पूर्वम्: १।४।१८
अनन्तरम्: १।४।२०
 
प्रथमावृत्तिः

सूत्रम्॥ तसौ मत्वर्थे॥ १।४।१९

पदच्छेदः॥ तसौ १।२ मत्वर्थे ७।१ भम् १।१ १८

काशिका-वृत्तिः
तसौ मत्वर्थे १।४।१९

भम् इति वर्तते। तकारान्तं सकारान्तं शब्दरूपं मत्वर्थे प्रत्यये परतो भसंज्ञं भवति। उदश्वित्वान् घोषः। विद्युत्वान् बलाहकः। सकारान्तम् पयस्वी। यशस्वी। तसौ इति किम्? तक्षवान् ग्रामः।
लघु-सिद्धान्त-कौमुदी
तसौ मत्वर्थे ११८९, १।४।१९

तान्तसान्तौ भसंज्ञौ स्तो मत्वर्थे प्रत्यये परे। गरुत्मान्। वसोः संप्रसारणं। विदुष्मान्। (गुणवचनेभ्यो मतुपो लुगिष्टः)। शुक्लो गुणोऽस्यास्तीति शुक्लः पटः। कृष्णः॥
न्यासः
तसौ मत्वर्थे। , १।४।१९

"तसौ" इति वर्णग्रहणम्। न च वर्णमात्रान्मत्वर्थीय सम्भति, अतः सामथ्र्यात् तदन्तविधिर्विज्ञायत इत्याह-- "तकारान्तम्" इत्यादि। "मत्वर्थे प्रत्यये" इति व्यधिकरणे पदे; षष्ठीसमासः। मतोरर्थो मत्वर्थ इति, तत्र यो वत्र्तते प्रत्ययस्तस्मिन्नित्यर्थः। अथ वा- समानाधिकरणे पदे, मतुशब्देन साहचर्यान्मतुप्सहचरितार्थ उच्यते-- णतुबर्थो यस्य तस्मिन्, न तु यस्मिन्निति मत्वर्थे प्रत्यय इति। अर्थग्रहणं कमतुपोऽन्यत्रापि यथा स्यात्; इतरथा हि मतावित्युच्यमाने मतावेव स्यात्; नान्येषु। मत्वर्थग्रहणे क्रियमाणे मतुपि न स्यात्; तस्यार्थविशेषणत्वात्। विशेषणस्य च कार्येण सम्बन्धानुपपत्तेः। न हि चित्रगुरानीयतामित्युक्ते विशेषणभूता गावोऽडप्यानीयन्ते, नैष दोषः; विशेषमपि क्वचित् कार्ये विशिष्यते, यथा हि-- देवदत्तशालाया ब्राआहृणा आनीयन्तामित्युक्ते देवदत्तः शालायां विशेषणभूतो यदि ब्राआहृणो भवति तदा सोऽप्यानीयत एव। "उद()इआत्वान" इति। भत्वात् पदसंज्ञाभावे जश्त्वं सिध्यति। "झयः" ८।२।१० इति वत्वम्, "उगिदचाम्" ७।१।७० इति नुम्, "अत्वसन्तस्य चाधातोः" ६।४।१४ इति दीर्घः। "पयस्वी, यशस्वी" इति। "अस्मायामेधारुआजो विनिः" ५।२।१२० भत्वाद्रुत्वं न भवति। "इन्दरन्पूषार्यम्णां सौ" ६।४।१२ इत्यनुवत्र्तमाने "सौ च" ६।४।१३ इत्यनेन दीर्घः॥
बाल-मनोरमा
तसौ मत्वर्थे १८७१, १।४।१९

ननु विद्वच्छब्दान्मतुपि यजादिस्वादिपरकत्वाऽभावेन भत्वाऽभावात् "वसोः संप्रसारण"मिति करथं संप्रसारणमित्यत आह--तसौ मत्वर्थे। मत्वर्थप्रत्ययाक्षिप्तप्रातिपदिकविशेषणत्वात्तदन्तविधिमभिप्रेत्याह-तान्तसान्ताविति। तकारसकारान्तावित्यर्थः।

गुणवचनेभ्य इति वार्तिकमिदम्, गुणे गुणवति च ये प्रसिद्धाः शुक्लादिशब्दास्त एव गृह्रन्ते, नतु रूपादिशब्दा अपि।तेन "रूपं वस्त्र"मित्यादि न भवति। अत्र यद्वक्तव्यं तदध्वरमीमांसाकौतूहले अरुणाधिकरणे प्रपञ्चितमस्माभिः