पूर्वम्: १।४।४९
अनन्तरम्: १।४।५१
 
प्रथमावृत्तिः

सूत्रम्॥ तथायुक्तं चानिप्सीतम्॥ १।४।५०

पदच्छेदः॥ तथायुक्तम् १।१ अनीप्सितम् १।१ कर्म १।१ ४९ कारके ७।१ २३

समासः॥

तेन प्रकारेण युक्तं तथायुक्तं, मयूरव्यंसकादित्वात् (२।१।७१) तत्पुरुषसमासः। न ईप्सितम्, अनीप्सितं, नञ्तत्पुरुषः।

अर्थः॥

येन प्रकारेण कर्तुः ईप्सिततमं क्रियया युक्तं भवति, तेनैव प्रकारेण यदि कर्तुः अनीप्सिततमम् अपि युक्तं भवेत्, तद् अपि कर्मसंज्ञकं स्यात्।

उदाहरणम्॥

विषं भक्षयति। चौरान् पश्यति। ग्रामं गच्छन् वृक्षमूलान्युपसर्पति॥
काशिका-वृत्तिः
तथायुक्तं च अनीप्सितम् १।४।५०

येन प्रकारेण कर्तुरीप्सिततमं क्रियया युज्यते, तेन एव चेत् प्रकारेन यदनीप्सितं युक्तं भवति, तस्य कर्मसंज्ञा विधीयते। ईप्सितादन्यत् सर्वम् अनीप्सितम्, द्वेष्यम, इतरच् च। विषं भक्षयति। चौरान् पश्यति। ग्रामं गच्छन् वृक्षमूलान्युपसर्पति।
न्यासः
तथायुक्तं चानीप्सितम् , १।४।५०

चकारोऽवधारणे। अत एव वृत्तावाह-- "तेनैव" इति। "अनीप्सितम्" इति। यद्यप्ययं प्रसज्यप्रतिषेधः स्यात्, तदा ग्रामं गच्छन् वृक्षमूलान्युपसर्पतीत्यादौ वृक्षमूलादीनां कर्मसंज्ञा न स्यात्। तथा हि-- प्रसज्यप्रतिषेधे सत्यनेन योगेनानीप्सितस्यैव कर्मसंज्ञा विधीयते; वृक्षमूलानि च न तावदीप्तितानि, पूर्वमनभिसन्धाय प्रवृत्तेः; नाप्यनीप्सितानि, अप्रतिकूलत्वात्; ततश्चानीप्सितस्य कर्मसंज्ञा विधीयमाना तेषमीप्सितादन्यत्वेनानीप्सितान्न स्यात्। पर्युदासे तु सत्यनेन योनेनेप्सितादन्यस्य कर्मसंज्ञा विधीयते। भवन्ति च यथोक्तप्रकरणानि वृक्षमूलानीप्सितादन्यानि; अतस्तेषामपि कर्मसंज्ञा सिध्यतीत्येतदालोच्य पर्युदासोऽयमिति दर्शयितुमाह-- "ईप्सितादन्यत्" इत्यादि। किं पुनस्तदित्याह-- "द्वेष्यम्" इत्यादि। द्वेष्यम् = प्रतिकूलम्, यथा-- विषचौरादि। इतरदप्रतिकूलम्, यथा -- उक्तप्रकाराणि वृक्षमूलानि। "भक्षयति" इति। "भक्ष अदने" (धा।पा। १५५७) चौरादिकः॥
बाल-मनोरमा
तथा युक्तं चानीप्सितम् ५३०, १।४।५०

तथायुक्तं। "तथा"शब्दस्य सादृश्यवाचकस्य प्रतियोगसापेक्षत्वादाह-ईप्सिततभवदिति। पूर्वसूत्रे संनिहितत्वादीप्सिततममेव सादृश्यप्रतियोगीति भावः। क्रिययेति। क्रियाजन्यफलयुक्तमित्यर्थः। पूर्वसूत्रे ईप्सिततमस्य कर्मत्वमुक्तम्। द्वेष्योपेक्ष्यसंग्रहार्थमिदं वचनम्। तत्र उपेक्ष्यमुदाहरति-ग्रामं गच्छंस्तृणं स्पृशतीति। संयोगानुकूलव्यापारः स्पृशेरर्थः। अत्र स्पृश्यमानस्य तृणस्य ईप्सिततमत्वाऽभावेऽपि "गङ्गां स्पृशती"त्यादौ स्पृश्यमानस्येप्सिततमस्य गङ्गादेरिव क्रियाजन्यसंयोगात्मकफलाश्रयत्वात्कर्मत्वमिति भावः। द्वेष्यमुदाहरति--विषं भुङ्क्त इति। यदा कश्चिद्बलवता वैरिणा निगृह्रमाणो विषं भुङ्क्ते तदेदमुदाहरणम्। भुजेर्हि मुखे प्रक्षिप्तस्य गलविवरप्रवेशानुकूलः हनुचलनादिव्यापारोऽर्थः। विषस्य द्वेष्यतया ईप्सिततमत्वाऽभावेऽपि ओदनं भूङ्क्ते इत्यादौ भुज्यमानस्य ईप्सिततमस्य ओदनादेरिव क्रियाजन्यगलविवरप्रवेशात्मकफलाश्रयत्वात्कर्मत्वमिति भावः। नच "धातूपस्थाप्यफलशालि कर्मे"त्येवास्तु, किमीप्सिताऽनीप्सितयोः पृथग्ग्रहणेनेति वाच्यम्, "अग्नेर्माणवकं वारयती"त्यत्र हि "वारणार्थानामीप्सितः" इति माणवकस्याप#आदानत्वं प्राप्तं तन्निवृत्त्यर्थं "कर्त्तुरीप्सिततम"मिति वक्तव्यमेव। एवंच द्वेष्योदासीनसंग्रहार्थं "तथायुक्तं चे"ति सूत्रमावश्यकमित्यास्तां तावत्।

बाल-मनोरमा
अकथितं च ५३१, १।४।५०

अकथितं च। अकथितशब्दं व्याचष्टे--अपादानादिविशेषैरिति। अपादानं संप्रदानम् अधिकरणं कर्म करणं कर्ता हेतुरिति कारकसप्तकम्। तदेतद्यदाऽपादानत्वादिशेषात्मना न विवक्षितं किन्तु संबन्धसामान्यात्मनैव तदा तत्कर्मसंज्ञकमित्यर्थः। ननु "नटस्य श्रणोती"त्यत्र नटसंबन्धि श्रवणमित्यर्थके नटस्यापि कर्मत्वं स्यात्, तस्य क्रियान्वयित्वेन कारकत्वात्, वस्तुतोऽपादानस्य संबन्धित्वेन विवक्षितत्वाच्चेत्याशङ्क्य परिगणयति--दुह्राजिति। वार्तिकार्थसङ्ग्रहश्लोकोऽयम्। अतो व्याचष्टे--दुहादीनामिति। "दुह प्रपूरणे," "टु याचृ याच्ञायां,""डुपचष् पाके," "दण्ड दण्डनिपातने"चुरादिः। निग्रह इत्यर्थः। इह ग्रहणार्थकः। "रुधिर् आवरणे," "प्राच्छ ज्ञीप्सायाम्",। श्लोके प्रच्छीत्यत्रेकार उच्चारणार्थः। इका निर्देशे तु "ग्राहिज्या" इति संप्रसारणप्रसङ्गात्। "चिञ् चयने," "ब्राऊञ् व्यक्तायां वाचि," "शासु अनुशिष्टौ," "जि अभिभवे", "मन्थ विलोडने," "मुष स्तेये" इति द्वादशानामित्यर्थः। चतुर्णामिति। णीञ्प्रापणे, "ह्मञ्हरणे," "कृष विलेखने," "बह प्रापणे," इति चतुर्णामित्यर्थः। कर्मणा यद्युज्यते इति। "कर्मयु"गित्यस्य व्याख्यानमिदम्। करणे उपपदे कर्मणि वाच्ये "सत्सूद्विषे"त्यादिना क्विबिति भावः। यद्यपि-"दुहियाचिरुधिप्रछिभिक्षिचिञामुपयोगनिमित्तमपूर्वविधौ। ब्राउविशासिगुणेन च यत्सचते तदकीर्तितमाचरितं कविना।" इति प्रकृतसूत्रस्थश्लोकवार्तिके पचिमथिमुष्यादयो न पठिताः, तथापि चकारेण तेऽपि सङ्ग्राह्रा इति कैयटः। गां गोग्धीति। क्षरणानुकूलव्यापारः क्षारणपर्यायो दुहेरर्थः। क्षारणात्मकव्यापारप्रयोज्यक्षरणात्मकफलाश्रयत्वात्पयः कर्म। गौस्तु क्षरणेऽपादानम्। तदपादानत्वमुपेक्ष्य संबन्धित्वात्मना गोर्विवक्षायां कर्मत्वमनेन भवति। ततश्च शेषषष्ठीनिरासे द्वितीया भवति। तदिदमुक्तं प्रौढमनोरमायां--गोसंबन्धि पयःकर्मकं दोहनमर्थ इति। तथाच "न माषणामश्र्नीया"दित्यत्रेव शेषत्वविवक्षायां प्राप्तां षष्ठीं बाधितुमिदं सूत्रम्। गोरपादानत्वविवक्षायां तु पञ्चम्येव--गोः पयो दोग्धीति। गोः सकाशात्पयः क्षारयतीत्यर्थः। यदि तु गौः पयोविशेषणं तदा षष्ठ()एव। गोसंबन्धि यत्पयस्तत्क्षारयतीत्यर्थः। एवमग्रेऽप्यूह्रमिति प्राचीनमतानुसारी पन्थाः। वस्तुतस्तुअपादानत्वादिविशेषरूपेणाविवक्षितं किन्तु कर्मत्वेनैव विवक्षितम् अकथितम्। तादृशमपादानादि कर्मसंज्ञकं स्यादित्यर्थः, कारकत्वव्याप्संज्ञानां स्वबोध्ये कर्मत्वादिशक्तिमत्त्वबोधकत्वात्। बोधोऽपि तथैव। एवं च "गां दोग्धि पयः" इत्यत्र गोकर्मकं पयःकर्मकं च दोहनमित्येव बोधः। अवदेः सकाशाद्द्रवद्द्रव्यविभागो हि क्षरणम्। तच्च गोपनिष्ठव्यापारप्रयोज्यम्। एवंच कर्तृव्यापारप्रयोज्यक्षरणात्मकविभागविशेषाश्रयत्वाद्गोः, पयसश्च पूर्वसूत्राभ्यां कर्मत्वमस्त्येव। अत उभयकर्मकबोध एव युक्तो, नतु संबन्धित्वेन गोर्बोधः। अत एव प्रकृतसूत्रभाष्ये "अकथित"मित्यनेनैव सिद्धत्वात्पूर्वसूत्रद्वयस्य वैयथ्र्यमाशङ्क्य ईप्सितमात्रस्याप्यनेन कर्मसंज्ञायां "वारणार्थाना"मित्सयस्यानवकाशतयाऽग्नेर्माणवकं वारयतीत्यत्र माणवकस्याप्यपादनसंज्ञायां प्राप्तायां "कर्तुरीप्सिततमं कर्मे"त्यारब्धव्यम्। ततश्च द्वेष्यापेक्ष्यसङ्ग्रहाय "तथायुक्तं चानीप्सित"मित्यारब्धव्यमिति समाहितम्--"एतेन कर्मसंज्ञा सर्वा सिद्धा भवत्यकथितेन। तत्रेप्सितस्य किं स्यात्प्रयोजनं कर्मसंज्ञायाः॥ यत्तु कथितं पुरस्तादीप्सितयुक्तं च तस्य सिद्ध्यर्थम्। ईप्सितमेव तु यत्स्यात्तस्य भविष्यत्यकथितेन"॥ इति श्लोकद्वयेनेति शब्देन्दुशेखरे स्थितम्। "एतेन कर्मे"त्यादिभाष्यार्थस्तु कैयटे भाष्यप्रदीपोद्द्योते च स्पष्ट इत्यास्तां तावत्। बलिं याचत इति। "हरि"रिति शेषः बलिर्नाम असुरविशेषः। मह्रं देहीति प्रार्थना याचेरर्थः। दानानुकूलो मह्रं देहीति शब्दप्रयोगरूपव्यापार इति यावत्। बलिकर्तृकं वसुधाकर्मकं दानं प्रार्थयत इत्यर्थः। कर्तुः कर्मत्वविवक्षायां द्वितीयेति नव्याः। प्रार्थनारूपव्यापारजन्यदाने जनकतया आश्रयत्वात्। बलिंसबन्धि यद्वसुधाकर्मकं दानं तत्प्रार्थयत इत्यर्थ इति तु प्राचीनाः। अविनीतमिति। अभ्युपगमप्रार्थना याचेरर्थः। यदा कश्चिद्बलवानविनीतो दुर्बलं कंचिद्बाधते तदा दुर्बमधिकृत्येदं वाक्यं प्रवृत्तम्। अविनीतकर्तृकं विनयकर्मकमभ्युपगमं प्रार्थयते इत्यर्थः। कर्तुः कर्मत्वविवक्षायां द्वितीयेति नवीनाः। अविनीतसंबन्धिनमभ्युपगममिति तु प्राचीनाः। तण्डुलानोदनं षचतीति। विक्लित्त्यनुकूलव्यापारः पचेरर्थः। तप्तोदकप्रस्वेदनजनितप्रशिथिलावयवकत्वात्मकं मृदुविशदत्वं विक्लित्तिः। तया ओदनाख्याद्रव्यान्तरं प्रकृतिभूतेषु तण्डुलेषु वर्तते। ओदने तु जन्यजनकभावेन वर्तते। तण्डुलैः प्रकृतिभूतैरोदनं करोतीत्यर्थः। तण्डुलसमवायिकारणिकां तत्समवेतामोदनजनिकां विक्लितिं()त निर्वर्तयतीत्यर्थः। तत्र व्यापारफलं विक्लितिं()त प्रति जन्यतया आश्रयत्वादोदनः प्रधानं कर्म। तादृशौदनजनिकां विक्लितिं()त निर्वर्तयतीत्यर्थः। तत्र न्यापारफलं विक्लितिं()त प्रति जन्यतया आश्रयत्वादोदनः प्रधानं कर्म। तादृशौदनजनिकां विक्लितिं()त प्रति समवायित्वेनाधारत्वात्तण्डुलानां गुणकर्मत्वमिति तद्विवक्षायां द्वितीया। तण्डुसम्बन्धिनीमोदनजनिकां विक्लितिं()त निर्वर्तयतीति तु प्राचीनाः। गर्गानिति। दण्डधातुग्र्रहणानुकूलव्यापारार्थकः। ताडनादिना गर्गेभ्यः सुवर्णशतं गृह्णातीत्यर्थः। ताडनादिव्यापारप्रयोज्यग्रहणविषयत्वाच्छतं प्रधानकर्म। गर्गाणां तु तद्ग्रहणावधित्वाद्गुणकर्मत्वम्। ग्रहणं हि परकीयद्रव्यस्य परस्वत्वनिवृत्तिपूर्वकं स्वीकरणम्। तत्र स्वत्वविश्लेषे गर्गाणामवधित्वादपादानत्वम् ष ग्रहणघटकतादृशविश्लेषप्रतियोगभूतस्वत्वाश्रयत्वात्कर्मत्वं च। तत्रापादानत्वमनादृत्य कर्मत्वविवक्षायां द्वितीया। गर्गसम्बन्धिकमिति तु प्राञ्चः। व्रजमिति। निर्गमप्रतिबन्धपूर्वकयत्किञ्चिदधिकरणकचिरस्थित्यनुकूलबन्धद्वारकपिधानादिव्यापारो रूधेरर्थः। गां निर्गमप्रतिबन्धपूर्वकं व्रजे चिरस्थितिका#ं करोतीत्यर्थः। अत्र चिरस्थितिं प्रति व्रजस्याधिकरणत्वमुपेक्ष्य गोद्वारा तत्स्थित्याश्रयतया कर्मत्वविवक्षायां द्वितीया। व्रजसम्बन्धिनं गोकर्मकं चिरस्थित्यनुकूलव्यापारं करोतीत्यर्थ इति प्राचीनाः। माणवकमिति जिज्ञासितव्याऽर्थज्ञानानुकूलः "केन पथा गन्तव्य"मित्यभिलापादिरूपव्यापारः पृच्छेरर्थः। तत्र विषयतया ज्ञानरूपफलाश्रयत्वात्पन्थाः प्रधानकर्म। तज्ज्ञानं प्रति जनकतया आश्रयत्वान्माणवको गुणकर्म। माणवकेन पन्थानं ज्ञातुमिच्छतीत्यर्थः। अत्र माणवके करणत्वमुपेक्ष्य कर्मत्वविवक्षायां द्वितीया। पथिविषयकं माणवकसंबन्धि ज्ञानमिच्छतीत्यर्थ इति प्राञ्चः। वृक्षमवचिनोतीति। वृक्षात्प्रच्याव्य फलान्यादत्त इत्यर्थः। प्रच्याव्यादानानुकूलव्यापारो लोष्टप्रहारादिरूपोऽवपूर्वकचिञ्धातोरर्थः। तत्र प्रच्याव्यादानविषयत्वात्फलानि प्रधानकर्म। प्रच्यवावधित्वाद्वृक्षोऽपादानम्। तस्यापादानत्वमुपेक्ष्य कर्मत्वविवक्षायां द्वितीया, वृक्षस्य फलप्रच्यवाश्रयत्वेन कर्मत्वात्प्रच्यवस्य विभागस्य द्विनिष्ठत्वात्। वृक्षसंबन्धि यत्प्रच्युतफलादानं तत्करोतीत्यर्थ इति प्राचीनाः। माणवकं धर्मं ब्राऊते शास्ति वेति। बोधनान#उकूलव्यापारः "चोदनालक्षणोऽर्थो धर्म" इत्यादिशब्दप्रयोगात्मको ब्राऊञोऽर्थः। माणवकाय धर्म बोधयतीत्यर्थः। व्यापारप्रयोज्यबोधिविषयत्वाद्धर्मः प्रधानकर्म। बोधविषयेण कर्मणाऽभिप्रेयमाणत्वान्माणवकः संप्रदानम्। तस्य संप्रदानत्वमुपेक्ष्य धर्मद्वारा बोधाश्रयत्वात्कर्मत्वविवक्षायां द्वितीया। धर्मविषयकं माणवकसंबन्धिनं बोधं जनयतीत्यर्थ इति तु प्राञ्चः। शासेस्तु धर्मं कुर्वित्यादिविधिघटितशब्दप्रयोगरूपो बोधनानुकूलव्यापारोऽर्थः। इतरत्प्राग्वत्। शतं जयतीति। "जि अभिभवे"। ग्रहणानुकूलताडनादिव्यापारो जयतेरर्थः। गर्गान् शतं दण्डयतीतिवद्व्याख्येयम्। सुधां क्षीरनिधिं मथ्नातीति। "मन्थ विलोडने" द्रवद्रव्यगतसारोद्भवनानुकूलो मन्थानदण्डभ्रमजनितसंक्षोभात्मक आस्फालनपर्यायो व्यापारो मन्थेरर्थः। क्षीरोदधेः सकाशात्सुधां मन्थानदण्डभ्रमणेनोद्भावयतीत्यर्थः। व्यापारप्रयोज्योद्भवाश्रयत्वात्सुधा प्रधानकर्म। क्षीरोदधिस्तूद्भवं प्रत्यपादानम्। तस्यापादानत्वमुपेक्ष्य सुधाद्वारा उद्भवाश्रयत्वात्कर्मत्वविवक्षायां द्वितीया। सुधाश्रयं क्षीरोदधिस्तूद्भवं करोतीत्यर्थ इति तु प्राचीनाः। देवदत्तं शतं मुष्णातीति। अपश्यति देवदत्ते तदीयं सुवर्णशतं तस्मादपनीयादत्ते इत्यर्थः। परस्वामिकद्रव्यस्य स्वामिनः सकाशादपनीयादानानुकूलः स्वाम्यज्ञातो निशासंचारभित्तिच्छिद्रकरणादिरूपव्यापारो मुषेरर्थः। व्यापारप्रयोज्यापनयनपूर्वकादानाश्रयत्वाच्छतं प्रधानकर्म। अपनयनावधित्वाद्देवदत्तोऽपादानम्। अपादानत्वमनादृत्यापनीयादेयद्रव्यस्वामितया देवदत्तस्यापनीयादानश्रयत्वात्कर्मत्वविक्षायां द्वितीया। शतकर्मकं देवदत्तसंबन्ध्यपनीयादानं करोतीत्यर्थ इति तु प्राञ्चः। ग्राममजां नयतीति। ग्रामेऽजां प्रापयतीत्यर्थः। "णीञ् प्रापणे"। देशान्तरसंयोगानुकूलश्चलनगमनपर्यायो व्यापारः प्राप्तिः। नतु देशान्तरसंयोगमात्रम्। ग्रामं प्रति चलनदशायामेव प्राप्नोतिहगच्छतीति प्रयोगदर्शनात्। चलनेत संयोगे जाते अजा ग्रामं गता प्राप्तेत्येव दर्शनात्। तादृशप्राप्त्यनुकूलो दण्डोद्यमनमार्गान्तरगतिप्रतिबन्धपूर्वकयोग्यमार्गसंयोजनादिरूपव्यापारो नीधातोरर्थः। एतादृशव्यापारप्रयोज्यग्रामसंयोगतदनुकूलगमनोभयाश्रयत्वादजा प्रधानकर्म। तादृशाऽदाघारत्वाद्ग्रामोऽधिकरणम्। अधिकरणत्वमनादृत्य ग्रामस्यापि तथाविधसंयोगाश्रयत्वात्कर्मत्वविवक्षायां द्वितीया। अजाकर्मकं ग्रामसंबन्धिनयनमित्यर्थ इति तु प्राचीनाः। एवमेव-ग्राममजां हरति कर्षति वहतीत्यपि व्याख्येयम्। तत्र देशान्तरसंयोगानुकूलमजाचलनं वाहकद्वारकं, तादृशचलनानुकूलव्यापारः स्कन्धग्रहणादिरूपो हरतेरर्थः। रज्जुबन्धनादिना बलाच्चलनं कृषेरर्थः। शकटाद्यारोपणादिरूपदेशान्तरसंयोगानुकूलप्राप्त्यनुकूलो वहेरर्थ इति विशेषः। अर्थनिबन्धनेयं संज्ञेति। कैयटादिभिस्तथा व्याख्यातत्वादिति भावः। तथाच #एतदर्थकधात्वन्तरसंयोगेऽपि द्विकर्मत्वं लभ्यते। वस्तुतस्तु भाष्ये याचिरूधीत्याद्युदाह्मतश्लोकद्वयपरिगणिता दुहियाचिरुधिप्रच्छिभिक्षिचिञ्ब्राऊञ्शासय इत्यष्टावेव धातवो द्विकर्मकाः। न तु पचिदण्डिजिप्रभृतयस्तद्बहिर्भूता अपि। अर्थनिबन्धनेयं संज्ञेत्यपि न युक्तम्, भाष्ये अदर्शनात्, भाष्ये याचिग्रहणेनैव सिद्धे भिक्षिग्रहणवैयथ्र्याच्च। नन्वेवं सति "अहमपीदमवोद्यं चोद्ये" इति "तद्राजस्य बहुषु" इति सूत्रस्थभाष्यविरोधः। तत्र हि चुदधातुश्चौरादिकः प्रच्छिपर्यायः, कर्मणि लट्, उत्तमपुरुषैकवचनम्। अप्रष्टव्यमहं पृच्छये इत्यर्थः। अत्रि चुदेर्द्विकर्मकत्वदर्शनादर्थनिबन्धनेयं संज्ञेति विज्ञायत इति चेन्न। तावता चुदधातोरपि द्विकर्मकत्वलाभेऽपि तदन्येषां द्विकर्मकत्वे मानाऽभावात्। अत एव "कर्तुरीप्सिततम"मिति सूत्रभाष्ये "द्वयर्थः पचिः, तण्डुलानोदनं पचतीति तण्डुलान्विक्लेदयन्नोदनं निर्वर्तयतीति गम्यते। तण्डुलानादनं पचतीति तण्डुलविकारमोदनं निर्वर्तयतीति गम्यते। ओदनं पचतीति ओदनार्थान् तण्डुलान् विक्लेदयतीति गम्यत इत्यादाह्मतम्। "कर्तुरीप्सिततम"मित्येव तण्डालानापि कर्मत्वमिति पचेरेतदुदाहरणत्वमनुपपन्नमेव। तस्माद्भाष्यपरिगणितबहुर्भूतधातूनामन्तर्भावितण्यर्थकत्व एव द्विकर्मकत्वमिति शब्देन्दुशेखरे स्थितम्।

ननु कुरून्स्वपिति देवदत्तः, मासमास्ते इत्यादौ कुर्वादेरनुद्देश्यत्वात् "कर्तुरीप्सिततम"मिति कर्मत्वं न संभवति, कर्तुरेव स्वापादिक्रियाश्रयत्वात् "तथायुक्त"मित्यपि न कर्मत्वमित्यत आह--अकर्मकधातुभिरिति। ग्रामसमूहात्मककुरुपञ्चालाऽवन्त्यादिपरोऽत्र देशशब्दः, नतु ग्रादिरपि। तेन "ग्रामे स्वपिती"त्यत्र न द्वितीया। अत्र च "अधिशीङ्स्थासां कर्मे"ति लिङ्गम्। अन्यथा अधिशेते अधितिष्ठति अध्यास्ते वा वैकुण्ठं हरिरित्यत्राप्यनेनैव कर्मत्वसिद्धेस्तद्वैयथ्र्यं स्पष्टमेवेत्यभिप्रेत्यैदाहरति--कुरून् स्वपितीति। "देवदत्त" इति शेषः। कुरुषु निद्रां करोतीत्यर्थः। देवदत्तात्तु न तृतीया, तिंङा अभिहितत्वादिति भावः। कुर्वादिशब्दा जनपदविशेषेषु स्वभावान्नित्यबहुवचनान्ताः। मासमास्ते इति। मासस्याधिकरणसंज्ञां बाधित्वा कर्मत्वम्। गोदोहमिति। दोहनं दोहः। भावे घञ्। भावो धात्वर्थः। गोदोहनकालोऽत्र विवक्षितः। नचेह कालत्वादेव सिद्धिः शङ्क्या,अहोरात्रसमूहस्य मासादेरेव तत्र ग्रहणात्। गन्तव्यतद्वेनाऽध्वानो विशेषितत्वान्नियतपरिमाणः क्रोशादिरेव गृह्रत इत्यभिप्रेत्योदाहरति--क्रोशमास्ते इति। गन्तव्यत्वविशेषणादध्वन्यास्ते इत्यत्र न भवति। अनत्यन्तसंयोगार्थमिदं वार्तिकम्। अत्यन्तसंयोगे तु "कालाध्वनोरत्यन्तसंयोगे" इत्येव सिद्धमिति प्राचीनानुसारी पन्थाः। वस्तुतस्तु "अकर्मकधातुभिर्योगे" इत्यादिवचनं भाष्ये न दृश्यते। किंतु अक्रमकधातूनां कथं द्विकर्मकत्वमित्याशङ्कायां "कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्रक्रमणाम्। देशश्चे"त्युक्तम्। हिशब्दघटितत्वादिदं न विधायकं, किन्त्वनुवादकमेव। तथाहि "कुरून् स्वपिती"त्यादौ स्वापादिक्रियया कुर्वादीन् व्याप्नोतीत्यर्थः, धातूनामनेकार्थतया कदाचित्तेषां स्वापादिकरणकव्यापनेऽपि वृत्तेः। ततश्च "कर्तुरीप्सिततम"मित्येव सिद्धम्। यदा तु स्वपादिधातूनां स्वापादावेव वृत्तिर्नतु व्याप्तिपर्यन्ते, तदा कुरुषु स्वपिति, मासे आस्ते इत्यधिकरणत्वमेव। एतच्च "अकथितं चे"त्यत्र "कालाध्वनोरत्नयन्तसंयोगे" इत्यत्र च भाष्ये स्पष्टम्। अत एव "समां समां विजायते" इति सूत्रे "समायां समायां विजायते" इति विग्रहकथनं भाष्ये सङ्गच्छते। अन्यथा द्वितीयाप्रसङ्गात्। अत एव च लकारार्थप्रक्रियायाम् "अत्यन्तापह्नवे लिड्वक्तव्यः" इत्यत्र "कलिङ्गेष्ववात्सीः?। नाहं कलिङ्गान् जगाम" इति मूलकृदुदाह्मते व#आक्ये कलिङ्गेष्विति सप्तमी संगच्छते। उक्तं च हरिणा--"कालभावाध्वदेशानामन्तर्भूतक्रियान्तरैः। सर्वैरकर्मकैर्योगे कर्मत्वमुपजायते॥" इति। इति शब्देन्दुशेखरे प्रपञ्चितम्।

बाल-मनोरमा
क्रीतात्करणपूर्वात् ४९९, १।४।५०

क्रीतात्करणपूर्वात्। प्रातिपदिकादित्यनुवृत्तमत इत्यनुवृत्तेन क्रीतादित्यनेन च विशेष्यते, तदन्त विधिः। तदाह--क्रीतान्तादित्यादिना। करणमादिर्यस्येति विग्रहः। प्रातिपदिकशब्दो विशेष्यं, तेन करणादेरिति पुंस्त्वमुपपन्नम्। वस्त्रक्रीतीति। ननु वस्त्रेण क्रीतेति टाबन्तेन विग्रहे कर्तृकरणे कृता बहुल"मिति समासात्मकं प्रातिपदिकमादन्तमेव, न त्वदन्तमिति कथमत्र ङीषिति चेत्, सत्यम्--समासस्य तावदलौकिकविग्रहवाक्यं प्रकृतिः। वस्त्र भिस् क्रीत इति स्थिते "गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः" इति परिभाषया सुबुत्पत्तेः प्रागेव क्रीतशब्देन समासे "सुपो धातु" इति सुब्लुकि वस्त्रक्रीतेति प्रातिपदिकस्य अदन्तत्वं निर्बाधमिति भावः। एतच्च "पुंयोगादाख्याया"मिति सूत्रे भाष्ये स्पष्टम्। धनक्रीतेत्यत्रापि ङीष् स्यादित्यत आह-क्वचिन्नेति। "कर्तृकरणे कृता बहुल"मिति बहुलग्रहणेन "गतिकारकोपपदाना"मित्यस्य क्वचिदप्रवृत्त्यवगमादिह सुबन्तेन समासः। तत्र च सुपः प्रागेवान्तरङ्गत्वाट्टापि सति ततः सुपि टाबन्तप्रकृतिकसुबन्तेन समासे सुब्लुकि धनक्रातीशब्दस्य अदन्तत्वाऽभावान्न ङीषित्यर्थः। एवं च "अत" सुपि टाबन्तप्रकृतिकसुबन्तेन समासे सुब्लुकि धनक्रीताशब्दस्य अदन्तत्वाऽभावान्न ङीषित्यर्थः। एवं च "अत" इत्यनुवृत्तेरेतत्प्रयोजनमित्युक्तं भवति। एतच्च "उपपदमतिङि"त्यत्र कैयटे स्पष्टम्। करणपूर्वार्त किम्?। सुकीता नचैवमपि वस्त्रेण क्रीतेति वाक्यान्ङीष्प्रसङ्गः, क्रीतेति प्रातिपदिकस्य करणपूर्वात्वात्, अदन्तत्वाच्चेति वाच्यं, करणपूर्वादिति हि क्रीतान्तस्य प्रातिपदिकस्य विशेषणं, नतु क्रीतशब्दस्य। करणं पूर्वं यस्मिन्निति बहुव्रीहिः। करणशब्दात्मकपूर्वायवात् क्रीतान्तसमासप्रातिपदिकादित्यर्थः। एतदर्थमेव पूर्वग्रहणम्। अन्यथा "क्रीतात्करणा"दित्येवावक्ष्यदित्यलम्।

तत्त्व-बोधिनी
तथा युक्तं चानीप्सितम् ४७७, १।४।५०

ईप्सिततमवदिति। सूत्रे चशब्दोऽपिशब्दार्थे वर्तत इति ध्वनयन्नाह--अनीप्सितमपीति। ईप्सितादन्यदनीप्सितमिति पर्युदासोऽयं, तेन यदुपेक्ष्यं, यच्च द्वेष्यं, तद्द्वयमपीह गृह्रत इत्याशयेनाद्यमुदाहरति---ग्रामं गच्छन् तृणं स्पृशतीति। यथा स्पृश्यमानस्य ग्रामादेरीप्सितस्य क्रियायोगस्तज्जन्यसंयोगादिफलाधारत्वात्, तथैवानीप्सितस्य तृणादेरपीति भावः। इह हि ग्रामं गच्छतस्तृणस्पर्शनं नान्तरीयकं, तृणस्याऽनीप्सितत्वात्। यदा तु तृणमपीप्सिततमं भवति तदा पूर्वेणैव सिद्धम्। उपेक्ष्यं च--नोपेक्षाबुद्धिविषयः, नदी कूलं कषतीत्यचेतने तदसम्भवात्। किन्तु यत्रेप्साद्वेषयोरभावस्तदुपेक्ष्यमिति विवक्षितम्। विषमिति। अत्र विषं हेयमप्योदनवद्भुजिना सम्बन्धात्कर्म। ननु य एव पुरुषो व्याध्यादिना पीड()माने मरणमेव श्रेयो मन्यते तस्य विषमपूप्सितमे। योऽपि भ्रान्त्या भुङ्क्ते तस्यापि गुडादिवद्बुद्द्या व्यवसीयमानं विषमीप्सितमेव। कथमन्यथा प्रवर्तेत। तस्मादिदमुदाहरणमयुक्तमेवेति चेत्। अत्राहुः--यदा कश्चिन्मरणकातरोऽपि वैरिणा निगृह्रमाणो विषं भुङ्क्ते तदेदमुदाहरणमिति। अनीप्सितग्रहणं स्पष्टप्रतिपत्त्यर्थं, "तथा युक्तम्-----"सूत्रद्वयकथन#एनेति चेत्। अत्राहुः--"अग्रेर्माणवकं वारयती"त्यत्र "वारणार्थानामीप्सितः"इति सूत्रेण माणवकस्यापादानत्वं प्राप्तं तद्बाधनाय "कर्तुरूप्सिततम"मिति वक्तव्यमेव। एवञ्च द्वेष्योदासीनयोः सङ्ग्रहार्थं "तथा यूक्तम्----"इत्यपि आवश्यकमेवेति।

तत्त्व-बोधिनी
क्रीतात्करणपूर्वात् ४५०, १।४।५०

क्रीतात्। इह प्रकरणे "अतः"इत्यनुवर्तते, "प्रातिपदिका"दिति च, तदाह--अदन्तादिति। "प्रातिपदिका"दिति शेषः। वस्त्रक्रीतीति। "वस्त्र भिस्क्रीते"ति स्थिते प्राक्तुबुत्पत्तेः "कर्तृकरणे"इति समासेऽदन्तत्वान्ङीष्। क्वचिन्नेति। "कर्तृकरणे कृता बहुल"मिति बहुलग्रहणात् "गतिकारकोपपदे"ति वक्ष्यमाणस्य क्वचिदप्रवृत्तौ सुबन्तेन समासः। तत्र सुपः प्रागेवान्तरङ्गत्वाट्टाप्, ततोऽदन्तत्वाऽभावान्न ङीषिति भावः। करणपूर्वादिति किम्()। गवा क्रीताअ()ओन क्रीतेत्यादिविग्रहे मा भूत्। पूर्वशब्दो ह्रवयववचनः, समासप्रातिपदिकं चान्यपदार्थः। करणं पूर्वं यस्मिन्? प्रातिपदिके तदिदं करणपूर्वं, तस्मादित्यर्थः।