पूर्वम्: १।४।३३
अनन्तरम्: १।४।३५
 
प्रथमावृत्तिः

सूत्रम्॥ श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः॥ १।४।३४

पदच्छेदः॥ श्लाघ-ह्नुङ्-स्था-शपाम् ६।३ ज्ञीप्स्यमानः १।१ सम्प्रदानम् १।१ ३२ कारके ७।१ २३

समासः॥

श्लाघ-ह्नुङ्॰ इत्यत्र इतरेतरद्वन्द्वः।

अर्थः॥

श्लाघ, ह्नुङ्, स्था, शप इत्येतेषां धातूनां प्रयोगे ज्ञीप्स्यमानः = ज्ञपयितुम् इष्यमाणः यत् कारकं तत् सम्प्रदानसंज्ञं भवति।

उदाहरणम्॥

देवदत्ताय श्लाघते। देवदत्ताय ह्नते। देवदत्ताय तिष्ठते। देवदत्ताय शपते।
काशिका-वृत्तिः
श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः १।४।३४

श्लाघ ह्नुङ् स्था शप इत्येतेषाम् ज्ञीप्स्यमानो यो ऽर्थह्, तत् कारकं सम्प्रदानसंज्ञं भवति। ज्ञीप्स्यमानः ज्ञपयितुम् इष्यमणः, बोध्यितुम् अभिप्रेतः। देवदत्ताय श्लाघते। देवदत्तं श्लाघमानस्ताम् श्लाघां तम् एव ज्ञपयितुम् इच्छति इत्यर्थः। एवम् देवदत्ताय ह्नुते। यज्ञदत्ताय ह्नुते। देवदत्ताय तिष्ठते। यज्ञदत्ताय तिष्ठते। देवदत्ताय शपते। यज्ञदत्ताय शपते। ज्ञीप्स्यमानः इति किम्? देअदत्ताय श्लाघते पथि।
न्यासः
श्लीघह्?नुङ्स्थाशपां ज्ञीप्स्यमानः। , १।४।३४

"ज्ञीप्स्यमानः" इति। "मारणतोषणनिशामनेषु ज्ञा" (धा।पा।८११) इति घटादिषु पठ()ते। तस्मात् निशामने ज्ञाने वत्र्तमानात् हेतुमण्णिच्। अथ वा "ज्ञप मिच्च" (धा।पा।१६२४) इति चुरादौ पठ()ते। तस्माच्चुरादिणिच्, मित्त्वात् ह्यस्वत्वम्, सन्, द्विर्वचनम्, "आप्ज्ञप्यृधामीत्" ७।४।५५ इतीत्वम्, "अत्र लोपऽभ्यासस्य" ७।४।५८ इत्यभ्यासलोपः, कर्मणि लकारः, शानच् यक्, "अतो लोपः" ६।४।४८। "श्लाघते" इति। "श्लाघु कत्थने" (धा।पा।११५) अनुदात्तेत्। "{ह्नुते- काशिका, "निह्नुते-पदमञ्जरी।} अपह्नते" इति। "ह्नुङ अपनयने" (धा।पा।१०८२), आदादिकः। "तिष्ठते" इति। "प्रकाशनस्थेयाख्ययोश्च" १।३।२३ इति तङ। "शपते" इति। "{शप आक्रोशे- धा।पा।} शप उपलम्भने" (धा।पा।१०००) इत्यनेनोपलसंख्यानन तङ॥
बाल-मनोरमा
श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः ५६४, १।४।३४

श्लाघह्नुङ्। "श्लाघृ कत्थने" "ह्नुङ् अपनयने" "ष्ठा गतिनिवृत्तौ" "शप उपालम्भे" एषां द्वन्द्वः। "शपा"मित्यनन्तरं "प्रयोगे" इत्यध्याहार्यम्। श्लाघादीनां स्तुत्यादिना बोधनमर्थः, ज्ञीप्स्यमान इति लिङ्गात्। ज्ञापनवाचिनो ज्ञपेः सन्नन्तात्कर्मणि शानच्। तदाह--एषां प्रयोगे इत्यादिना। गोपी स्मरादीति। मन्मथपीडावशाद्नोपी आत्मस्तुत्या विरहवेदनां कृष्णं बोधयतीत्यर्थः। कृष्णस्यैव स्तुत्यत्वे तु द्वितीयैवेत्याहुः। ह्नुते इति। सपत्न्यपनयनेन स्वाशयं कृष्णं बोधयतीत्यर्थः। तिष्ठते इति। गन्तव्यमित्युक्तेऽपि स्थित्या स्वाशयं कृष्णं बोधयतीत्यर्थः। "प्रकाशनस्थेयाख्ययोश्चे"त्यात्मनेपदम्। शपते इति। उपालम्भेन स्वाशयं कृष्णं बोधयतीत्यर्थः।

तत्त्व-बोधिनी
श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः ५०८, १।४।३४

श्लाघह्नुङ्। "श्लाघृकत्थने," "ह्नुङ् अपनयने" "ष्ठा गतिनिवृत्तौ,""शप उपलम्भे"। कृष्णाय श्लाघत इति। अ()स्मस्तु पक्षे शेष षष्ठ()आं प्राप्तायां वचनम्। ह्नुति इति। सपत्नीभ्यः कृष्णं ह्नुवाना तमेवाऽर्थं कृष्णं बोधयतीत्यर्थः। यस्य कस्यचिथ्नुति बोधयतीति वा। तिष्ठत इथि। स्थित्या स्वाभिप्रायं कृष्णं बोधयतीत्यर्थः। "प्रकाशनस्थेयाख्ययोश्चे "ति तङ्। शपत इति। उपालम्भेन स्वाभिप्रायं कृष्णं बोधयतीत्यर्थः। "शप उपालम्भे" इति तङ्।