पूर्वम्: १।४।२६
अनन्तरम्: १।४।२८
 
प्रथमावृत्तिः

सूत्रम्॥ वारणार्थानां ईप्सितः॥ १।४।२७

पदच्छेदः॥ वारणार्थानाम् ६।३ ईप्सितः १।१ अपादानम् १।१ २४ कारके ७।१ २३

समासः॥

वारणम् अर्थः येषां धातूनां ते वारणार्थाः, तेषां ॰, बहुव्रीहिः।

अर्थः॥

वारणार्थानां धातूनां प्रयोगे ईप्सितः यः अर्थः, तत् कारकम् अपादानसंज्ञं भवति।

उदाहरणम्॥

यवेभ्यो गां वारयति। यवेभ्यो गां निवर्त्तयति॥
काशिका-वृत्तिः
वारणार्थानाम् ईप्सितः १।४।२७

वारणार्थानाम् धातूनाम् प्रयोगे य ईप्सितो ऽर्थः तत् कारकम् अपादानसंज्ञं भवति। प्रवृत्तिविघातो वारनम्। यवेभ्यो गा वारयति। यवेभ्यो गा निवर्तयति। ईप्सितः इति किम्? यवेभ्यो गा वारयति क्षेत्रे।
न्यासः
वारणार्थानामीप्सितः। , १।४।२७

वारणमर्थो येषां ते वारणार्थाः। "यवेभ्यो गा वारयति" इति। "गाः" इति गवामीप्सिततमत्वेन विवक्षितत्वात्कर्मसंज्ञा, गोशब्दाच्छस, "औतोऽम्शसोः" ६।१।९० इत्यात्त्वम्, रुत्वे कृते "भोभगोअधोअपूर्वस्य" ८।३।१७ इति यत्वम्, "हलि सर्वेषाम्" ८।३।२२ इति यलोपः। "वारयति" इति। "वृञ् आवरणे" (धा।पा।१८१३), चुरादिणिच्। "निवर्तयति" इति। "वृतु वर्तने" (धा।पा। ७५८), हेतुमण्णिच्। "यवेभ्यो गा वारयति क्षेत्रे" इति। अत्र क्षेत्रस्यानीप्सितस्य न भवति संज्ञा; ईप्सितग्रहणम्। ननु चात्र परत्वादरधिकरणसंज्ञयैव बाधितत्वादपादानसंज्ञायाः, क्षेत्रस्यापादानसंज्ञा न भविष्यतीत्यतो न कर्तव्यमीप्सितग्रहणमिति, एतन्नाशङ्कनीयम्; उक्तोत्तरत्वात्॥
बाल-मनोरमा
वारणार्थानामीप्सितः ५८२, १।४।२७

वारणार्थानामीप्सितः। प्रवृत्तिविमुखीकरणं वारणम्। यवेभ्य इति। यवेषु प्रवर्तितुकामां गां प्रवृत्तिविमुखीकरोतीत्यर्थः। संयोगपूर्वकविश्लेषाऽभावात् "ध्रुवमपाये" इत्यप्राप्ताविदं वचनम्। तत्र यवानां स्वकीयतया संरक्षणीयत्वेन ईप्सितत्वादपादानत्वं, नतु गोः, तस्याः परकीयत्वेनानीप्सितत्वात्, वारणीयतया ईप्सितत्वाव्याघाताच्च। तथाच "तथायुक्तं चे"ति गोः कर्मत्वाद्द्वितीया। यदा तु यवाः परकीयाः, गौस्तु स्वकीया, तदा वारणमसंभावितमेव। वस्तुतस्तु यवानां परकीयत्वेऽपि तद्विनाशादधर्मः स्यात्, यवस्वामी गामपह्मत्य बध्नीयात्, गोस्वामिनं च यवस्वामी दण्डयेत्, अतो यवानां रक्षितुमिष्टत्वादीप्सितत्वादपादानत्वमस्त्येव। गोस्तु स्वकीयत्वेऽपि बाधकनिवृत्त्यै वारयितुमिष्टतमत्वात्कर्मत्वम्। नच गोरीप्सिततमत्वेऽपि ईप्सितत्वस्यापि सत्त्वादपादानत्वं किं न स्यादिति वाच्यम्, ईप्सिततमत्वे "वारणार्थाना"मित्यपादानत्वं बाधित्वा "कर्तुरीप्सिततम"मिति कर्मत्वस्यैव परत्वात्प्राप्तेः। नच "वारणार्थानामीप्सितः" इत्यपादानत्वस्य "कर्तुरीप्सततम"मिति कर्मत्वापवादत्वं शङ्क्यं, "कर्तुरीप्सिततम"मिति कर्मत्वं हि ईप्सिततममात्रविषयम्। वारणार्थानामित्यपादानत्वं तु ईप्सितविषयम्। तस्य प्रकृते ईप्सितेषु यवेषु परकीयेषु सावकाशत्वान्न "कर्तुरीप्सततम"मिति कर्मत्वापवादत्वम्। अतः परत्वाद्गोः स्वकीयायाः परकीययवापेक्षया ईप्सिततमत्वात्कर्मत्वमेव। नच "अग्नेर्माणवकं प्रवृत्तिविमुखीकरोतीति हि तदर्थः। तत्राग्निस्पर्शे माणवकस्य दाहप्रसङ्गात्तद्विषयप्रवृकत्तिविमुखीकरणात्मकवारणक्रिययाऽ‌ऽप्तुमिष्टतमत्वेन वारयितुरीप्सिततमत्वान्माणवकस्य कर्मत्वम्। अग्नेस्तु वारणक्रियेप्सिततममाणवकीयस्पर्शक्रियया आप्तुमिष्टतमत्वेऽपि वारयितुरीप्सिततत्वादपादानत्वम्। एतेन तयोः पृथग्ग्रहणेन। एतावतैव हरिं भजति, ग्रामं गच्छंस्तृणं स्पृशति, विषं भुङ्क्ते इत्यादिसर्वलक्ष्यसङ्ग्रहादिति निरस्तम्। कर्तृव्यापारजन्यफलाश्रयः कर्मेत्युक्तौ हि "वारणार्थाना"मिति सूत्रमस्यापवादः स्यात्, विशेषविहितत्वात्। तथाच माणवक्सय कर्मत्वं न स्यात्। नचाग्नौ "बाकणार्थाना"मिति सावकाशमिति वाच्यं, वारयतेह्र्रत्र स्पर्शफलकप्रवृत्तिविघटनमर्थः। तच्चान्यतो नयनादिरूपम्। तादृशव्यापारप्रयोज्यफलं मामवककर्तृकस्पर्शफलकप्रवृत्तिविरहः। तत्र स्वर्शाशोऽग्निनिष्ठः माणवकनिष्ठश्च, संयोगरूपस्य स्पर्शस्य द्विनिष्ठत्वात्। प्रवृत्तिविरहश्च विषयतयाऽग्निनिष्ठः, आश्रयतया माणवकनिष्ठश्च। तथाच कर्तृव्यापारप्रयोज्यफलाश्रयत्वलक्षणकर्मत्वस्य परत्वादुभयत्रापि प्राप्तौ "वारणार्थाना"मित्यपादानत्वं निरवकाशत्वादपवादः स्यादिति माणवकादपि पञ्चमी स्यात्, तद्बाधनार्थ "कर्तुरीप्सिततमं कर्मे"त्यारब्धव्यम्। एवंच ईप्सितमात्रेऽग्नौ सावकाशस्यापादानत्वस्य परत्वादीप्सिततमे माणवके बाधः सिध्यति। "कर्तुरीप्सिततम"मित्यारब्धे च द्रेष्योदासीनसङ्ग्रहार्थं "तथायुक्त"मित्यप्यारब्धव्यमित्यास्तां तावत्। भाष्ये तु बुद्धिकल्पितसंयोगविश्लेषकृतमपादानत्वामाश्रित्य प्रत्याख्यातमिदं सूत्रम्।

तत्त्व-बोधिनी
वारणार्थानामीप्सितः ५२२, १।४।२७

वारणार्था। यवेभ्य इति। यवसंयोगात्प्रागेव गां निवारयतीति "ध्रुवमपाये---"इत्यनेनाऽसिद्धावयमारम्भः। बुद्धिपरिकल्पिताऽपायमङ्गीकुर्वातो भाष्यकारस्य मते तु वैयथ्र्यमेतस्य स्फुटमेव। गां वारयतीति। "वृञ् वरणे" चुरादिः। "गा"मित्यत्र ईप्सितत्वप्रयुक्ताऽपादानसंज्ञा न भवति।ईप्सिततमत्वविवक्षायां परत्वात्कर्मसंज्ञाप्रवृत्तेः। नन्वेवमीप्सितग्रहणमेव व्यर्थं, क्षेत्रे वारयतीत्यत्र परत्वादधिकरणसंज्ञाप्रवृत्तेः। सत्यम। अधिकरणस्य शेषत्वविवक्षायामिदं प्रत्युदाहरणमिति पूर्वोक्तरीत्या पदप्रयोजनस्येहापि कल्पयितुं शक्यत्वात्।