज्ञकं भवति।

उदाहरणम्॥

गार्ग्यः, वात्स्यः। दाक्षिः, प्लाक्षिः।
काशिका-वृत्तिः
यचि भम् १।४।१८

सवादिश्वसर्वनामस्थाने इति वर्तते। पूर्वेण पदसंज्ञायां प्राप्तायां तदपवादो भसंज्ञा विधीयते। यकारादावजादौ च स्वादौ सर्वनामस्थानवर्जिते प्रत्यये परतः पूर्वं भस्ंज्ञं भवति। यकाराऽदौ गार्ग्यः। वात्सयः। अजादौ दाक्षिः। प्लाक्षिः। नभो ऽङ्गिरोमनुषां वत्युपसङ्ख्यानम्। नभ इव नभस्वत्। अङ्गिरा इव अङ्गिरस्वत्। मनुरिव मनुष्वत्। वृषण्वस्वश्वयोः। वृषनित्येतत् वस्वश्वयोः प्रतो भसंज्ञं भवति छन्दसि विशये। वृषण्वसुः। वृषणश्वस्य मैनासीत्। भप्रदेशाः भस्य ६।४।१२९ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
यचि भम् १६५, १।४।१८

यादिष्वजादिषु च कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं भसंज्ञं स्यात्॥
न्यासः
यचि भम्। , १।४।१८

"यचि" इति वर्णग्रहणं सप्तमीनिर्दिष्टम्। अतः "यस्मिन् विधिस्तद्दावल्ग्रहणे" (वा।१४) इति तदादिविधिनात्र भवितव्यमित्यत आह-- "यकारादौ" इत्यादि। गाग्र्य इत्यादौ भसंज्ञायां सत्यां "यस्येति च" ६।४।१४८ इत्यकारलोपः। "नभोऽङिरोमनुषां वत्युपसंख्यानं कर्तव्यम्" इति। भसंज्ञायास्त्वत्र पदसंज्ञाबाधः फलम्। "नभ इव" इति तुल्यार्थतोपदर्शनमेतत्; न तु प्रथमासमर्थाद्वतिः। स तु नभसा तुल्यं वत्र्तत इति "तेन तुल्यम्" ५।१।११४ "आङ्गिरस्वत्" इति। पूर्वेण तुल्यम्। "मनुष्वत" इति। "जनेरुसिः"(द।उ।९।३७) इत्यत्र बहुलग्रहणानुवृत्तेः "मन ज्ञाने" (धा।पा।११७६) इत्येतस्मादुसिप्रत्ययः। "आदेशप्रत्यययोः" ८।३।५९ इति षत्वम्। मनुष् इति स्थिते पूर्ववद्वतिः-- मनुष्वदिति। यद्यत्र पदसंज्ञा स्यात् तदा षत्वस्यासिद्धत्वादिह रुत्वं स्यात्, ततश्च मनुर्वदित्यनिष्टं रूपं स्यात्। उपसंख्यानशब्दस्य चेह प्रतिपादनम्-- "सिति च" १।४।१६ इत्यतश्चकारोऽनुवत्र्तते, स चानुक्तसमुच्चयार्थः। तेन नभोऽङ्गिरोमनुषां वतौ भसंज्ञा भविष्यति। "वृषण्वस्व()आयोः" इति। अन्तर्वर्त्तिनीं विभक्तिमाश्रित्य पदसंज्ञायां प्राप्तायां भसंज्ञा विधीयते,तस्याश्च विधिश्चकारानुवृत्तेरेव लभ्यते। वृष्णोऽ()आः, अत्र भत्वे सति यद्यपि णत्वस्यासिद्धत्वम्, तथापि नलोपः पदनिबन्धनो न भवति, "पदान्तस्य" ८।४।३६ इति णत्वप्रतिषेधश्च॥
बाल-मनोरमा
यचिभम् २२९, १।४।१८

भसंज्ञया पदसंज्ञाबाधान्न जश्त्वमिति समाधातुं भसंज्ञासूत्रमाह--यचि भं। य्च अश्चेति समाहाद्वन्द्वः। "स्वादिष्वसर्वनामस्थाने" इत्यनुवृत्तं "यची"त्यनेन विशेष्यते। "यस्मिन्विधि"रिति तदादिविधिः। तदाह--यकारादिष्वित्यादिना। एवंच दत्-असित्यत्र "दत्" इत्यस्य भसंज्ञया पदसंज्ञाबाधान्न जश्त्वमिति भावः। ननु पदभसंज्ञयोरिह समावेशः कुतो न स्यात्। नच"विप्रतिषेधे परं कार्य"मिति परैव भसंज्ञा भवतीति वाच्यं, विरोध हि विप्रतिषेधः।

तत्त्व-बोधिनी
यचि भम् १९४, १।४।१८

यचि भम्। "यची"त्यल्ग्रहणेन सप्तमीनिर्देशात्तदादिविधिरित्याह-यकारादिष्वित्यादि। यकारादिषु किम्?।गार्ग्यः। वात्स्यः। गर्गादिभ्यो यञि "यस्येति चेत्यकारलोपो यथा स्यात्। असर्वनामस्थानेषु किम्?। सुपादौ, सुपादः। विद्वांसौ, विद्वांसः। दित्यवाहौ , दित्यवाह इत्यादौ "पादः पत्" "वसोः संप्रसारणम्" "वाह ऊ"डित्यादयो मा भूवन्निति।