पूर्वम्: १।४।७४
अनन्तरम्: १।४।७६
 
प्रथमावृत्तिः

सूत्रम्॥ मध्येपदेनिवचने च॥ १।४।७५

पदच्छेदः॥ मध्ये १।१ पदे १।१ निवचने १।१ अनत्याधाने ७।१ ७४ विभाषा १।१ ७१ कृञि ७।१ ७१ गतिः १।१ ५९ क्रियायोगे ७।१ ५८ निपाताः १।३ ४६

काशिका-वृत्तिः
मध्ये पदे निवचने च १।४।७६

विभाषा कृञि इति वर्तते। चकारातनत्याधाने इति च। मद्ये पदे निवचने इत्येते शब्दा अनत्याधाने विभाषा कृञि गतिसज्ञा भवन्ति। मद्येकृत्य, मध्ये कृत्वा। पदेकृत्य, पदे कृत्वा। निवचनम् वचनाभावः। निवचनेकृत्य, निवचने कृत्वा। वाचम् नियम्य इत्यर्थः अनत्याधाने इत्येव, हस्तितः पदे कृत्वा शिरः शेते।
न्यासः
मध्ये पदे निवचने च , १।४।७५

"मध्ये पदे" इति। सप्तम्यन्तप्रतिरूपकौ। "निवचने" इति। अर्थाभावेऽव्ययीभावः; नितृ()णं निवुसमिति यथा। "निवचनेकृत्य" इति। उच्चारणसामथ्र्यात् सप्तम्याः समासेऽप्यलुग् भवति। एवमुत्तरत्र॥
बाल-मनोरमा
मध्ये पदे निवचने च ७६७, १।४।७५

मध्येकृत्येति। गतिसमासे क्त्वो ल्यप्। मद्यं कृत्वेत्यर्थः। पदेकृत्येति। गतिसमासे क्त्वो ल्यप्। पदं कृत्वेत्यर्थः। निवचनेकृत्येति। वचनाऽभावं कृत्वेत्यर्थः। तदाह--वाचं नियम्येत्यर्थ इति। वचनस्याभावो निवचनम्। अर्थाभावेऽव्ययीभाव इति भावः।

तत्त्व-बोधिनी
मध्ये पदे निवचने च ६७७, १।४।७५

मध्ये पदे। "विभाषा "कृञी"ति वर्तते, चकाराद "नत्याधाने"इति च। एषामनत्याधानरूपार्थविशेषे एदन्तत्वमविशेषएण निपात्यते, न तु गतिसंज्ञासंनियोगेन। अनत्याधाने किम्()। पदे कृत्वा शिरो नमति। वाचं नियम्येति। निवचनं हि वचनाऽभावः। अर्थाऽभावेऽव्ययीभावः।