पूर्वम्: १।४।६७
अनन्तरम्: १।४।६९
 
प्रथमावृत्तिः

सूत्रम्॥ अच्छ गत्यर्थवदेषु॥ १।४।६८

पदच्छेदः॥ अच्छ गत्यर्थवदेषु ७।३ अव्ययम् १।१ ६६ गतिः १।१ ५९ क्रियायोगे ७।१ ५८ निपाताः १।३ ४६

काशिका-वृत्तिः
अच्छ गत्यर्थवदेषु १।४।६९

अच्छशब्दः अव्ययम् अभिशब्दस्य अर्थे वर्तते। स गत्यर्थेषु धातुषु वदतौ च गतिसंज्ञो भवति। अच्छगत्य। अच्छगतम्। यदच्छगच्छति। वदतौ अच्छोद्य। अच्छोदितम्। यदच्छवचति। अव्ययम् इत्येव, उदकम् अच्छं गच्छति।
न्यासः
अच्छ गत्यर्थवदेषु , १।४।६८

"अच्छशब्दोऽव्ययमभिशब्दस्यार्थे"इति। अभिराभिमुख्ये। "अच्छोद्य" इति। यजादित्वाद्वच्यादिसूत्रेण ६।१।१५ सम्प्रसारणम्। अच्छमित्यकलुषमित्यर्थः॥
बाल-मनोरमा
अच्छ गत्यर्थवदेषु ७६०, १।४।६८

अच्छगत्येति। गतिसमासे क्त्वो ल्यप्। अच्छोद्येति। वदधातोः क्त्वा। गतिसमासे क्त्वो ल्यप्। अच्छेत्यव्ययमाभिमुख्ये। तद्यथा--बर्हिरच्छैतीति। तदाह--अभिमुखमिति। जलमच्छं गच्छतीति। अत्राऽच्छशब्दस्य नाव्ययत्वं, न गतिसंज्ञा, नापि "प्राग्री()आरान्निपाताः" इत्यधिकृतनिपातसंज्ञा। निपातत्वे सति हि अव्ययत्वाद्विभक्तिलुक्। स्यादिति भावः।

तत्त्व-बोधिनी
अच्छ गत्यर्थवदेषु ६७०, १।४।६८

अच्छमिति। सत्यां हि गतिसंज्ञायां निपातसंज्ञावत्त्वेनाव्ययत्वात्सुब्लुक् स्यादिति भावः। अदःस कृत्येति। यदा स्वयमेव पर्यालोचयति तदेदमुदाहरणम्।