पूर्वम्: १।४।६१
अनन्तरम्: १।४।६३
 
प्रथमावृत्तिः

सूत्रम्॥ आदरानादरयोः सदसती॥ १।४।६२

पदच्छेदः॥ आदरानादरयोः ७।२ सदसती १।२ गतिः १।१ ५९ क्रियायोगे ७।१ ५८ निपाताः १।३ ४६

काशिका-वृत्तिः
आदरानादरयोः सदसती १।४।६३

प्रीतिसंभ्रम आदरः। परिभवौदासीन्यम् अनादरः। आदरानादरयोः यथाक्रमं सदसच्छब्दौ गतिसंज्ञौ भवतः। सत्कृत्य। सत्कृतम्। यत्सत्करोति। असत्कृत्य। असत्कृतम्। यदसत्करोति। आदरानादरयोः इति किम्? सत्कृत्वा काण्डं गतः। असत्कृत्वा काण्डम् गतः।
न्यासः
आदरानादरयोः सदसती। , १।४।६२

"{प्रीत्यतिशयः = आदरः-- काशिका}प्रीतिसम्भ्रम आदरः" इति। प्रीत्या सम्भ्रमः प्रीतिसम्भ्रमः, प्रीतिपूर्विका प्रत्युत्थानासनादिदानक्रियेत्यर्थः। "परिभवौदासीन्यम्" इति। परिभवः = अवज्ञा। तिरस्कारः = औदासीन्यम्। कत्र्तव्यम् = प्रत्युत्थानासनादिदानं प्रत्युपेक्षा। परिभवेणौदासीन्यं परिभवौदासीन्यमिति, "तृतीया" इति योगविभागात् समासः। अथ वा-- परिभवश्चौदासीन्यञ्च परिभवौदासीन्यम्। अथ किमर्थमनादरग्रहणमसद्ग्रहणञ्च क्रियते? नादरे सदित्येवोच्यते? अथ कथमिदानीमनादेऽसच्छब्दस्याव्ययसंज्ञा स्यात्? कथञ्च समासादि कार्यम्? तदन्तविधिनासच्छब्दस्यापि निपातसंज्ञायां गतिसंज्ञायाञ्च सत्यां सच्छब्दस्य निपातस्याव्ययसंज्ञा विधीयमानाऽव्ययसंज्ञायां तदन्तविधेरुपसंख्यानादसच्छब्दस्याप्यव्ययसंज्ञा भविष्यति। "कुगतिप्रादयः" २।२।१८ इत्यत्र च सुबन्तस्य प्रकृतत्वाद्गत्यन्तस्य सुबन्तस्य समासो विधीयमानोऽसच्छब्दस्यापि भविष्यति। "गतिरन्तरः" ६।२।४९ इत्यत्रापि पूर्वपदमित्यनुवत्र्तते। "गतिर्गतौ" ८।१।७० इत्यत्रापि पदस्येति। तेन गत्यन्तस्य पूर्वपदस्य प्रकृतिस्वरो विधीयमानस्तता यथोक्तं कार्यम्, अनादरावगतिस्तु कथं स्यात्? असत्यनादरग्रहणे न सदसदिति नञाऽ‌ऽदरप्तिषेधात्। आदरश्चेत् प्रतिषिद्धः किमन्यदनादरात् स्यात्? नैतद्युक्तमुच्यते; नञ्समासो हि तत्पुरुषः सदृशमेव कार्यं प्रतिपादयति, यथा-- अब्राआहृणमानयेति। तत्रेह यद्यनादरग्रहणं न क्रियेत तदा सत्सदृशं यत् तदसद् यत्रादरप्रसङ्गस्तत्रैव स्यात्-- गुरुमसत्कृत्य गतः। यत्र त्वप्रसक्त एवादरस्तत्र न स्यात्-- भृत्यमसत्कृत्य गतः। अनादरग्रहणे तु सति बहुव्रीहिर्विज्ञायते-- अविद्यमान आदरो यस्मिन्नित्यनादर इतो। बहुव्रीहिश्चात्यन्ताभावे प्रसक्त्यबावे च भवतीति सर्वत्र संज्ञा सिध्यति। तस्मादनादरग्रहणं कत्र्तव्यम्। त()स्मश्च क्रियमाणे सत्यसदृग्रहणमपि कत्र्तव्यमेव। अन्यथा हि किमनादरग्रहणेन विशिष्येत-- य्सयानादरे वत्र्तमानस्य गतिसंज्ञा विधीयते ! न हि सच्छब्दस्यानादरे वृत्तिः सम्भवति। यद्यपि तस्य न सम्भवति तदन्तस्यासच्छब्दस्य सम्भवतीति चेत्, सत्यम्; सम्भवति, न तु तस्य गतिसंज्ञा लभ्यते, तदन्तविधेरभावात्। प्रकृते न हि तदन्तविधिर्भवति, न चेह किञ्चित् प्रकृतमस्ति ; तस्मादसच्छब्दार्थमनादरग्रहणम्। यदि तु यथा "गोष्पदं सेवितासेवितप्रमाणेषु" इत्यत्रासेविते गोष्पदशब्दो न सम्भवतीत्यगोष्पदशब्दार्थमसेवितग्रहणं विज्ञायते, तथेहापि सच्छब्दोऽनादरे न सम्भवतीत्यस्छब्दार्थमनादरग्रहणं विज्ञायेत; तदा शक्यमसच्छब्दस्य ग्रहणमकर्त्तुम्। असद्ग्रहणन्तु क्रियते तदा विस्पष्टार्थम्। सत्कृत्वाऽसत्कृत्येति। शोभनाशोभनार्थाविह सदसच्छब्दौ। विद्यमानाविद्यमानार्थौ वा॥
बाल-मनोरमा
आदराऽनादरयोः सदसती ७५३, १।४।६२

आदरानादरयोः। सदिति असदिति च अव्यये आदराऽनादरयोः क्रमेण विद्यमाने गतिसंज्ञके स्त इत्यर्थः। सत्कृत्येति। आदरं कृत्वेत्यर्थः। असत्यकृत्येति। अनादरं कृत्वेत्यर्थः। गतिसमासे क्त्वो ल्यप्। खाडिति कृत्वेति। न चात्र इतिशब्देन व्यवहितत्वे क्रियायोगाऽभावादेव गतिसंज्ञा न भविष्यति तत्किमनितिपरग्रहणेनेति वाच्यं, यथाकथंचित्क्रियायोगसत्त्वात्। "ते प्राग्धातोः" इति सूत्रं तु "ते गत्युपसर्गा धातोः प्रागेव प्रयोज्याः, न तु परत" इति प्रयोगनिमपरमेवेति भावः।

बाल-मनोरमा
आदराऽनादरयोः सदसती ७५४, १।४।६२

आदरानादरयोः। सदिति असदिति च अव्यये आदराऽनादरयोः क्रमेण विद्यमाने गतिसंज्ञके स्त इत्यर्थः। सत्कृत्येति। आदरं कृत्वेत्यर्थः। असत्कृत्येति। अनादरं कृत्वेत्यर्थः। गतिसमासे क्त्वो ल्यप्।