पूर्वम्: १।४।३९
अनन्तरम्: १।४।४१
 
प्रथमावृत्तिः

सूत्रम्॥ प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता॥ १।४।४०

पदच्छेदः॥ प्रत्याङ्भ्याम् ५।२ श्रुवः ६।१ पूर्वस्य ६।१ ४१ कर्त्ता १।१ ४१ सम्प्रदानम् १।१ ३२ कारके ७।१ २३

समासः॥

प्रत्याङ्भ्याम् इत्यत्र इतरेतरद्वन्द्वः।

अर्थः॥

प्रति आङ् इत्येवं पूर्वात् शृणोतेः धातोः प्रयोगे, पूर्वस्य कर्त्ता यत् कारकं, तत् सम्प्रदानसंज्ञं भवति॥

उदाहरणम्॥

यज्ञदत्तः देवदत्ताय गां प्रतिशृणोति। देवदत्ताय गाम् आशृणोति॥
काशिका-वृत्तिः
प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता १।४।४०

प्रति आङित्येवं पूर्वस्य शृणोतेः कारकम् सम्प्रदानसंज्ञं भवति। कीदृशम्? पूर्वस्य कर्ता। प्रतिपूर्व आङ्पूर्वश्च शृणोति रभ्युपगमे प्रतिज्ञाने वर्तते। स च अभ्युपगमः परेन प्रयुक्तस्य सतो भवति। तत्र प्रयोक्ता पूर्वस्याः क्रियाया कर्ता सम्प्रदानसंज्ञो भवति। देवचत्ताय गाम् प्रतिशृणोति। देवदत्ताय गामाशृणोति। प्रतिजानीते इत्यर्थः।
न्यासः
प्रत्याङ्भ्यां श्रुवः पूर्वस्य कत्र्ता। , १।४।४०

"परेण" इत्यादि। अन्येन केनचिदिदं मे क्रियतामिति प्रयुक्तो व्यापारितः सन् प्रतिजानीते। अतः प्रतिज्ञातुरन्येन प्रयुक्त्सयाभ्युपगमो भवति। प्रयोक्तेति व्यापारयिता। सूत्रे पूर्वस्येत्यर्थापेक्षया पुंल्लिङ्गेन निर्देशः।स त्वर्थो विचार्यमाणः क्रियैव भवति। यस्मात् कत्र्तेति क्रियाया एव भवति नान्यस्यार्थस्येत्याह-- "पूर्वस्याः क्रियायाः" इति। यश्चासौ पूर्वस्याः क्रियायाः कत्र्ता भवति, स प्रतिज्ञातुः प्रयोजको भवतीति हेतुसंज्ञायां प्राप्तायामिदं वनचम्। "देवदत्ताय गां प्रतिशृणोति" इति। अत्र पूर्वस्या यानचक्रियाया देवदत्तः कत्र्ता। देवदत्तेन हि मह्रं गां देहीति याचित स यदा ददामीति प्रतिजानीते, तदैवं प्रयुज्यते-- देवदत्ताय गां प्रतिशृणोतीति। पूर्वस्य कत्र्तेति किम्? विना तेन गवादेरभ्युपयेमानस्य कर्मण एव स्यात्। ननु च परत्वात् कर्मसंज्ञा तस्य बाधिका भविष्यति, नैतदस्ति; नाप्राप्ते हि संज्ञान्तर इदमारभ्यत इति। इहापि च देवदत्ताय गामाशृणोतीति देवदत्तस्य हेतुसंज्ञा प्राप्नोति। तत्र पूर्वस्य कत्र्तेत्यस्मिन्नसति यथा देवदत्तस्य हेतुसंज्ञां बाधते, तदा कर्मसंज्ञामपि बाधेत। अथ वा-- "पुरस्तादपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान्" (व्या।प।९) इति कर्मसंज्ञामेव बाधेत। पूर्वस्य कत्र्तेत्य()स्मस्तु सति हेतुसंज्ञामेव बाधते, न कर्मसंज्ञाम्॥
बाल-मनोरमा
प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता ५७०, १।४।४०

प्रत्याङ्भ्याम्। प्रत्याङ्भ्यामिति दिग्योगे पञ्चमी। परस्येत्यध्याहार्यं श्रुव इत्यस्य विशेषणम्। "श्रु श्रवणे"। इह तु प्रेरणापूर्वकाभ्युपगमे वर्तते। पूर्वशब्दः प्रेरणात्मकव्यापारं परामृशति। तदाह--आभ्यामित्यादिना। "पूर्वस्ये"त्यस्य व्याख्यानं-प्रवर्तनारूपस्येति। प्रेरणारूपस्येत्यर्थः। "प्रत्याङ्भ्या"मित्यनेन समुदिताभ्यां परस्येति नार्थो विवक्षितः, किन्तु प्रत्येकमेव तयोर्निमित्तत्वम्, अन्यथा "अभिनिविशश्चे"तिवत् "प्रत्याङ् श्रुवः" इत्येव ब्राऊयादित्यभिप्रेत्योदाहरति--विप्राय गां प्रतिश्रणोति आश्रणोति वेति। अत्र प्रतिपूर्वक आङ्पूर्वकश्च श्रुधातुः प्रेरणापूर्वकाभ्यपगमे वर्तते, ततश्च प्रवर्तितः प्रतिजानीते इति लभ्यते केन प्रवर्तित इत्याकाङ्क्षायां विप्रः कर्त्तृत्वेनान्वेति। तत्र विप्रस्य प्रेरणाकर्त्तृत्वात्संप्रदानत्वं कर्त्तृ तृतीयापवाद इत्यभिप्रेत्याह--विप्रेणेति। मग्यं गवादिद्रव्यं देहीति विप्रेण पृष्टः सन् देवदत्तस्तुभ्यं ददामीत्यभ्युपगच्छतीति योजना।