पूर्वम्: १।४।२३
अनन्तरम्: १।४।२५
 
प्रथमावृत्तिः

सूत्रम्॥ ध्रुवमपायेऽपादानम्॥ १।४।२४

पदच्छेदः॥ ध्रुवम् १।१ अपाये ७।१ अपादानम् १।१ ३१ कारके ७।१ २३

अर्थः॥

क्रियायां सत्यां अपाये = पृथग्भूते सति, यद् ध्रुवं तत्कारकम् अपादानसंज्ञकं भवति॥

उदाहरणम्॥

वृक्षाद् पत्रं पतति। ग्रामाद् आगच्छति। पर्वताद् अवरोहति॥
काशिका-वृत्तिः
ध्रुवमपाये ऽपादानम् १।४।२४

ध्रुवं यदपाययुक्तम् अपाये साध्ये यदवधिभूतं तत् कारकम् अपादानसंज्ञं भवति। ग्रामादागछ्हति। पर्वतादवरोहति। सार्थाद्धीनः। रथात् पतितः। जुगुप्साविरामप्रमादार्थनाम् उपसङ्ख्यानम्। अधर्माज् जुगुप्सते। अधर्माद् विरमति। धर्मात् प्रमाद्यति। अपादानप्रदेशाः अपादाने पञ्चमी २।३।२८ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
ध्रुवमपायेऽपादानम् ९०२, १।४।२४

अपायो विश्लेषस्तस्मिन्साध्ये यद् ध्रुवमवधिभूतं कारकं तदपादानं स्यात्॥
न्यासः
ध्रुवमपायेऽपादानम्। , १।४।२४

अपायः = विश्लेषःक; विभाग इत्यर्थः। तस्य द्विष्ठत्वाद्याथा तेन विभागेन योऽपैति सोऽपाययुक्तः, तथा यतोऽपैति सोऽप्यपाययुक्तः; तस्मादुभयत्र पञ्चम्या भवितव्यमित्यत एवाह-- "ध्रुवं यदापायमुक्तम्" इति। "अपाये साध्ये" इति। विषयसप्तमीयम्। अपायस्य साध्यत्वेन विषयभूत इत्यर्थः। यद्यपि ध्रुवशब्दो लोक एकरूपतामाचष्टे-- ध्रुवमस्य शीलम्, ध्रुवमस्य रूपमिति; तथाप्ययाये साध्येऽभिहितया तया न कश्चिदर्थः सम्पद्यत इति नात्र ध्रुवताऽपायं प्रत्युपयुज्यते? सैवोपदीयते, सा चावधिभाव एव। तस्यादपायस्य सन्निधौ ध्रुवशब्दः सम्बन्धात् सश्लेषलक्षणात् प्रच्यवमानस्यावधिभावमाचष्टे, इत्यत आह-- "अवधिभूतम्" इति। अत एवापाये साध्येऽवधिभूतं यत्तदिह ध्रुवशब्देनोच्यते। तेन धावतोऽ()आआत् पतित इत्येवमादावप्यपादानसंज्ञा अ()आआदेः सिद्धा भवति। असति ह्रत्रापि सत्यपि चलत्वेऽ()आआदेरप्यपायेऽवधिभावः। अथेह कथमपादानसंज्ञा-- अधर्याज्जुगुप्सते, अधर्माद्विरमति, धर्()मात्प्रमाद्यतीति, न ह्रत्रापायोऽस्ति? कथम्? कार्यसम्प्राप्तिपूर्वको ह्रपायो भवति, न चेह कार्यसम्प्राप्तिरस्तीति आह-- "जुगुप्सा" इत्यादि। जुगुप्साद्यर्थानां धातूनां प्रयोगेऽपादानासंज्ञाया उपसंख्यानम् = प्रतिपादनं कत्र्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम्-- "अपादानम्िति महती संज्ञा क्रियते, महाविषयेयं संज्ञेति सूचनार्थम्। एवञ्च महाविषया भवतीयम्-- यदि सूत्रोपात्तात् संज्ञिनोऽन्योऽप्यस्या विषयो भवति, नान्यथा; तेन दजुगुप्सादीनां प्रयोगेऽसत्यपायेऽपादानसंज्ञा भविष्यतीति। अथ वा-- अस्त्येवाऽत्रापायः, न हि कार्यसम्प्राप्तिपूर्वक एवापायो भवतीति, किं तर्हि? चित्तसम्प्राप्तिपूर्वकोऽपि भवति। इह तावदधर्माज्जुगुप्सते, अधर्माद्विरमतीति, य एव मनुष्यः प्रेक्षापूर्वकारी भवति स एवं पश्यति-- दुःख हेतुरयमधर्मो नाम, अतो नार्हत्येनं सचेताः कर्त्तुमिति; एवं पश्यति-- "नास्माद्धर्मात् किञ्चिदिष्टं सम्पद्यते, दुःखमेव केवलं तदारम्भ निमित्तकं भवति" स एवं विचारयंस्तं बुद्ध्या प्राप्नोति, प्राप्य च ततो निवत्र्तते। तथा च ध्रुवमपायेऽपादानमित्येवं स#इद्धम्। "प्रमाद्यति" इति। "मदी हेर्षे" (धा।पा।१२०८), "शमामष्टानां दीर्घः श्यनि" ७।३।७४ इति दीर्घः। अथेह कथमपादानसंज्ञा-- ग्रामान्नागच्छतीति? कथञ्च न स्यात्? ग्रामस्यापायेनायुक्तत्वात्। यस्यां सत्यामपायो भवति, सा प्रतिषिद्ध्यते चापादनसाधनागमनक्रिया, तदसत्यां तस्यां कुतोऽपायः? नैष दोषः अत्र ह्रपादानसंज्ञायां समुपजातायां पश्चात्प्रतिषेधेन सम्बन्धः क्रियते,अन्यथा हि प्रतिषेधस्य विषयो न दर्शितः स्यात्। तथा ह्रपादानसाधनागमनक्रिया प्रतिषेद्धुमिष्टा।तत्र यदि चादावेव निषेधः स्यात्, अपायाभावात् तदसम्बद्धस्य ग्रामस्यापादानसंज्ञा सिद्धा न स्यात्। ततश्च या प्रतिषेध्यापादानसाधनागमनक्रिया प्रतिषेधस्य विषयभूता; सा न शक्यते प्रदर्शकयितुम्; न चात्राप्रदर्शितकविषयेत प्रतिषेधः शक्यते वक्तुम्। तस्मात् पूर्वमपादानसंज्ञा भवति, पश्चात्प्रतिषेधेन योग इत्येष क्रमः।
बाल-मनोरमा
ध्रुवमपायेऽपादानम् ५७८, १।४।२४

अथ पञ्चमी। ध्रुवमपाये। अपायपदं व्याचष्टे--अपायो विश्लेष इति। वियोग इत्यर्थः। "ध्रुव"पदं व्याचष्टे-अवधिभूतमिति। द्वयोः संयुक्तयोरन्यतरस्य चलनाद्विश्लेष इति स्थितिः। तत्र तादृशचलनाऽनाश्रयभूतं ध्रुवम्। तच्चेहार्थादवधिभूतं विवक्षितमिति भावः।

तत्त्व-बोधिनी
ध्रुवमपायेऽपादानम् ५१९, १।४।२४

ध्रुवमपाये। "ध्रु गतिस्थैर्ययोः" अस्मात्पचाद्यचि कुटादित्वान्ङित्त्वे उवङ्। "ध्रुव स्थेर्ये" इति केचित्। तत्र "इगुपध--"इति कः। ध्रुवं स्थिरम्। अपायशब्देन विवक्षितमाह--विश्लेष इति। एवं च प्रकृतधात्वर्थाऽनाश्रयत्वे सति तज्जन्यविभागाश्रयो ध्रुवमिति फलितम्। तच्चाऽर्थादवधिरेवेत्याह--अवधिभूतमिति। धावत इति। इह धावनक्रियाविशिष्टस्याऽप्य()आस्य प्रकृतपतनधातूपात्तक्रियां प्रत्यवधित्वं न विरुध्यते, "परस्परस्मान्मेषावपसरतः" इत्यत्र तु सृधातुना गतिद्वयस्याप्युपादानादेकनिष्ठां गतिं प्रति इतरस्याप्यपादानत्वं न विरुध्यते। उक्तं च हरिणा--"अपाये यदुदासीनां चलं वा यदि वाऽचलम्। ध्रुवमेवाऽतदावेशात्तदपादानमुच्यते। पततो ध्रुव एवास्वो यस्माद()आआत्पतत्यसौ। तस्याप्य()आस्य पतेन कुड()आदि ध्रुवमिष्यते। मेषान्तरक्रियापेक्षमवधित्वं पृथकं पृथक्। मेषयोः स्वक्रियापेक्षं कर्तृत्वं च पृथक् पृथक्"॥ इति। "पर्वतात्पततोऽ()आआत्पतती"त्यत्र तु पर्वतावधिकपतनाश्रयो योऽ()आस्तदवधिकं देवदत्तादिनिष्ठं पतनमर्थः, पञ्चम्यर्थाऽवधौ अभेदेन संसर्गे प्रकृत्यर्थः परवतादिर्विशेषणम्, प्रत्ययार्थस्तु पतनक्रियायाम्, स चाऽवधिरूपो धर्मी, न तु धर्ममात्रम्, "उद्धृतौदन स्थाली" त्यात्रौदनकर्मकोद्धरणावधिभूता स्थालीति सामानाधिकरण्यदर्शमात्। एतच्च मनोरमायां स्थितम्। नन्विह ध्रुवग्रहणं किमर्थम्()। न च "ग्रामादागच्छति शकटेने"त्यत्र शकटेऽतिव्याप्तिवारणाय तदिति वाच्यम्, परत्वात्तत्र करणसंज्ञाप्रवृत्तेः। न च संज्ञिनिर्देशार्थं ध्रुवग्रहणम्, कारकाऽधिकारात् कारकमिति लभ्यत इति ध्रुवग्रहणं चिन्त्यप्रयोजनमिति चेत्। अत्र वदन्ति--कारकत्वरूपव्यापकधर्ममात्रविवक्षायां साधकतमत्वेन विवक्षाऽभावदशायां करणसंज्ञाप्रसङ्गेन शकटस्याऽपादानत्वं स्यात्तन्मा भूदित्येतदर्थं ध्रुवग्रहणमिति।

जुगुप्साविरामप्रमादार्थानासुपसंख्यानम्। जुगुप्सेति। जुगुप्सा-निन्दा, विरमो विरतिः, प्रमादोऽनवधानता, एतदर्थकानां धातूनां कारकमपादानसंज्ञं स्यादित्यर्थः। संयोगपूर्वको विश्लेषो विभागः, स चेह नास्ति, बुद्धिकृतस्तु गौणत्वान्नेह गृह्रत इति सूत्रेणाऽप्राप्तौ वार्तिकारम्भः। भाष्याकारस्तु--कारकप्रकरणे गौणमुक्यन्यायो नाश्रीयत इति तमब्ग्रहणेन ज्ञापितत्वाज्जुगुप्सादीनां तत्पूर्वकनिवृत्तिवाचित्वामाश्रित्येदं वार्तिकं, "भीत्रार्थानाम्---"इत्यादि सूत्राणि च प्रत्याचख्यौ। पूर्वं हि बुद्द्याऽपायं संप्राप्य ततो दोषदर्शनान्निवर्तत इत्यस्त्येवाऽत्र बुद्धिकृतोऽपायः।