पूर्वम्: १।४।७१
अनन्तरम्: १।४।७३
 
प्रथमावृत्तिः

सूत्रम्॥ उपाजेऽन्वाजे॥ १।४।७२

पदच्छेदः॥ उपाजेऽवजि विभाषा १।१ ७१ कृञि ७।१ ७१ गतिः १।१ ५९ क्रियायोगे ७।१ ५८ निपाताः १।३ ४६

काशिका-वृत्तिः
उपाजे ऽन्वाजे १।४।७३

विभाषा कृञि इति वर्तते। उपाजे ऽन्वाजेशब्दौ विभक्तिप्रतिरूपकौ निपातौ दुर्बलस्य सामर्थ्याधाने वर्तेते। तौ कृञि विभाषा गतिसंज्ञौ भवतः। उपाजेकृत्य, उपाजे कृत्वा। अन्वाजेकृत्य, अन्वाजे कृत्वा।
बाल-मनोरमा
उपाजेऽन्वाजे ७६४, १।४।७२

उपाजेऽन्वाजे। उपाजेकृत्येति। गतिसंज्ञापक्षे गतिसमासे क्त्वो ल्यप्। अन्वाजेकृत्येत्यपि तथैव "उपाजे" "अन्वाजे" इत्यव्यये दुर्बलस्य बलाधाने वर्तेते। तदाह--दुर्बलस्येति।