पूर्वम्: १।४।६९
अनन्तरम्: १।४।७१
 
प्रथमावृत्तिः

सूत्रम्॥ तिरोऽन्तर्द्धौ॥ १।४।७०

पदच्छेदः॥ तिरः ७१ अन्तर्द्धौ ७।१ ७१ गतिः १।१ ५९ क्रियायोगे ७।१ ५८ निपाताः १।३ ४६

काशिका-वृत्तिः
तरो ऽन्तर्धौ १।४।७१

अन्तर्धिः व्यवधानम्। तत्र तिरःशब्दो गतिसंज्ञो भवति। तिरोभूय। तिरोभूतम्। यत् तिरोभवति। अन्तर्धौ इति किम्? तिरो भूत्वा स्थितः। पार्श्वतो भूत्वा इत्यर्थः।
न्यासः
तिरोऽन्तर्द्धौ , १।४।७०

"तिरो भूत्वा स्थितः" इति। अनृजुर्भूत्वा, पार्(ातो भूत्वेत्यर्थः॥
बाल-मनोरमा
तिरोऽन्तर्द्धौ ७६२, १।४।७०

तिरोऽन्तर्धौ। अन्तर्धि=व्यवधानम्, तत्र तिरसित्यव्ययं गतिसंज्ञकं स्यादित्यर्थः। तिरोभूयेति। गतिसमासे क्त्वो ल्यप्। व्यवहितो भूत्वेत्यर्थः।

तत्त्व-बोधिनी
तिरोऽन्तर्द्धौ ६७२, १।४।७०

किरोऽन्तर्धौ। अन्तर्धौ किम्()। तिरोभूत्वा स्थितः। पार्(ातो भूत्वेत्यर्थः।