पूर्वम्: १।४।६८
अनन्तरम्: १।४।७०
 
प्रथमावृत्तिः

सूत्रम्॥ अदोऽनुपदेशे॥ १।४।६९

पदच्छेदः॥ अदः १।१ अनुपदेशे ७।१ गतिः १।१ ५९ क्रियायोगे ७।१ ५८ निपाताः १।३ ४६

काशिका-वृत्तिः
अदो ऽनुपदेशे १।४।७०

अदःशब्दस्त्यदादिषु पठ्यते, सो ऽनुपदेशे गतिसंज्ञो भवति। उपदेशः परार्थः प्रयोगः। स्वयम् एव तु यदा बुद्ध्या पराम् ऋशति तदा न अस्त्युपदेशः इति सो ऽस्य विशयः। अदःकृत्य। अदःकृतम्। यददःकरोति। अनुपदेशे इति किम्? अदः कृत्वा काण्डं गतः इति परस्य कथयति।
न्यासः
अदोऽनुपदेशे , १।४।६९

उपदेशः = परस्यार्थकथनम्। तच्च परस्य प्रत्यायनार्थ भवतीत्याह-- "उपदेशः परार्थः" इति। "अदः कृत्वा" इति। एतत्कृत्वेत्यर्थः॥
बाल-मनोरमा
अदोऽनुपदेशे ७६१, १।४।६९

अदोऽनुपदेशे। अदश्शब्दोऽनुपदेशे गतिसंज्ञः स्यात्। अदः कृतमिति। गतिसमासे क्त्वो ल्यप्। अमुं यज्ञं कृत्वेत्यर्थे तु सुब्लुक् च। अदः कृतमिति। "गतिरनन्तरः" इति स्वरः फलम्। यदा स्वयमेव पर्यालोचयति तदेदमुदाहरणम्। परं प्रतीति। अदऋ कृत्वा अदः कुर्वित्यादावित्यर्थः।

तत्त्व-बोधिनी
अदोऽनुपदेशे ६७१, १।४।६९

अदःकृतमिति। "गतिरनन्तरः"इति पूर्वपदप्रकृतिस्वरेणाद्युदात्तत्वम्। प्रत्युदाहरणमिति। अदः कृत्वा अदः कुर्वित्यादीत्यर्थः।