पूर्वम्: १।४।४५
अनन्तरम्: १।४।४७
 
प्रथमावृत्तिः

सूत्रम्॥ अधिशीङ्स्थाऽसां कर्म॥ १।४।४६

पदच्छेदः॥ अधिशीङ्स्थऽसाम् ६।३ कर्म १।१ ४८ आधारः १।१ ४५ कारके ७।१ २३

समासः॥

शीङ् च स्थाश्च आश्च शीङ्स्थासः, अधेः शीङ्स्थासः अधिशीङ्स्थासः, तेषां ॰ द्वन्द्वगर्भपञ्चमीतत्पुरुषः।

अर्थः॥

अधिपूर्वात् शीङ्, स्था, आस् इत्येतेषां धातूनां प्रयोगे आधारः यत् कारकं, तत् कर्मसंज्ञकं भवति।

उदाहरणम्॥

ग्रामम् अधिशेते (ग्रामे स्वपिति)। ग्रामम् अधितिष्ठति (ग्रामे अधिकारः सन् तिष्ठति)। पर्वतम् अध्यास्ते (पर्वतस्य उपरि वसति)॥
काशिका-वृत्तिः
अधिशीङ्स्थाऽअसां कर्म १।४।४६

पूर्वेण अधिकरणसंज्ञायां प्राप्तायां कर्मसंज्ञा विधीयते। अधिपूर्वाणां शीङ् स्था आसित्येतेषाम् आधारो यः, तत् कारकं कर्मसंज्ञं भवति। ग्रामम् अधिशेते। ग्रामम् अधितिष्ठति। पर्वतम् अध्यास्ते।
न्यासः
अधिशीङ्स्थासां कर्म। , १।४।४६

"अध्यास्ते" इति। "आस उपवेशने" (धा।पा।१०२१) अदादिः अनुदात्तेत्॥
बाल-मनोरमा
अधिशीङ्स्थासां कर्म ५३४, १।४।४६

अधिशीङ्। शीङ्, स्था, आस् एषां द्वन्द्वः। अधिपूर्वा शीङ्स्थाऽ‌ऽस इति विग्रहे शाकपार्थिवात्वादुत्तरपदलोपः। तदाह--अधिपूर्वाणामिति। अधिकरणसंज्ञापवादोऽयम्। अधिशेति इति। अधिशेते वैकुण्ठं हरिः, अधितिष्ठति वैकुण्ठं हरिः, अध्यास्ते वैकुण्ठं हरिरित्यन्वयः। अधिस्तु सप्तम्यर्थस्याधारस्य द्योतकः। वैकुण्ठे शेते तिष्ठत्यास्ते वेत्यर्थः।