पूर्वम्: १।४।५३
अनन्तरम्: १।४।५५
 
प्रथमावृत्तिः

सूत्रम्॥ स्वतन्त्रः कर्त्ता॥ १।४।५४

पदच्छेदः॥ स्वतन्त्रः १।१ कर्त्ता १।१ ५५ कारके ७।१ २३

अर्थः॥

क्रियायाः सिद्धौ स्वतन्त्रं यत् कारकं, तत् कर्तृसंज्ञकं भवति।

उदाहरणम्॥

देवदत्तः पचति। यज्ञदत्तः पचति।
काशिका-वृत्तिः
स्वतन्त्रः कर्ता १।४।५४

स्वतन्त्रः इति प्रधानभूत उच्यते। अगुणीभूतो, यः क्रियासिद्धौ स्वतन्त्र्येण विवक्ष्यते, तत् कारक्ं कर्तृसंज्ञं भव्ति। देवदत्तः पचति। स्थाली पचति। कर्तृप्रदेशाः कर्तृकरणयोस् तृतीया २।३।१८ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
स्वतन्त्रः कर्ता ७०१, १।४।५४

क्रियायां स्वातन्त्र्येण विवक्षितोर्ऽथः कर्ता स्यात्॥
लघु-सिद्धान्त-कौमुदी
स्वतन्त्रः कर्ता ८९६, १।४।५४

क्रियायां स्वातन्त्र्येण विवक्षितोर्ऽथः कर्ता स्यात्॥
न्यासः
स्वतन्त्रः कर्ता। , १।४।५४

अस्त्ययं स्वतन्तरशब्दो बहुव्रीहिः। स्वं तन्त्रं यस्य स स्वतन्त्रः। अस्ति च समासप्रतिरूपको रूढिशब्दः, प्रधानार्थवृत्तिः, यथा-- स्वतन्त्रोऽयमिह देवदत्त इति, प्रधानभूत इति गम्यते। तत्र यदि पूर्वो गृह्रेत तदा तन्तुवायस्यैव स्यात्; विस्तृता हि तन्तवस्तन्त्रम्, तच्च तन्तुवायस्यैवास्ति। देवदत्तः पचतीत्यादौ न स्यात्। इतरस्य तु ग्रहणे सर्वत्र भवति। तस्मात् व्याप्तेन्र्यायात् स एव गृह्रत इति मत्वाह-- "स्वतन्त्र इति प्रधानभूतः" इति। यद्येवमप्रधानमपेक्ष्य प्रधानमुच्यत इति यत्राधिकरणादीन्यपराण्यप्रधानानि कारकाणि सन्ति, देवदत्तः काष्ठैरग्निनोदनं स्थाल्यां पचतीत्यादौ तत्रैव स्यात्। यत्र तु तेषामविवक्षा-- आस्ते देवदत्तः, शेते देवदत्त इत्यादौ, तत्र न स्यादिति यो देशयेत् तं प्रत्याह-- "अगुणभूतः" इति। एवं मन्यते-- प्रधानेनागुणभाव उपलक्ष्यते। गुणभावो यत्र नास्ति स कत्र्तेति। कारकान्तराविवक्षायामप्यगुणभावोऽस्त्येवेति सर्वत्र भवति। ननु च सामग्र्यधीना हि क्रियासिद्धिः, एकस्याप्यभावे न सिध्यति, तत् कस्यात्र प्राधान्यं यत्परिग्रहाय स्वतन्त्रग्रहणं क्रियते? इत्याह -- "यः क्रियासिद्धौ" इत्यादि। यद्यपि क्रिय#आसिद्धौ सर्वेषां व्यापारः, तथापि स्वातन्त्र्यं यस्य विवक्ष्यते स एव स्वतन्त्र इत्युत्यते, नान्य इति। देवदत्तः पचतीत्यत्र देवदत्तः कर्त्तृसंज्ञकत्वात् कर्त्तृप्रत्ययेनोच्यते लकारेण॥
बाल-मनोरमा
स्वतन्त्रः कर्ता ५५१, १।४।५४

अथ तृतीया। स्वतन्त्रः कर्ता। कारकाधिकारात्क्रियाजनने स्वातन्त्र्यमिह विवक्षितमित्याह--क्रियायामिति। स्वातन्त्र्यमिह प्राधान्यमिति भाष्ये स्पष्टम्। ननु स्थाली पचतीत्यादौ कथं स्थाल्यादीनां कर्तृत्वं, स्वातन्त्र्याऽभावादित्यत आह--विवक्षितोऽर्थ इति। "विवक्षातः कारकाणि भवन्ती"ति भाष्यादिति भावः। स्वातन्त्र्यं च धात्वर्थव्यापाराश्रयत्वम्। फलानुकूलव्यापारो धात्वर्थः। तत्र पचतीत्यत्र विक्लित्रिरूपफलाश्रये तण्डुलेऽतिव्याप्तिवारणाय व्यापारेति। उक्तं च हरिणा--"धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते।"इति। धातूपात्तव्यापारवतीत्यर्थः।

तत्त्व-बोधिनी
स्वतन्त्रः कर्ता ४९४, १।४।५४

स्वतन्त्रः कर्ता। प्रधानभूतधात्वर्थाश्रयत्वं स्वातन्त्र्यम्। आह च--"धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते"इति। स्थाल्यादीनां वस्तुतः स्वातन्त्र्याऽभावेऽपि "स्थाली पचति काष्ठानि पचन्ती"त्यादिप्रयोगोऽपि साधुरेवेति ध्वनयति---विवक्षितोऽर्थ इति।