पूर्वम्: १।४।७५
अनन्तरम्: १।४।७७
 
प्रथमावृत्तिः

सूत्रम्॥ नित्यं हस्ते पाणावुपयमने॥ १।४।७६

पदच्छेदः॥ नित्यम् १।१ ७८ हस्ते पाणौ उपयमने ७।१ अनत्याधाने ७।१ ७४ विभाषा १।१ ७१ कृञि ७।१ ७१ गतिः १।१ ५९ क्रियायोगे ७।१ ५८ निपाताः १।३ ४६

काशिका-वृत्तिः
नित्यं हस्ते पानावुपयमने १।४।७७

कृञि इति वर्तते। हस्ते पाणौ इत्येतौ शब्दौ कृञि नित्यं गतिसंज्ञौ भवतः उपयमने। उपयमनं दारकर्म। हस्तेकृत्य। पाणौकृत्य। दारकर्म कृत्वा इत्यर्थः। उपयमने इति किम्? हस्ते कृत्वा कार्षापनं गतः।
न्यासः
नित्यं हस्ते पाणावुपयमने। , १।४।७६

"हस्तेकृत्य, पाणौकृत्य" इति। सप्तम्याः पूर्ववदलुक्। "दारकर्म" इति। भार्याकरणम्॥
बाल-मनोरमा
नित्यं हस्ते पाणावुपयमने ७६८, १।४।७६

नित्यं हस्ते। शेषपूरणेन सूत्रं व्याचष्टे-कृञीति। हस्ते इति पाणाविति च शब्दौ कृञि नित्यं गतिसंज्ञौ भवत उपयमन इति यावत्। हस्तेकृत्य, पाणौकृत्येति। कन्यां स्वीकर्तुं पाणिं गृहीत्वेत्यर्थः। एदन्तत्वमौदन्तत्वं चानयोर्निपात्यते। उपयमने किं?। हस्ते कृत्वा सुवर्णं गतः। अन्यदीयमिति बुद्ध्या दातु परावृत्त इत्यर्थः।

तत्त्व-बोधिनी
नित्यं हस्ते पाणावुपयमने ६७८, १।४।७६

नित्यं हस्ते। उपयमनरूपार्थ एवैतयोरेदन्तत्वमौदन्तत्वं च निपात्यते। हस्तेकृत्येति। परिणीयेत्यर्थः। उपयमने किम्()। हस्ते कृत्वा कार्षापणं गतः। स्वीकारमात्रमिति पक्षे तु नाऽलमिति बुद्द्य परावृत्त्य दानार्थं गति इति योज्यम्। एवं तावद्गतिसमासानुदाह्मत्य प्रादिसमासान्वक्तुमारभते--प्रादिग्रहणमिति।