पूर्वम्: १।४।४२
अनन्तरम्: १।४।४४
 
प्रथमावृत्तिः

सूत्रम्॥ दिवः कर्म च॥ १।४।४३

पदच्छेदः॥ दिवः ६।१ कर्म १।१ साधकतमम् १।१ ४२ कारके ७।१ २३

अर्थः॥

दिव्धातोः साधकतमं यत् कारकं, तत् कर्मसंज्ञं भवति, चकारात् करणसंज्ञं च।

उदाहरणम्॥

अक्षान् दीव्यति। अक्षैर्दीव्यति।
काशिका-वृत्तिः
दिवः कर्म च १।४।४३

पूर्वेण करणसंज्ञायां करनसंज्ञायां प्राप्तायाम् कर्मसंज्ञा विधीयते। दिवः साधकतमं यत् कारकम् तत् कर्मसंज्ञम् भवति, चकारात् करणसंज्ञम् च। अक्षान् दीव्यति, अक्षैर् दीव्यति।
न्यासः
दिव कर्म च। , १।४।४३

"दीव्यति" इति। "हलि च" ८।२।७७ इति दीर्घः॥
बाल-मनोरमा
दिवः कर्म च। ५५४, १।४।४३

दिवः कर्म च। साधकतममित्यनुवर्तते। तदाह--दिवः साधकतममिति। दिवुधात्वर्थं प्रति साधकतममित्यर्थः। चादिति। चकारात्करणसंज्ञकमित्यपि लभ्यत इत्यर्थः।

तत्त्व-बोधिनी
दिवः कर्म च ४९७, १।४।४३

द्विद्रोणेनेति। द्वयोद्र्रोणयोः समाहारो द्विद्रेणम्। पात्रादित्वात्स्त्रित्वाऽभावः। द्रोणद्वयसम्बन्धि धान्यमित्यर्थः। इह षष्ठी प्राप्ता। द्विद्रोणपरिमितधान्यार्थे मूल्ये द्विद्रोणशब्दः, तस्य च क्रयं प्रति करणत्वमितीहापि तृतीया सिद्धेति दिक्। चादिति। करणशब्दानुवृत्त्या, "परिक्रयणे संप्रदानमन्यतरस्या"मित्युत्तरसूत्रस्थाऽन्यतरस्याङ्ग्रहणापकर्षणेन वा संज्ञयोः पर्यायत्वे लब्धे चग्रहणं समुच्चयार्थम्। तेन "मनसा दीव्यती"ति "मनसदिव"इत्यत्र कर्मण्यण्, करणे तृतीया चोभयं युगपत्सिध्यति। "मनसः संज्ञायाम्ित्यलुक्। किञ्च "अक्षैर्देवयते देवदत्तो यज्ञदत्तेने"त्यत्र सकर्मकत्वादणि कर्तुर्णौ "गतिबुद्धी"त्यनेन कर्मत्वं न, "अणावकर्मका"दिति परस्मैपदमपि न भवति। ननु कर्मकरणसंज्ञासमावेशस्य "मानसादेव"इत्यत्र क-तार्थत्वादक्षान्दीव्यतीत्यत्र परत्वातृतीयैव स्यान्न तु द्वितीयेति चेत्(), अत्राहुः--कार्यकालपक्षे "कर्मणि द्वितीये"त्यत्र यदस्योपस्थानं तस्यानवकाशत्वाद्द्वितीयेति। स्यादेतत्--"दीव्यन्तेऽक्षा"इत्यत्राभिहितेऽपि कर्मणि करणत्वस्याऽनभिधानातृतीयं स्यात्। तथा "देवना अक्षा"इत्यत्र ल्युटा करणत्वस्याभिधानेऽप#इ कर्मणोऽनभिधानद्द्वितीया स्यात्। मैवम्। एकाव ह्रत्र शक्तिः संज्ञाद्वययोगिनी, तथा चैकस्यां शक्तावभिहितायामन्यस्या अप्यभिधानादुभयत्राप्यभिधानमेव, न त्वन भिहितत्वम्।