पूर्वम्: १।४।२८
अनन्तरम्: १।४।३०
 
प्रथमावृत्तिः

सूत्रम्॥ आख्यातोपयोगे॥ १।४।२९

पदच्छेदः॥ आख्याता १।१ उपयोगे ७।१ अपादानम् १।१ २४ कारके ७।१ २३

अर्थः॥

आख्याता = प्रतिपादयिता, पाठयिता वा। उपयोगः = नियमपूर्वकं विद्याग्रहणम्। नियमपूर्वके विद्याग्रहणे यः आख्याता = पाठयिता तत्कारकम् अपादानसंज्ञं भवति॥

उदाहरणम्॥

उपाध्यायाद् अधीते। उपाध्यायाद् आगमयति॥
काशिका-वृत्तिः
आख्याताउपयोगे १।४।२९

आख्याता प्रतिपादयिता। उपयोगः नियमपूर्वकं विध्याग्रहणम्। उपयोगे साध्ये य आख्याता तत् कारकम् अपादानसंज्ञं भवति। उपाध्यायादधीते। उपाध्यायादागमयति। उपयोगे इति किम्? नटस्य शृणोति।
न्यासः
आख्यातोपयोगे। , १।४।२९

"नियमपूर्वकं विद्याग्रहणम्" इति। विद्याग्रहणार्थं शिष्यप्रवृत्तिः = नियमः। स पूर्वो यस्य तत् तथोक्तम्। "शेषाद्विभाषा" ५।४।१५४ इति कप्। "नटस्य गाथां शृणोति" इति। सम्बन्धलक्षणा षष्ठी। नियमपूर्वकमिह विद्याग्रहणं नास्ति॥
बाल-मनोरमा
आख्यातोपयोगे ५८४, १।४।२९

आख्यातोपयोगे। आख्याता-उपयोगे इति च्छेदः। आख्यातेति तृजन्तात्प्रथमैकवचनम्। उपयोगपदं व्याचष्टे-नियमपूर्वकेति। भाष्ये तथोक्तेरिति भावः। आख्यातेति तृजन्तं व्याचष्टे-वक्तेति। अध्यपयितेत्यर्थः। उपाध्यायादधीते इति। नियमविशेषपूर्वकमुपाध्यायस्योच्चारणमनूच्चरयतीत्यर्थः। षष्ठ()पवादोऽयम्। भाष्ये तूपाध्यांयान्नर्गतं वेदं गृह्णातीत्यर्थमाश्रित्य प्रत्याख्यातमिदम्।

तत्त्व-बोधिनी
आख्यातोपयोगे ५२४, १।४।२९

आख्यातोप। नयमपूर्वकेति। तत्रैवोपयोगशब्दो रूढ इति भावः। आख्यातेत्येतत्तृजन्तमित्याह---वक्तेति। उपाध्यायादिति। उपेत्य अस्मादधीयत इति उपाध्यायः, "इङश्च"इति घञ्। अध्ययनं तु गुरुच्चारणोत्तरोच्चरणं नियमपूर्वकम्। नटस्येति। गाथाकर्मकं नटसंबन्धि श्रवणमित्यर्थः। नटस्य गाथाऽन्वये तु कारकत्वाऽभावादेवाऽप्राप्तेरुपयोगग्रहणम् समर्थितं स्यात्।