पूर्वम्: १।४।३५
अनन्तरम्: १।४।३७
 
प्रथमावृत्तिः

सूत्रम्॥ स्पृहेरीप्सितः॥ १।४।३६

पदच्छेदः॥ स्पृहेः ६।१ ईप्सितः १।१ सम्प्रदानम् १।१ ३२ कारके ७।१ २३

अर्थः॥

स्पृह ईप्सायां धातोः प्रयोगे ईप्सितः अभिप्रेतः यः तत्कारकं संप्रदानसंज्ञं भवति।

उदाहरणम्॥

पुष्पेभ्यः स्पृहयति। फलेभ्यः स्पृहयति।
काशिका-वृत्तिः
स्पृहेरीप्सितः १।४।३६

स्पृह ईप्सायाम् चुरादावदन्तः पठ्यते। तस्य ईप्सितो यो ऽर्थः, तत् कारकं सम्प्रदानसंज्ञम् भवति। ईप्सितः इत्यभिप्रेतः उच्यते। पुष्पेभ्यः स्पृहयति। फलेभ्यः स्पृहयति। ईप्सितः इति किम्? पुश्पेभ्यो वने स्पृहयति।
लघु-सिद्धान्त-कौमुदी
अन्तरं बहिर्योगोपसंव्यानयोः १५८, १।४।३६

बाह्ये परिधानीये चार्थेऽन्तरशब्दस्य प्राप्ता संज्ञा जसि वा। अन्तरे, अन्तरा वा गृहाः; बाह्या इत्यर्थः। अन्तरे, अन्तरा वा शाटकाः; परिधानीया इत्यर्थः॥
न्यासः
स्पृहेरीप्सितः। , १।४।३६

"स्पृहयति" इति। अतो लोपस्य ६।४।४८ "अचः परस्मिन् पूर्वविधौ" १।१।५६ इति स्थानिवद्भावाद्गुणो न भवति। यदा तु पुष्पादीनामीप्सिततमत्वं विवक्ष्यते, तदा परत्वात् कर्मसंज्ञैव भवति-- पुष्पाणि स्पृह्रतीति॥
बाल-मनोरमा
स्पृहेरीप्सितः ५६६, १।४।३६

स्पृहेरीप्सितः। "स्पृह ईप्सायाम्"चुरादावदन्तः। ततः स्वार्थे णिचि अल्लोपस्य स्थानिवत्त्वाल्लघूपधगुणाऽभावे स्पृहिशब्दात्षष्ठ()एकवचनम्। "प्रयोग" इत्यध्याहार्यम्। तदाह--स्पृहयतेरित्यादिना। ननु "पुष्पेभ्यः स्पृहयती"त्येव स्यात्, नतु पुष्पाणि स्पृहयतीत्यपि। उभयं त्विष्यते। तत्राह ईप्सितमात्र इति। यदा त्वीप्सितत्वस्यापि न विवक्षा, किं तु विषयतामात्रविवक्षा, तदा "पुष्पाणां स्पृहयती"ति साधु। "कुमार्य इव कान्तस्य त्रस्यन्ति स्पृहयन्ति चे"त्यादिदर्शनात्। वाक्यपदीये तु स्पृहयतियोगे कर्मसंज्ञायाः शेषषष्ठ()आश्चायमपवाद इति स्थितम्। हेलाराजोऽप्येवम्। तन्मते पुष्पाणि स्पृहयति पुष्पाणां स्पृहयतीत्याद्यसाध्वेवेत्यन्यत्र विस्तरः।

तत्त्व-बोधिनी
स्पृहेरीप्सितः ५१०, १।४।३६

स्पृहेरीप्सितः। "स्पृह ईप्सायां" चुरादावदन्तः, तेन स्पृहयतीत्यत्र लघूपधगुणो न। परत्वादिति। तेन"परस्परेण स्पृहणीयशोभम्", स्पृहणीयगुणैर्महात्मभिः" इत्यादौ कर्मण्यनीयर् सिध्यति। शेषत्वविवक्षायां तु "कुमार्य इव कान्तस्य त्रस्यान्ति स्पृहयन्ति च " इत्यत्र षष्ठ()पि सिध्यतीति हरदत्तादयः। वाक्यपदीयहेलाराजीयग्रन्थयोस्तु स्पृहयतियोगे कर्मसंज्ञायाः शेषषष्ठ()आश्च बाधिकेयं संप्रदानसंज्ञेति स्थितम्। युक्तम चेतत्---"क्रियया यमभिप्रैति---" इत्यनेनैवेष्टसिद्धे "स्पृहेरीप्सितः"इत्येत्सूत्रस्य हरदत्तादिमते वैयथ्र्यप्रसङ्गात्। तस्माद्वाक्यपदीयादिग्रन्थानुरोधेन "परस्परेण स्पृहणीयशोभम्" इत्यादौ "दानीयो विप्रः" इतिवद्बाहुलकात्संप्रदानेऽनीयरिति व्याख्येयम्। "कुमार्य इव कान्तस्य" इथ्यत्र तु त्रस्यन्तीत्येतदर्थतया कृतार्थस्य कान्तस्येति षष्ठ()न्तस्य विभक्तिविपरिणामेन "कान्ताय स्पृहयन्ती"ति व्याख्येयमिति केचित्।