पूर्वम्: १।४।६४
अनन्तरम्: १।४।६६
 
प्रथमावृत्तिः

सूत्रम्॥ कणेमनसी श्रद्धाप्रतीघाते॥ १।४।६५

पदच्छेदः॥ कणेमनसी १।२ श्रद्धाप्रतीघाते ७।१ गतिः १।१ ५९ क्रियायोगे ७।१ ५८ निपाताः १।३ ४६

काशिका-वृत्तिः
कणेमनसी श्रद्धाप्रतीघाते १।४।६६

कणेशब्दो मनस्शब्दश्च श्रद्धाप्रतीघाते गतिसंज्ञौ भवतः। कणेहत्य पयः पिबति। मनोहत्य पयः पिबति। तावत् पिबति यावदस्य अभिलाशो निवृत्तः। श्रद्धा प्रतिहता इत्यर्थः। श्रद्धाप्रतीघाते इति किम्? कणे हत्वा गतः। मनो हत्वा गतः।
न्यासः
कणेमनसी श्रद्धाप्रतीघाते , १।४।६५

कणेशब्दः सप्तम्यन्तप्रतिरूपको निपातः। न चेहाभिलाषातिशये वत्र्तमानो गृह्रते। तस्य हि श्रद्धाप्रतीघात इत्युपाधिः सम्भवति। मनःशब्दोऽपि तत्साहचर्यादभिलाषवृत्तिरेव विज्ञायते। "कणे" हत्वा, मनो हत्वा" इति। अत्र कणेशब्दः सूक्ष्मे तण्()डुलावयवे वत्र्ततेऽधिकरणभूते, मनश्शब्दश्चेतसि॥
बाल-मनोरमा
कणेमनसी श्रद्धाप्रतीघाते ७५७, १।४।६५

कणेमनसी। कणेशब्दो मनश्शब्दश्च श्रद्धाप्रतीघाते गतिसंज्ञकौ स्तः। अत्यन्ताभिलाषः=श्रद्धा, तस्या निवृत्तिः=प्रतीधातः। कणेहत्येति। गतिसमासे क्त्वो ल्यप्। मनोहत्येति। "पयः पिबती"त्यनुषज्यते। ननु समासे कृते "कणे" इति सप्तम्याः कथं न लुगित्यत आह--कणेशब्द इति। ननु श्रद्धाप्रतीघातस्य कथमिहावगतिः, श्रद्धावाचकशब्दाऽभावात्। मनसो घाते सति कथं वा पयःपानमित्यत आह--अभिलाषातिशये इति। "कणेशब्द" इत्यनुषज्यते। "परावरयोगे चे"ति सूत्रेण क्त्वा। अभिलाषनिवृत्तिपर्यन्तं पयः पिबतीत्यर्थः। श्रद्धाप्रतीघाते किम्? कणे हत्वा गतः। सूक्ष्मस्तण्डुलावयवः कणः, तद्विषये हत्वा गत इत्यर्थः। मनो हत्वा गतः। विषपानादौ मनः प्रवृतिं()त प्रतिवध्य गत इत्यर्थः।

तत्त्व-बोधिनी
कणेमनसी श्रद्धाप्रतीघाते ६६८, १।४।६५

कणेहेत्येति। अत्यन्तमभिलष्य तन्निवृत्तिपर्यन्तं पिबतीत्यर्थः। तथा च श्रद्धाया अपगमात्तत्प्रतीघातो गम्यते। प्रत्युदाहरणं तु कणे हत्वा गतः। सूक्ष्मस्तण्डुलावयवः कणः। तस्मिन् हत्वेत्यर्थः।