पूर्वम्: १।४।२०
अनन्तरम्: १।४।२२
 
प्रथमावृत्तिः

सूत्रम्॥ बहुषु बहुवचनम्॥ १।४।२१

पदच्छेदः॥ बहुषु ७।३ बहुवचनम् १।१

अर्थः॥

बहुत्वे विवक्षिते बहुवचनं भवति।

उदाहरणम्॥

ब्राह्मणाः पठन्ति।
काशिका-वृत्तिः
बहुषु बहुवचनम् १।४।२१

ङ्याप् प्रातिपदिकात् स्वादयः, लस्य तिबादयः इति सामान्येन बहुवचनं विहितं, तस्य अनेन बहुत्वसङ्ख्या वाच्यत्वेन विधीयते। बहुषु बहुवचनम् भवति। बहुत्वम् अस्य वाच्यं भवति इति यावत्। कर्मादयो ऽप्यपरे विभक्तीनाम् अर्था वाच्याः। तदीये बहुत्वे बहुवचनम्। कर्माऽदिषु बहुषु बहुवचनम् इत्यर्थः। व्राह्मणाः पठन्ति। यत्र च सङ्ख्या सम्भवति तत्र अयम् उपदेशः। अव्ययेभ्यस् तु निःसङ्ख्येभ्यः सामान्यविहिताः स्वादयो विद्यन्त एव।
लघु-सिद्धान्त-कौमुदी
बहुषु बहुवचनम् १२८, १।४।२१

बहुत्वविवक्षायां बहुवचनं स्यात्॥
न्यासः
बहुषु बहुवचनम्। , १।४।२१

"तस्यानेन बहुत्वसंख्या वाच्यत्वेन विधीयते" इति। एतेन विध्यर्थतामस्य योगस्य दर्शयति। इह केषाञ्चित् "स्वार्थद्रव्यलिङ्गसंख्याकर्माद्यात्मकः पञ्चकः प्रातिपदिकार्थः" इति दर्सनम्। केषाञ्चित् "स्वार्थद्रव्यलिङ्गात्मकस्त्रिकः प्रातिपदिकार्थः" इति। तत्र स्वार्थो विशेषणम्; स्वरूपजातिगुणद्रव्याणि। द्रव्यस्तु विशेष्यम्, तत्पुनर्जातिगुणद्रव्याणि। तत्र यदा शब्दस्वरूपेण विशिष्टा जातिरभिधीयते-- गौरिति, तदा शब्दस्वरूपं विशेषणत्वात् स्वार्थो भवति; जातिस्तु विशेष्यत्वाद्()द्रव्यम्। यदा तु जात्या विशिष्टो गुणोऽभिधीते-- पटस्य शुक्लो गुण इति, तदा जातिर्विशेषणत्वात् स्वार्थो भवति; गुणस्तु विशेष्यत्वाद्()द्रव्यम्। यदा तु गुणैर्विशिष्टं पटादिकं द्रव्यमुच्यते-- शुक्लः पट इति, तदा विशेषणभूतो गुणः स्वार्थो भवति; विशेष्यभूतं पटादिकं द्रव्यमेव। यदा पुनद्र्रव्यमपि द्रव्यान्तरस्य विशेषणभूतं भवति-- यष्टीः प्रवेशय, कुन्तान् प्रवेशयेत्यादौ, तदा यष्ट()आदिकं द्रव्यं विशेषणभावापन्नं स्वार्थः; द्रव्यान्तरं विशेष्यभावापन्नं पुरुषादिकं द्रव्यमेव। क्वचित्सम्बन्धोऽपि स्वार्थो भवति-- यत्र सम्बन्धनिमित्तकः प्रत्यय उत्पद्यते, यथा-- दण्डी, विषाणीति। अत्र दण्डपुरुषसम्बन्धो विशेषणम्, दण्डीति द्रव्यम्। क्वचित् क्र#इयापि स्वार्थो भवति, यत्र क्रियानिमित्तकः प्रत्ययः उत्पद्यते, यथा--पाचकः, पाठक इति। क्रियाकारकसम्बन्धोऽत्र स्वार्थ इत्यपरे। लिङ्गं स्त्रीत्वादि, संख्यैकत्वादि, कर्मादयो वक्ष्यमाणाः कारकविशेषाः। तत्र पूर्वोक्तयोर्दर्शनयोर्द्वितीयं यद्दर्शनं तदिह वृत्तिकारेणाश्रितम्। धातोस्तु क्रियैव वाच्येत्यत्राचार्याणामविवाद एव। तत्र प्रातिपदिकस्य पूर्वोक्ते त्रिकेऽर्थे सति धातोश्च क्रियात्मकत्वे यदीदं सूत्रं नोच्येत, ततः "अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति" (सी।वृ।१२५) इति प्रातिपदिकाज्जसादिबहुवचनं विधीयमानं त्रिक एवार्थे स्यात्, न बहुत्वसंख्यायाम्। धातोरपि झिप्रभृति बहुवचनं विधीयमानं क्रियायामेव स्यात्; न तु बहुत्वसंख्यायाम्। तस्मादनेनैव तस्य बहुत्वसंख्यावाच्यत्वेन विधीयत इति विध्यर्थमेतद्भवति। यथा चानेन योगेन बहुत्वसंख्या बहुवचनस्य वाच्यत्वेन विधीयते, तथा "कर्मणि द्वितीया" २।३।२ इत्येवमादिभिर्योगैर्द्वितीयादीनां कर्मादि च। "लः कर्मणि च भावे चाकर्मकेभ्यः" ३।४।६९ इत्यनेनापि लकाराणां कर्माद्येव। तस्मादेतेऽपि योगा विध्यर्था एव वेदितव्याः। येषाञ्च पञ्चकं प्रातिपदिकार्थ इति मतम्, तेषां प्रातिपदिकस्यैव पञ्चाप्यर्था वाच्याः। विभक्तयश्च तद्दयोतिका भवन्ति। तत्र "अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति" (सी।वृ।१२५) इति विनापि वचनेनानेन प्रातिपदिकाद्बहुवचनं जसादि बहुत्वे सिद्धमेव। तत्र त्वनियमेनान्यत्राप्येकत्वादौ प्राप्तमनेन नियम्यत इति नियमार्थमेतद्भवति। कस्मात् पुनर्वृत्तिकारेण त्रिकं प्रातिपदिकार्थ इति दर्शनमाश्रितम्? युक्तत्वात्। तथा हि-- वृक्षं पश्येत्यादौ न हि विना विभक्तिभिः संख्याकर्मादयश्चार्थाः प्रतीयन्ते। यद्यपि पयः पयो जरयतीत्यादौ विनापि विभक्त्या संख्याकर्मादेरर्थस्य प्रतीतिर्भवतीति, तथापि पयसी पयांसि पयसेत्येवमादौ संख्याकर्मादिप्रतीत्यर्थं नियोगतो विभक्तिरपेक्ष्यत एव। न हि यथा गर्गा इत्यत्र बहुवचनेन यञ्प्रत्ययमन्तरेणापत्यार्थः प्रतीयते, तथा गाग्र्य इत्यत्र प्रकृतिरेवापत्यार्थमभिधत्त इति शक्यते वक्तुम। अपि च -- पयः पयो जरयतीत्येवमादौ विभक्तिविशेषओत्पत्तिसामथ्र्यादेव संख्याकर्माद्यर्थ्स्य प्रतीतिर्भवति। तथा हि, यतः स विभक्तिविशेष उत्पन्नस्त्त एवासावर्थविशेषः प्रतीयते, नान्यस्मादिति त्रिक एव प्रातिपदिकार्थो युक्तः। यदि तर्हि बहुत्वसंख्या बहुवचनस्य वाच्यत्वेन विधीयते तदा सूत्रे भावप्रत्ययेन बहुत्वनिर्देशः कत्र्तव्यः, अन्यथा बहुत्वसंख्या न प्रतीयेत? न कत्र्तव्यः; अन्तरेणापि भावप्रत्ययं भावप्रधानो निर्देशो भविष्यतीति, यथा -- पटस्य शुक्ल इति। नन्वेवमपि भादस्यैकत्वाद्बहुष्विति बहुवचनं नोपपद्यते, नैष दोषः; यस्माद्बहुतवसंख्याधारस्य द्रव्यस्य यो भेदस्तं बहुत्वे गुणेऽध्यारोप्य बहुष्विति बहुवचनेन निर्देशः कृतः , संख्यावाच्ययं बहुशब्दो न वैपुल्यवाचीति ज्ञापनार्थश्च। तेन वैपुल्यं बहुवचनस्य वाच्यं न भवतीति बहुरोदनः,बहुः सूप इति वैपुल्यवाचिनो बहुशब्दादेकवचनमेव भवति, न बहुवचनम्। यदि बहुत्वसंख्या बहुवचनस्य वाच्यत्वेन विधीयते, इह वृक्षं पश्येत्यत्र बहुवचनं प्राप्नोति, द्वे ह्रत्र संख्ये-- समुदायसंख्या चैकत्वम्, अवयवसंख्या च फलमूलशाखाद्यवयवसमवेता बहुत्वम्। अस्यापि प्रातिपदिकार्थेनैकार्थसमवायलक्षणः सम्बन्धोऽस्त्येव। तथा हि-- येष्वयववेषु समवेत। बहुत्वसंख्या प्रातिपदिकार्थोऽपि समुदायस्तत्रैव समवेतः, ततश्च तस्माद्बहुवचनं प्राप्नोतीत्यत आह-- "कर्मादयः" इत्यादि। कर्मादयो ह्रेकविभक्तिशब्दवाच्यत्वात् प्रत्यासन्ना बहुत्वसंख्यायाः; ततः प्रत्यासत्तेस्तदीय एव बहुत्वे बहुवचनं भवति। समुदाय एव हि वृक्षं पश्येत्यत्र दृशिक्रियया व्याप्तमिष्टतम इति स एव कर्मभावमापद्यते, नावयवाः, तत्कुतो बहुवचनस्य प्रसङ्ग? "कर्मादिषु" इत्यादि। कर्मादयो बहुवचनस्य वाच्याः। तदीयं बहुत्वं बहुष्वेव कर्मदिषु सम्भवति, अतः सामथ्र्यात् कर्मादिषु बहुष्वित्येषोऽर्थः सम्पद्यते। यदि तर्हि विभक्तीनां बहुवचनस्य बहुत्वसंख्या वाच्यत्वेन विधीयते, तदा निःसंख्येभ्योऽव्ययेभ्यः स्वादयो न स्युः; ततश्च पदसंज्ञा तेषां न स्यादित्याह-- "यत्र च" इत्यादि। ननु स्वादिविधानसूत्रे संख्याकर्मादयः स्वादीनामर्थाः शास्त्रान्तरेण विहिताः, तेन सहास्यैकवाक्यतेति वक्ष्यति। तत्कुतः स्वादीनां सामान्यविहितत्वम्? न हि "बहुषु बहुवचनम" १।४।२१, "कर्मणि द्वितीया" २।३।२ इत्यादिना शास्त्रान्तरेण स्वौजसादेः सूत्रस्यैकवाक्यतायां स्वादीनां सामान्यविहितत्वमुपपद्यते। एवं तर्हि ज्ञापकेन अव्ययेभ्यः सामान्येन स्वाद्युत्पत्तेज्र्ञापि तत्वात् सामान्यविहिता इत्युक्तमित्यदोषः; किं पुनस्तज्ज्ञापकम्? "अव्ययादाप्सुपः" २।४।८२ इत्यव्ययादुत्पन्नानां सुपां लृग्ववचम्, न ह्रनुत्पन्नानां लुगुपपद्यते॥
बाल-मनोरमा
बहुषु बहुवचनम् १८६, १।४।२१

बहुषु। पूर्वसूत्राऽवैरूप्यायेहापि बहुशब्दो बहुत्वपर इत्याह--बहुत्व इति। नचात्र सूत्रे बहुशब्दस्य बहुत्वपरत्वेऽपि बहुत्वस्य एकत्वाद्बहुष्विति बहुवचनं कथमिति शङ्क्यम्, बहुत्वसंख्याधरद्रव्यगतबहुत्वस्य बहुत्वगुणे आरोपेण तदुपपत्तेः। बहुत्वं च त्रित्वचतुष्ट्वादिपराद्र्धसङ्ख्याव्यापकीभूतधर्मविशेषः, नतु त्रित्वाद्यन्यतममित्येकादशस्य प्रथमे "बहुवचनेन सर्वप्राप्तेर्विकल्पः स्या"दिति कपिञ्जलाधिकरणे तद्भाष्यवार्तिकयोः स्थितम्। प्रपञ्चितं चास्माभिरध्वरमीमांसाकुतूहलवृत्तौ। एवंच बहुरोदन इति वैपुल्यवाचिनो बहुशब्दान्न बहुवचनम्। द्वयेकयोरित्यादिप्रायपाठबलेन सङ्ख्यानियतस्यैव तथाविधबहुत्वस्यात्र विवक्षितत्वात्। एकस्यामेव स्त्र्यादिव्यक्तौ दारा इत्यादिप्रयोगे त्ववयवबहुत्वस्यावयविन्यारोपाद्बहुवचनं कोशवृद्धव्यवहारबलादित्यलम्। रुत्वविसर्गाविति। रामशब्दात्प्रथमाविभक्तौ एकवचने सुप्रत्यये सति, उकारस्य इत्त्वेन लोपे, "ससजुषो"रिति रुत्वे, "खरवसानयो"रिति विसर्ग इत्यर्थः। स इत्युकारस्तु अर्वणस्त्रसावित्यादौ विशेषणार्थः। असीत्युक्ते हि असकारादावित्यर्थः स्यात्। ततश्च वाजमर्वत्सु इत्यत्र अर्वणस्तृविधिर्न प्रवर्तेत। नचात्र रोरसुप्त्वात्तदन्तस्य पदत्वाऽभावाद्रेफस्य पदान्तत्वाऽभावात्कथमिह विसर्ग इति वाच्यम्। स्थानिवद्भावेन रोः सुप्त्वात्। नच स्थानिवद्भावे कर्तव्ये त्रैपादिकस्य रोरसिद्धत्वं शङ्क्यम्, "इदुदुपधस्य चाप्रत्ययस्ये"त्यप्रत्ययग्रहणेन स्थानिवत्त्वातिदेशे रोरसिद्धत्वाऽभावज्ञापनात्। तत्र ह्रप्रत्ययग्रहणमग्नि><करोति, कविभि><कृतमित्यादौ विसर्गपर्युदासार्थम्। स्थानिवत्त्वे कर्तव्ये रोरसिद्धत्वे तु तत्र विसर्गस्यैवाऽबावात्तद्वैयथ्र्यं स्पष्टमेवेत्यलम्। राम इति। "रमन्ते योगिनो।ञनन्ते सत्यानन्दे चिदात्मनि। इति रामपदेनासौ परं ब्राहृआभिधीयते। इति श्रुतिः। "करणाधिकरणयोश्च" इत्यधिकारे "हलश्च" इत्यधिकरणे घञ्। कृत्तद्धितेति प्रातिपदिकत्वम्। अव्युत्पन्नः संज्ञाशब्दो वा। तथा सति अर्थवदिति प्रातिपदिकत्वम्।

तत्त्व-बोधिनी
बहुषु बहुवचनम् १५५, १।४।२१

बहुषु। अयमपि सङ्ख्यापर एवेत्याह--बहुत्व इति। बहुवचनं त्वाश्रयद्रव्यगतबहुत्वं धर्मे आरोप्य कृतम्। तत्फलं तु "बहुः परव्त" इति वैपुल्यवाचिनो नेह ग्रहणमिति सूचनमेव। वस्तुतो व्यर्थं तत्, परत्वादेकवचनसंभवादिति शब्दकौस्तुभादौ स्थितम्। रुत्वविसर्गाविति। ननु रुत्वस्यासिद्धत्वादुकारस्येत्संज्ञालोपयोरभावात् "स्थानिवदादेशः" इत्यस्यापि त्रिपाद्यामप्रवृत्त्या रेफान्तस्य "सुप्तिङ्न्त"मिति पदसंज्ञाऽभावेन विसर्गोऽत्र दुर्लभः। विसर्गविधेस्तु "पुन"रित्यादौ चरितार्थत्वादिति चेन्मैवम्, "न मु ने" इति सूत्रे "ने"ति योगं विभज्य "असिद्धं ने"ति व्याख्यायामिष्टसिद्धिरित्युक्तत्वात्। राम इति। संज्ञाशब्दोऽयमव्युत्पन्न इति पक्षेऽर्थवत्सूत्रेण प्रातिपदिकसंज्ञा, "करणाधिकरणयोश्चे"त्याधिकारे घापवादेन "हलश्चे"ति घञा रमन्तेऽस्मिन्निति व्युत्पादने तु "कृत्तद्धिते"ति सूत्रेणेति विवेकः। अत्र केचित्परिश्कुर्वन्ति--"गन्धर्वः शरभो रामः सृमरो गवयः शशः। इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः इत्यमरोक्तया यदि पशुविशेषे प्रयुज्यते तदा रूढोऽयं रामशब्द इत्यर्थवत्सूत्रेण संज्ञा। यदा तु रामचन्द्रे भगवति प्रयुज्यते तदा रमन्ते योगिनोऽस्मिन्निति व्युत्पत्त्याश्रयणात्कृद्धितेति सूत्रेण संज्ञेति। सरूपाणामेकशेषः। इतरनिवृत्तिपूर्वकमवस्थानं शेषशब्दार्थः। न च विरूपेष्वेकशेषाऽप्रवृत्त्या "घटकलशा"विति द्वन्द्वापत्तिरिति शङ्क्यम्, "वुरूपाणा"मिति वार्तिकस्य वक्ष्यमाणत्वात्। वस्तुतस्तु सूत्राक्षरैरेव वार्तिकार्थो लभ्यते। रूप्यते बोध्यते। इति रूपमर्थः, समानं रूपं येषामिति सरूपाः। ज्योतिर्जनपदेत्यादिना समानस्य सभावः। तथा समानं रूपं स्वरूपं येषां ते सरूपाः। सरूपाश्च सरूपाश्च सरूपाः, तेषामित्येकशेषेण व्याख्यानात्। न च स्वाङ्गे स्वव्यापाराऽयोगो वाक्यापरिसमाप्तिन्यायादिति वाच्यम् ; उद्देश्यतावच्छेदकरूपाक्रान्ततया स्वस्मिन्नपि प्रवृत्तेः। अन्यथा "तुल्यास्यप्रयत्न"मित्यादौ सवर्णदीर्घो न स्यात्। तथाऽर्थवत्सूत्रान्तर्गतानां प्रातिपदिकत्वं, "प्रत्ययः" "परश्चे"त्यत्र सुप्प्रत्ययः, "ससजुषो"रित्यत्र रुः, "खरवसानयो"रिति सूत्रे विसर्गश्च न स्यादिति सर्वोपप्लवः स्यात्। "स्वाध्यायोऽध्येतव्यः" इत्यस्य "नेह नाने"त्यादिश्रुतेश्च स्वस्मिन्नपि यथा प्रवृत्तिस्तथा दीर्घादीनामपीति चेत्तुल्यमेकशेषेऽपि। एतेन "ऐउ"णित्यादौ "आद्गुणः" इत्यादिसन्धिकार्यं कुतो नेत्याशङ्कायाम्--"वर्णोपदेशकालेऽजादिसंज्ञानामनिष्पादात्सन्धिर्ने"ति केषाञ्चित्समाधानं परास्तम्। वर्णोपदेशे इत्संज्ञायामत्प्रत्याहारे च निष्पन्ने प्रवर्तमानानां गुणादीनामुपेन्द्र इत्यादौ तटस्थ इव उद्देश्यतावच्छेदकरूपाक्रान्ते वर्णोपदेशादावपि प्रवृत्तेरावश्यकत्वात्। स्यादेतत्--"सरूपाणामेक एकविभक्तौ" इत्येव सूत्रमस्तु, किमनेन "शेष"ग्रहणेन?। अत्राहुः--तथाहि सति सरूपाणां स्थाने एकोऽन्तरतम आदेशो भवतीत्यर्थः स्यात्। तथा चा()आश्चा()आश्चेत्यत्रोदात्तद्वयवतः स्थाने उदात्तद्वयवानादेशस्तथाऽनुदात्तद्वयवतः स्थानेऽनुदात्तद्वयवानादेशः प्रसज्येतेति। एकविभक्तौ यानीति। विभक्तिः सारूप्ये उपलक्षणं न त्वेकशैषे निमित्तम्। एवं चाऽनैमित्तिकत्वेनान्तरङ्गोऽयमेकशेषः सुबुत्पत्तेः प्रागेव प्रवर्तते। यद्योतन्नारभ्येत तर्हि प्रत्येकं विभक्तिः स्याद्द्वन्द्वश्च प्रवर्तते। आरब्धे त्वेकशेषेऽनेकसुबन्तविरहाद्द्वन्द्वस्य प्राप्तिरेव नास्तीति भावः। ननु सुबुत्पत्तेः प्रागेकशेषप्रवृत्तौ शिष्यमाणं यत्प्रातिपदिकं तदेकमेवार्थं बोधयतीति द्विवचनाद्यनुत्पत्तौ "रामौ" "र#आमा" इत्यादि न सिध्येत्। नैष दोषः, शिष्यमाणस्य लुप्यमानार्थाभिधीयित्वात्। अतएव "कृत्तद्धितसमासैकशेषे"त्येकशेषो वृत्तषु गण्यते। परार्थाभिधानं हि वृत्तिः। अतएव च लुप्तेऽपि प्रत्यये"लिङ्""धु"गित्यादौ कर्ता प्रतीयत इति दिक्।