पूर्वम्: १।४।४०
अनन्तरम्: १।४।४२
 
प्रथमावृत्तिः

सूत्रम्॥ अनुप्रतिगृणश्च॥ १।४।४१

पदच्छेदः॥ अनुप्रतिगृणः ६।१ पूर्वस्य ६।१ ४० कर्त्ता १।१ ४० सम्प्रदानम् १।१ ३२ कारके ७।१ २३

समासः॥

अनु च प्रति च अनुप्रती, ताभ्यां घृणा, अनुप्रतिघृणा, तस्य अनुप्रतिगृणः, द्वन्द्वगर्भपञ्चमीतत्पुरुषः।

अर्थः॥

अनु पूर्वस्य प्रति पूर्वस्य च गृणातेः धातोः प्रयोगे पूर्वस्य कर्त्ता यत् कारकं, तत् सम्प्रदानसंज्ञकं भवति।

उदाहरणम्॥

होत्रे अनुगृणाति। होत्रे प्रतिगृणाति। (होतुः मन्त्रोच्चारकस्य प्रोत्साहणार्थं अपरः मन्त्रम् उच्चारयति इत्यर्थः)
काशिका-वृत्तिः
अनुप्रतिगृणश् च १।४।४१

पूर्वस्य कर्ता इति वर्तते। अनुपूर्वस्य प्रतिपूर्वस्य च गृणातेः कारकम् पूर्वस्याः क्रियायः कर्तृभूतं संप्रदानसंज्ञं भवति। होत्रे ऽनुगृणाति। होता प्रथमं शंसति, तम् अन्यः प्रोत्साहयति। अनुगरः, प्रतिगरः इति हि संसितुः प्रोत्साहने वर्तते। होत्रे ऽनुगृणाति, होतारं शंसन्तम् प्रोत्साहयति इत्यर्थः।
न्यासः
अनुप्रतिगृणश्च। , १।४।४१

"अनुप्रतिगृणः" इति श्नाप्रत्ययेन निर्देशात् क्र्यादिपठितस्य "गृ? शब्दे" (धा।पा।१४९८) इत्यस्य, न "गृ? निगरणे" (धा।पा।१४१०) इत्यस्य तौदादिकस्य। "होता प्रथमं शंसति"इति। एतेन स्तुतिक्रियायाः पूर्वस्या होता कत्र्तेति दर्शयति। प्रोत्साहयतीत्यनेनागृणातिप्रतिगृणातिशब्दयोरर्थमाचष्टे। कथं पुनज्र्ञायते-- अनुपूर्वः प्रतिपूर्वश्च शंसितुर्गृणातिः प्रोत्साहने वत्र्तत इत्याह-- "अनुगरः प्रतिगरः" इति। अनुगीर्यते = होता प्रथमं प्रशस्यते येन शब्देन सोऽयमनुगरः। एवं प्रतिगीर्यते येन स प्रतिगरः। पूर्वसय् कत्र्तेत्येव, होत्रेऽनुगृणातिक सदसीत्यधिकरणस्य मा भूत्॥
बाल-मनोरमा
अनुप्रति गुणश्च ५७१, १।४।४१

अनुप्रतिगुणश्च। पूर्वस्य कर्तेत्यनुवर्तते। "गृ? शब्दे" इत्यस्य श्नान्तस्याऽनुकरणशब्दाद्गृण इति षष्ठी। अत्र गृ()धातुः शंसितृकर्मके शंसनविषयकप्रोत्साहने वर्तते। तत्र पूर्वव्यापारस्य शंसनस्य कर्ता संप्रदानमित्यर्थः। तदाह--आभ्यामिति। पूर्वसूत्रे प्रत्याङ्भ्यामिति द्विवचननिर्देशबलात्प्रत्येकमेव धातुसंबन्धावधारणात्तत्साहचर्यादिहापि प्रत्येकमेव धातुसंबन्ध इत्यबिप्रेत्यादाहरति--होत्रे अनुगृणाति प्रतिगृणाति वेति। होत प्रथममिति। शंसितारं होतारम् उत्तरोत्तरशंसनविषये प्रोत्साहयतीति यावत्। "ओऽथ मोदै वे"ति प्रतिगरमन्त्रः। "ओ" इति संबोधने, मोदै" इति लोडुत्तमपुरुषैकवचनम्। "व" इत्येवकारार्थे। हे होतः। अथ त्वदीयशंसनान्तरं तुष्याम्येवेति तदर्थः। प्रोत्साहने होतुः कर्मत्वं प्राप्तं, पूर्वव्यापारं शंसनं प्रति कर्त्तृत्वाद्धोतुः संप्रदानत्वम्।

तत्त्व-बोधिनी
अनुप्रति गृणश्च ५१३, १।४।४१

अनुप्रति। "गुण" इति श्रान्तस्यानुकरणशब्दात्षष्ठी। प्रत्याङ्भ्याम्---"इति पूर्वसूत्रे द्विवचननिर्देशात्प्रत्येकमेव धातुसम्बन्ध इथि निर्धारिते तत्साहचर्यादिहापि प्रत्येकमेव धातुसम्बन्ध इति सूचयन्नाह---आभ्यां गृणातेरिति। होत्रे इति। कर्मत्वे प्राप्ते वचनम्।