पूर्वम्: १।४।७२
अनन्तरम्: १।४।७४
 
प्रथमावृत्तिः

सूत्रम्॥ साक्षात्प्रभृतीनि च॥ १।४।७३

पदच्छेदः॥ साक्षात्प्रभृतीनि १।३ विभाषा १।१ ७१ कृञि ७।१ ७१ गतिः १।१ ५९ क्रियायोगे ७।१ ५८ निपाताः १।३ ४६

काशिका-वृत्तिः
साक्षात्प्रभृतीनि च १।४।७४

विभाषा कृञि इति वर्तते। साक्षात्प्रभृतीनि शब्दरूपाणि कृञि विभाषा गतिसंज्ञानि भवन्ति। साक्षात्प्रभृतिषु च्व्यर्थवचनम्। साक्षात्कृत्य, साक्षात् कृत्वा। मिथ्याकृत्य, मिथ्या कृत्वा। साक्षात्। मिथ्या। चिन्ता। भद्रा। लोचन। विभाषा। सम्पत्का। आस्था। अमा। श्रद्धा। प्राजर्या। प्राजरुहा। वीजर्या। वीजरुहा। संसर्या। अर्थे। लवणम्। उष्णम्। शीतम्। उदकम्। आर्द्रम्। गतिसंज्ञासंनियोगेन लवणादीनाम् मकारन्तत्वम् निपात्यते। अग्नौ। वशे। विकम्पते। विहसने। प्रहसने। प्रतपने। प्रादुस्। नमस्। आविस्।
न्यासः
साक्षात्प्रभृतीनि च , १।४।७३

"साक्षात्प्रभृतिषु च्व्यर्थवचनम्" इति। च्व्यर्थ उच्यते कथ्यते येन तच्व्यर्थवचम् - च्व्यर्थव्याख्यानम्। एतेनैतदुक्तं भवति-- साक्षात्प्रभृतीनां च्व्यर्थो येन प्रतिपाद्यते अस्मिन् संज्ञाविधौ तच्व्यर्थवचनं कत्र्तव्यमित्यर्थः। किमर्थम्? असाक्षाद्भूतं यदा साक्षात् क्रियते तदा गतिसंज्ञा यथा स्यात्। यदा त्वसाक्षाद्भावो न क्रियते, किन्तु साक्षाद्भूत्सय प्रत्यक्षभावमुपगतस्यैव सतो योऽन्यो विशेषः कश्चित् क्रियते, तदा मा भूदिति। एवं मिथ्याप्रभृतीनाम्। अमिथ्याभूतानां मिथ्याभूतानां यदा क्रियते, तदा यथा स्यात्; अन्यथा मा भूत्। तदेवं व्याख्यानम्-- "ऊर्यादिच्विडाचश्च" १।४।६० इत्यत्र च्विग्रहणम् "अच्छ गत्यर्थवदेषु" १।४।६८ इत्यतश्चार्थग्रहणमिह मण्डूकप्लुतिन्यायेनानुवत्र्तते। तेन च्व्यर्थे वत्र्तमानानां साक्षात्प्रभृतीनां गतिसंज्ञा विधीयत इति। व्यवस्थितविभाषाविज्ञानाद्वा च्व्यर्थ एव वत्र्तमानानां तेषां संज्ञा भविष्यतीति। च्व्यर्थता चोभयथा सम्भवति-- च्व्यन्तानाम्, अच्व्यन्तानाञ्च। तत्र यदा च्व्यन्तता भवति तदा "ऊर्यादिच्विडाचश्च" १।४।६० इति नित्यं संज्ञा भवति, अन्यथा त्वनेन गतिसंज्ञा विभाषा भवति; व्यवस्थितविभाषया चास्य सूत्रस्य च्व्यर्थष्वेव प्रवृत्तेः। मकारान्तत्वनिपातनम्। अग्नौ, वशेप्रभृतयो विभक्तिप्रतिरूपकनिपाता द्रष्टव्यः। प्रादुराविः शब्दावूर्यादिषु उरसिमनसिशब्दौ विभक्तिप्रतिरूपकौ निपातौ। "उरसिकृत्य"इति। अभ्युपगम्येत्यर्थः। "मनसिकृत्य" इति। निश्चित्येत्यर्थः॥
बाल-मनोरमा
साक्षात्प्रभृतीनि च ७६५, १।४।७३

साक्षात्प्रभृतीनि च। शेषपूरणेन सूत्रं व्याचष्टे--कृञि वेति। साक्षादित्यव्ययम्।

च्व्यर्थ इति। अभू ततद्भावे गम्ये सतीति वक्तव्यमित्यर्थः। साक्षात्कृत्येति। अप्रत्यक्षं प्रत्यक्षं कृत्वेत्यर्थः। गतित्वपक्षे क्त्वो ल्यप्। तत्र सुब्लुकमाशङ्क्याह--मान्तत्वमिति। लवणम्, उष्णम्, शीतम्, उदकम्, आमिति पञ्चानां साक्षात्प्रभृतिगणे मान्तत्वं निपात्यत इत्यर्थः।

तत्त्व-बोधिनी
साक्षात्प्रभृतीनि च ६७५, १।४।७३

साक्षात्कृत्येति। असाक्षाद्भूतं यथा साक्षाद्भवति तथा कृत्वेत्यर्थः। च्व्यन्तेषु तु पूर्वविप्रतिषेधात् "ऊर्यादिच्विडाचश्चे"ति नित्यैव गतिसंज्ञा। तेन लवणीकृत्येत्यत्र मान्तत्वं न भवति। तद्धि पाक्षिकं। गतिसंज्ञासंनियोगेनेह गणे निपातनात्। भाष्यकृता "लवणशब्दस्य लवणीशब्दस्य वा विकल्पेन लवणशब्द आदिश्यते तस्य च संज्ञाविकल्प"इत्युक्तम्। उभयथापि त्रैरूप्यं निर्बाधम्।