पूर्वम्: १।४।५६
अनन्तरम्: १।४।५८
 
प्रथमावृत्तिः

सूत्रम्॥ चादयोऽसत्त्वे॥ १।४।५७

पदच्छेदः॥ चादयः १।३ असत्त्वे ७।१ ५८ निपाताः १।३ ४६

समासः॥

च आदिः येषां, ते चादयः, बहुव्रीहिः।
न सत्त्वम्, असत्त्वं, तस्मिन् असत्त्वे नञ्तत्पुरुषः।

अर्थः॥

चादयः निपातसंज्ञकाः भवन्ति, यदि सत्त्वे अर्थे (द्रव्यवाचिनः) न वर्तन्ते॥

उदाहरणम्॥

च, वा, ह, एव॥
काशिका-वृत्तिः
चाऽदयो ऽसत्त्वे १।४।५७

चाऽदयो निपातसंज्ञा भवन्ति, न चेत् सत्त्वे वर्तन्ते। प्रसज्यप्रतिषेधो ऽयम्। सत्त्वम् इति द्रव्यम् उच्यते। च। वा। ह। अह। एव। एवम्। नूनम्। शश्वत्। युगपत्। सूपत्। कूपत्। कुवित्। नेत्। चेत्। चण्। कच्चित्। यत्र। नह। हन्त। माकिम्। नकिम्। माङ्। माङो ङकारो विशेषणार्थः, माङि लुङ् ३।३।१७५ इति। इह न भवति, मा भवतु, म भविष्यति। नञ्। यावत्। तावत्। त्वा। त्वै। द्वै। रै। श्रौषट्। वौषट्। स्वाहा। वषट्। स्वधा। ओम्। किल। तथा। अथ। सु। स्म। अस्मि। अ। इ। उ। ऋ। ल्̥। ए। ऐ। ओ। औ। अम्। तक्। उञ्। उकञ्। वेलायाम्। मात्रायाम्। यथा। यत्। यम्। तत्। किम्। पुरा। अद्धा। धिक्। हाहा। हे। है। प्याट्। पाट्। थाट्। अहो। उताहो। हो। तुम्। तथाहि। खलु। आम्। आहो। अथो। ननु। मन्ये। मिथ्या। असि। ब्रूहि। तु। नु। इति। इव। वत्। चन। बत। इह। शम्। कम्। अनुकम्। नहिकम्। हिकम्। सुकम्। सत्यम्। ऋतम्। श्रद्धा। इद्धा। मुधा। नो चेत्। न चेत्। नहि। जातु। कथम्। कुतः। कुत्र। अव। अनु। हाहौ। हैहा। ईहा। आहोस्वित्। छम्बट्। खम्। दिष्ट्या। पशु। वट्। सह। आनुषक्। अङ्ग। फट्। ताजक्। अये। अरे। चटु। बाट्। कुम्। खुम्। घुम्। हुम्। आईम्। शीम्। सीम्। वै। उपसर्गविभक्तिस्वरप्रतिरूपकाश्च निपाताः। उपसर्गप्रतिरूपकाः अवदत्तम् विदत्तं च प्रदतं च अदिकर्मणि। सुदत्तम् अनुदत्तं च निदत्तम् इति चेष्यते। अच उपसर्गात् तः ७।४।४७ इति तत्वम् न भवति। दुर्नीतम्। दुर्नयः। दुर्निर्णयः। उपसर्गात् ८।४।१४ इति णत्वं न भवति। असत्त्वे इति किम्? पशुर् वै पुरुषः। पशुः पुरोडशः निपातप्रदेशाः स्वराऽदिनिपतम् अव्ययम् १।१।३६ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
चादयोऽसत्वे ५३, १।४।५७

अद्रव्यार्थाश्चादयो निपाताः स्युः॥
न्यासः
चादयोऽसत्त्वे , १।४।५७

"असत्त्वे" इति। पर्युदासोऽयं वा स्यात्, प्रसज्यप्रतिषेधो वा? तत्र यद्ययं पर्युदासः स्यात्, तदा सत्त्वादन्यत्र वत्र्तमानाश्चादयो निपातसंज्ञका भवन्तीत्ेयषः सूत्रार्थः स्यात्। ततश्च पशुशब्दस्य चादिपरिपठितस्य जातिव्यवच्छिन्ने द्रव्ये वत्र्तमानस्य निपातसंज्ञा स्यात्। यो हि जातिविशिष्टे द्रव्ये वत्र्तते, स जातिद्रव्यसमुदायात्मकमर्थमाह। यश्चैवंविधोऽर्थः स द्रव्यात् केवलादन्यो भवति। निपातसंज्ञायां सत्यां पशुरिति सविभक्तिकस्य श्रवणं न स्यात्। प्रसज्यप्रतिषेधे त्वेष दोषो न भवति। तत्र हि यत्र द्रव्यगन्धोऽप्यस्ति तत्र सर्वत्र प्रतिषेधेन भवितव्यम्। अस्ति चेह द्रव्यगन्धः। पशुत्वजात्याश्रितस्य द्रव्यस्यापि पशुशब्देनाभिधानात्। तस्मात् प्रसज्यप्रतिषेध एवायं युक्त इत्यालोच्याह-- "प्रसज्यप्रतिषेधोऽयम्" इति। क्व तर्हि वत्र्तमानः पशुशब्दोऽसत्त्ववचनो भवति? यत्र वृत्तौ निपातसंज्ञां लभते दृश्यर्थे-- यथा, लोधं नयन्ति पशु मन्यमाना इति। अत्र दृश्यर्थेन पशुशब्देन मननं विविष्यते। दर्शनमेतन्मननम्, सम्यग्ज्ञानमित्यर्थः। सत्त्वशब्दोऽयमिह सत्तायां वत्र्तत इति कस्यचिद्भ्रान्तिः स्यात्, अतस्तन्निराकर्त्तुमाह-- "सत्त्वमिति च द्रव्यमुच्यते" इति। चशब्दोऽवधारणे। द्रव्यमेव न सत्तेत्यर्थः। यदि ह्रत्र सत्तवशब्देन सत्तोच्यते, प्रतिषेधोऽनर्थकः स्यात्? न हि चादिषु मध्ये शब्दः सत्तावाची कश्चिदस्ति। तस्मादद्रव्यमेवोच्यते। इदं तर्हि सर्वनामप्रत्यवमर्शयोग्यो योऽर्थस्तद्()द्रव्यमिति। तथा चोक्तम्-- वस्तूपलक्षमं यत्र सर्वनाम प्रयुज्यते। द्रव्यमित्यच्यते सोऽर्थो भेद्यत्वेन विवक्षितः॥ इति। भेद्यत्वेन विशेष्यत्वेनेत्यर्थः। अत एवावसीदति यत्र गुणो विशेषणभावेनेति सत्त्त्वं तद्()द्रव्यमुच्यते। "चण्" इति पठ()ते। तस्य णकारो विशेषार्थः "निपातैर्यद्यदिहन्तकुविन्नेकच्चेण्कच्चिद्यत्रयुक्तम्" ८।१।३० इति, स तु चेच्छब्दस्यार्थे वत्र्तते। यत्र" इति पठ()ते। तस्य "तद्धितश्चासर्वविभक्तिः" १।१।३७ इत्यव्ययसंज्ञा सिद्धैव। "निपातैर्यद्यदिहन्तः" ८।१।३० इति विशेणणार्थ निपात संबोध्यते। असति निपातत्वे "त्रैङ पालने" (धा।पा।९६५) यं त्रायत इति यत्र इत्यस्य "आतोऽनुपसर्गे कः" ३।२।३ इति कप्रत्ययस्य ग्रहणं स्यात्। "नञ्()" इति पठ()ते; नञो ञकारः "नलोपोः नञः" ६।३।७२ इति विशेषणार्थः। "नलोपो नञ्" इत्युच्यमाने पामनपुत्र इत्यत्रापि स्यात्, यदि तत्र "अलुगुत्तरपदे" ६।३।१ इत्युत्तरपदग्रहण पूर्पपदं नशब्देन विशेष्यते-- नान्तस्य पूर्वपदस्येति। अथ तु पूर्वपदेन विशेष्यते-- (सेए इन् ओथेर् तेक्ष्त्)पगे नो।२०६) उत्तरसंज्ञीत्तरसूत्रे कृता संज्ञोपसर्गसंज्ञा। तस्या विशेषणं व्यवच्छेदः प्रादिभ्योऽन्यस्माद्वयावर्तनमुत्तरसंज्ञा मा भूत्" इति। एकयोगे हि सति यथा प्रादीनामुपसर्गसंज्ञा भवति तथा चादीनामपि स्यात्। अतः प्रादीनामेवोपसर्गसंज्ञा यथा स्याच्चादीनां मा भूदित्येवमर्थं पृथग्योगः क्रियते। "पराः सेनाः" इति। सेनायाः द्रव्यत्वात् तत्र वत्र्तमानस्य पराशब्दस्येह ग्रहणं न भवति। परा उत्कृष्टाः परदेशस्थिता वा। यत्र त्वेकवचनं पठ()ते-- परा सेनेति, तत्र रूपोदाहरणं वेदितव्यम्। द्विवचनबहुवचनयोस्तु निपातत्वादव्ययसंज्ञायां सत्यां विभक्तेर्लुक्स्यात्॥
बाल-मनोरमा
चादयोऽसत्त्वे २२, १।४।५७

चादयोऽसत्त्वे। च आदिर्येषां ते चादयो गणपाठसिद्धाः। निपाता इत्यधिकृतम्। "सत्त्व"शब्देन द्रव्यमुच्यते। "द्रव्यासुव्यवसायेषु सत्त्वम्" इत्यमरः। लिङ्गसङ्ख्याकारकान्वितं द्रव्यम्। चाद्यर्थाः समुच्चयादयो यदा चादिभिर्गम्यन्ते, तदा लिङ्गद्यन्विता न भवन्ति, यदा समुच्चयादिशब्दगम्यास्तदा लिङ्गद्यन्विताः, शब्दस्वाभाव्यात्। न सत्त्वम् असत्त्वम् = अद्रव्यं। तत्र वाचकतया विद्यमानाश्चादयो निपातसंज्ञकाः स्युरित्यर्थः। तदाह--अद्रव्यार्था इति। असत्त्वे किम्? छागः पशुः। चादौ पठितस्यापि पशुशब्दस्य अत्र द्रव्यवाचित्वान्न निपातत्वम्। इह तु स्यादेव-पुष्टं पशु मन्यते। इह पशु इति सम्यगर्थे।

तत्त्व-बोधिनी
चादयोऽसत्त्वे २१, १।४।५७

चादयः। अद्रव्यार्थाः किम्?, पशुः। लिङ्गसङ्ख्यान्वितं द्रव्यम्। इह तु स्यादेव-"लोधं नयन्ति पशु मन्यमानाः"। "पशु" इति सम्यगर्थे।