पूर्वम्: १।४।६
अनन्तरम्: १।४।८
 
प्रथमावृत्तिः

सूत्रम्॥ शेषो घ्यसखि॥ १।४।७

पदच्छेदः॥ शेषः १।१ घि १।१ असखि १।१ ह्रस्वः

काशिका-वृत्तिः
शेषो घ्यसखि १।४।७

ह्रस्वः इति वर्तते। शेषो ऽत्र घिसंज्ञो भवति, सखिशब्दम् वर्जयित्वा। कश्च शेषः? ह्रस्वम् इवर्णौवर्णान्तं यन् न स्त्र्याख्यम्, स्त्र्याख्यं च यन् न नदीसंज्ञकं, स शेषः। अग्नये। वायवे। कृतये। धेनवे। असखि इति किम्? सख्या। सख्ये। सख्युः। सख्यौ। घिप्रदेशाः द्वन्द्वे घि २।२।३२ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
शेषो घ्यसखि १७०, १।४।७

शेष इति स्पष्टार्थम्। ह्रस्वौ याविदुतौ तदन्तं सखिवर्जं घिसंज्ञम्॥
न्यासः
शेषो घ्यसखि। , १।४।७

"सख्या" इति। घिसंज्ञाया "आङो नास्त्रियाम्" ७।३।११९ इति नाभावो न भवति। "सख्ये, सख्युः" इत्यत्रापि "घेर्ङिति" ७।३।१११ न गुणः। "सख्यौ" इत्यत्र "अच्च घेः" ७।३।११८ इत्यत्त्वं न भवति। "इदुद्भ्याम्" ७।३।११७ "औत्" ७।३।११८ इत्यौत्त्वं भवति। सख्युरित्यत्रापि "ख्यत्यात् परस्य" ६।१।१०८ इत्युक्तम्। इह शोभनः सखाऽस्येति सुसखिरिति; सुसखेरागच्छतीत्यत्र तदन्तविधिना प्रतिषेधः प्राप्नोति, स च "ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति" (व्या।प।८९) इति प्रतिषेधान्न भवति। इह द्विविधा घिसंज्ञा-- अवयवाश्रया, समुदायाश्रया च। तत्र याऽवयवाश्रया सा प्रतिषिध्यते, या पुनः समुदायाश्रया सा च भवत्येव; तस्या अप्रतिषेधात्॥
बाल-मनोरमा
शेषो घ्यसखि २४१, १।४।७

तृतीयैकवचने हरि आ इति स्थिते घिकार्यं वक्ष्यन्घिसंज्ञामाह--शेषो। "यू स्त्र्याख्यौ" इत्यतो "यू" इत्यनुवर्तते। इश्च उश्च यू=इवर्णश्च उवर्णश्च। "ङिति ह्यस्वश्चे"त्यतो "ह्यस्व" इत्यनुवर्तते। तच्च यूभ्यां प्रत्येकमन्वेति। उक्तान्नदीसंज्ञकादन्यः शेषः। स च यूभ्यां प्रत्येकमन्वेति। "शब्दस्वरूप"मित्यध्याहार्यं यूभ्यां विशेष्यते। तदन्तविधिः। तदाह--अनदीसंज्ञावित्यादिना। शेषः किमिति। अनदीसंज्ञकत्वविशेषणं किमर्थमिति प्रश्नः।

मत्यै इति। शेषग्रहणाऽभावे "ङिति ह्यस्वश्चे"ति नदीत्वपक्षेऽपि घिसंज्ञा स्यात्। ततश्च आण्नद्याः" इत्याडागमे वृद्धौ "घेर्ङिती"ति गुणेऽयादेशे " मतयै" इति स्यादिति भावः। शेषग्रहणाऽभावे।ञपि "मत्यै" इत्यत्र घिसंज्ञा न भवति, "आकडारादेका संज्ञे"त्यनवकाशया नदीसंज्ञया बाधादित्यत आह--एकसंज्ञेति। वातप्रम्ये इति। ह्यस्वग्रहणाऽभावे वातप्रमी-ए इति स्थिते ईकारान्तस्यापि घिसंज्ञा स्यात्। ततश्च "घेर्ङिती"ति गुणेऽयादेशे च "वातप्रमये" इति स्यात्। अतो ह्यस्वग्रहणमिति भावः। मात्रे इति। "यू" इत्यस्याऽभावे मातृ-ए इति स्थिते ऋकारान्तस्यापि घिसंज्ञायां "घेर्ङिती"ति गुणे अकारे रपरत्वे "मातरे" इति स्यात्। अत इदुताविति भावः। वस्तुतस्तु इदुताविति व्यर्थमेव, "मात्रे" इत्यत्र ऋकारान्तस्यापि घित्वे तु "घेर्ङिती"त्येव गुणसिद्धौ किं तेन?।

तत्त्व-बोधिनी
शेषो घ्यसखि २०३, १।४।७

सूत्रे शेषपदस्य प्रयोजनमाह--अनदी--संज्ञाविति। "यूस्त्र्याख्यौ" इत्यतः "यू" इति, "ङिति ह्यस्वश्चे"त्यतो "ह्यस्व" इति चानुवर्तते, तदाह-ह्यस्वौ यावित्यादि। मत्यै इति। नदीसंज्ञापक्षेऽपि घिसंज्ञायां सत्याम् "आण्नद्या" इत्याडागमे "घेर्ङिती"ति गुणे कृतेऽयादेशे च "मतयै" इति स्यादिति भावः।