पूर्वम्: १।४।६०
अनन्तरम्: १।४।६२
 
प्रथमावृत्तिः

सूत्रम्॥ अनुकरणं चानितिपरम्॥ १।४।६१

पदच्छेदः॥ अनुकरणम् १।१ अनितिपरम् १।१ गतिः १।१ ५९ क्रियायोगे ७।१ ५८ निपाताः १।३ ४६

काशिका-वृत्तिः
अनुकरणं च अनितिपरम् १।४।६२

इतिः परे यस्मातिति बहुव्रीहिः। अनुकरनम् अनितिपरं क्रियायोगे गतिसंज्ञम् भवति। खाट्कृत्य। खाट्कृतम्। यत्खाट्करोति। अनितिपरम् इति किम्? खाडिति कृत्वा निरष्ठीवत्।
न्यासः
अनुकरणं चानितिपरम्?। , १।४।६१

"अनितिपरम्" इति। अत्रेतिपरशब्द इते पर इति पञ्चमीति योगविभागात् तत्पुरुषो वा स्यात्? इतिः परो यस्मादिति बहुव्रीहिर्वा? तत्र यद्याद्यः पक्ष आश्रीयेत, तदेतिखाट्()कृत्येत्यत्र प्रतिषेधः स्यात्; इह तु न स्यात्-- खडिति कृत्वा आगत इत, अनिष्टञ्चैतत्; द्वितीये तु पक्ष एष दोषो न भवति, अतस्तमेवाश्रित्याह-- "इतिः परो यस्मात्" इति। "निरष्ठीवत्" इति। "ष्ठिवु निरसने" (धा।पा।५६०) "सुब्धातुष्ठिवुष्वष्कतीनां प्रतिषेधो वक्तव्यः" (वा।६७१) इति प्रतिषेधात् "धात्वादेः षः सः" ६।१।६२ इति सत्वं न भवति। "ष्ठिवुक्लमुचमां शिति" ७।३।७५ इति दीर्घत्वम्॥
बाल-मनोरमा
अनुकरणं चाऽनितिपरम् ७५२, १।४।६१

अनुकरणं चा। अनुकरणं गतिसंज्ञं स्यादितिपरं वर्जयित्वेत्यर्थः। खाट्कृत्येति। खाडिति शब्दं कृत्वेत्यर्थः। गतिसमासे क्त्वो ल्यप्। खाडिति कृत्वेति। न चात्र इतिशब्देन व्यवहितत्वे क्रियायोगाऽभावादेव गतिसंज्ञा न भविष्यति तत्किमनितिपरग्रहणेनेति वाच्यं, यथाकथंचित्क्रियायोगसत्त्वात्। "ते प्राग्धातोः" इति सूत्रं तु "ते गत्युपसर्गा धातोः प्रागेव प्रयोज्याः, न तु परत" इति प्रयोगनियमपरमेवेति भावः।

तत्त्व-बोधिनी
अनुकरणं चऽनितिपरम् ६६६, १।४।६१

अनुकरणं चा। "ते प्राग्धातोः"इत्यस्य संज्ञानियमपक्षेऽनितीति व्यर्थमिति मत्वा पृतच्छति अनितिपरं किमिति। इतरस्तु प्रयोगनियमपक्षे खाडित्यनुकरणस्येतिशब्दे परे गतिसंज्ञानिवारणायाऽनितिपरमित्यावश्यकमिति प्रत्युदाहरति खाडिति कृत्वेति। सत्यां संज्ञायामेष प्रयोगो नैव स्या()त्कतु "इति खाटकृत्ये"त्येव स्यादिति भावः। न च "इति खाटकृत्ये"ति न भवति, इतेः परस्यानुकरणस्य गतिसंज्ञानिषेधादिति वाच्यम्, "अनितिपर"मित्यत्र इतिः परोयस्मात्तदितिपरं, न इतिपरमनितिपरमिति बहुव्रीहिघटितनञ्तत्परुषाश्रयणात्। स्यादेतत्--अनुकरणस्येतिशब्दपरत्वे क्रियायोगाऽभावाद्गतिसंज्ञा नास्तचीति खाडिति कृत्वेति रूपं निर्बाधं, किमनेनाऽनिकिपरग्रहणेनेति चेत्, अत्राहुः-- इतिकृत्वेति समुपदाये एवंकृत्वेत्यर्थे वर्तते। तथा च इतिशब्दः क्रियाविशेषक इति तद्धटितसमुदायस्य क्रियावाच कत्वादस्त्येव क्रियायोग इति।