पूर्वम्: १।४।५२
अनन्तरम्: १।४।५४
 
प्रथमावृत्तिः

सूत्रम्॥ हृक्रोरन्यतरस्याम्॥ १।४।५३

पदच्छेदः॥ हृक्रोः ६।२ अन्यतरस्याम् ७।२ अणि ७।१ लुप्ता ५२ कर्त्ता १।१ ५२१।१ ५२ णौ ७।१ ५२ कर्म १।१ ४९ कारके ७।१ २३

समासः॥

हृक्रोः इत्यत्र इतरेतरद्वन्द्वः।

अर्थः॥

हृञ्, कृञ् इत्येतयोः धात्वोः, अण्यन्तयोः यः कर्त्ता, सः ण्यन्तावस्थायां विकल्पेन कर्मसंज्ञकः भवति।

उदाहरणम्॥

हरति माणवको भारम्, हारयति माणवकं भारम्, हारयति माणवकेन भारम्। करोति कटं देवदत्तः, कारयति कटं देवदत्तम्, कारयति कटं देवदत्तेन।
काशिका-वृत्तिः
हृक्रोरन्यतरस्याम् १।४।५३

अनि कर्त स णौ इति वर्तते। हरतेः करोतेश्च अण्यन्तयोर् यः कर्ता स ण्यन्तयोरन्यतरस्यां कर्मसंज्ञो भवति। हरति भारं मानवकः, हरयति भारं मानवकं, मानवकेन इति वा। करोति कटं देवदत्तः, कारयति कटं देवदत्तं, देवदत्तेन इति वा। अभिवादिदृशोरात्मनेपद उपसङ्ख्यानम्। अभिवदति गुरुं देवदत्तः, अभिवादयते गुरुं देवदत्तं, देवदत्तेन इति वा। पश्यन्ति भृत्या राजानम्, दर्शयते भृत्यान् राजानम्, भृत्यैः इति वा। आत्मनेपदे इति किम्? दर्शयति चैत्रं मैत्रमपरः। प्राप्तविकल्पत्वाद् द्वितीयैव। अभिवादयति गुरुं माणवकेन पिता। अप्राप्तविकल्पत्वात् तृतीया एव।
न्यासः
ह्मक्रोरन्तयतरस्याम् , १।४।५३

गत्यर्थादयो निवृत्ताः। तेनोभयत्र विभाषेयम्। यदा हरतिर्गतौ वत्र्तते, अभ्यवहारे वा, करोतिश्चाकर्मणो भवति तदा प्राप्ते। यदा तु हरतिः स्तेयादौ वत्र्तते, करोतिश्च सकर्मको भवति तवाऽप्राप्ते। "उपसंख्यानम्" इति। प्रतिपादनमित्यर्थः। एतच्च प्रकृतत्वात् तत्रेदं प्रतिपादनम्-- "अकथितञ्च" १।४।५१ इत्यतश्चकारोऽनुवत्र्तते, स चानुक्तसमुच्चयार्थः। तेनाभिवादिदृशोरप्यात्मनेपदे कर्मसंज्ञा भविष्यतीति। "अभिवादयते" इति। "णितश्च"(१।३।क७४) इत्यात्मनेपदम्। "दर्शयते" इति। अत्रापि "णेरणौ" १।३।६७ इत्यादिना।
बाल-मनोरमा
ह्मक्रोरहन्यतरस्याम् ५३३, १।४।५३

ह्मक्रो। हा च का च ह्मकरौ, तयोरिति विग्रहः। हारयति कारयति वेति। हरति करोति वा कटं भृत्यः, तं प्रेरयतीत्यर्थः। अत्र प्रयोज्यकर्तुर्भृत्यस्य कर्मत्वविकल्पः। ह्मक्रोर्गत्यर्थादिष्वनन्तर्भावादप्राप्ते विभाषेयम्। ह्मक्रोरर्थान्तरे तु प्राप्तविभाषा। "अब्यवहारयति सैन्धवान्सैन्धवैर्वा," "विकारयति सैन्धवान्सैन्धवैर्वा"। अत्र अब्यबहरतेर्भक्षणार्थत्वाद्विकारयतेरकर्मकत्वाच्च प्राप्तिः।

अभिवादीति। हेतुमण्ण्यन्तस्याभिपूर्वकवदधातोर्दृशिप्रकृतिकण्यन्तस्य चात्मनेपदिनोऽणौ कर्ता णौकर्म वेत्यर्थः। अभिवादयते इति। अभिवदति=नमस्करोति देवं भक्तः, तं गुरुः प्रेरयतीत्यर्थः। कर्तृगामिति फले "णिचश्चे"त्यात्मनेपदम्। अत्र भक्तस्य प्रयोज्यकर्तुः कर्मत्वविकल्पः। अप्राप्तविभाषेयम्। परसमैपदे तु अभिवादयति देवं भक्तेनेत्येव। पश्यति देवं भक्तः, तं गुरुः प्रेरयति, दर्शयते देवं भक्तं भक्तेन वा। "गतिबुद्धी"त्यत्र बुद्धिग्रहणेन ज्ञानसामान्यवाचिन एव ग्रहणमित्युक्तम्, तथापि "दृशेश्चे"ति नित्यं प्राप्ते विकल्पः।

तत्त्व-बोधिनी
ह्यकोरन्यतरस्याम् ४८०, १।४।५३

ह्यकोः। हा च कता च ह्मकारौ, तयोरिति विग्रहः। हुश्च कुश्च ह्मक्रोरिति वा। प्रथमान्तेन, परिनिष्ठितचविभक्त्या वा विग्रहो इति सिद्धान्तात्। "गतिबुद्धी"त्यादीह नानुवर्तते। तेन उभयत्रविभाषेयम्। अभ्यवपूर्वस्य हरतेर्भक्षणार्थकत्वाद्विकारार्थस्य करोतेश्चाऽकर्मकत्वात् "गतिबुद्धि"इत्यादिना अणौ कर्तुर्णौ कर्मत्वे प्राप्ते, अर्थान्तरे चाऽनयोः सकर्मकत्वादप्राप्तेऽस्यारम्भात्। अप्राप्तावुदाहरणमाह---हारयतीति। हरति करोति वा कटं भृत्य इत्यण्यन्तावस्थायां भृत्यः कर्ता, स एव ण्यन्तावस्थायां कर्माऽभूत्। प्राप्ते तूदाहरणम्--तृणमभ्यवहारयति सैन्धवान्, तृणमभ्यवहारयति सैन्धवैः। विकारयति सैन्धवान्, विकारयति सैन्धवैरिति बोध्यम्। ननु यदि "गतिबुद्धी"त्यादिरिह नानुवर्तेत तदैतदेवं स्यात्, तत्रैव मानं न पश्याम इति चेन्मैवं, "न वेति विभाषा"इति सूत्रे उभयत्रविभाषासु भाष्यकृताऽस्यापि सूत्रस्य गणितत्वेनोक्तशङ्काया अनवतारात्।

अभिवादिदृशोरात्मनेपदे वेति वाच्यम्। अभिवादीति। "वद सन्देशवचने" चुरादिराधृषीयः। अभिपूर्वकत्वान्नमस्कारार्थता। अभिवादयतेरप्राप्तौ, दृशेस्तु प्राप्तावयं विकल्पः। अभिवदति देवं भक्तस्तं प्रेरयत्यन्यः--अभिवादयते। "णिचश्चे"त्यात्मनेपदम्। परस्मैपदे तु अभिवादयति देवं भक्तेनेत्येव। तथा पश्यति देवं भक्तः, दर्शयते देवं भक्तमित्यादि।