पूर्वम्: १।४।७८
अनन्तरम्: १।४।८०
 
प्रथमावृत्तिः

सूत्रम्॥ ते प्राग्धातोः॥ १।४।७९

पदच्छेदः॥ ते १।३ ८१ प्राक् धातोः ५।१ ८१

काशिका-वृत्तिः
ते प्राग् धातोः १।४।८०

ते गत्युपसर्गसंज्ञका धातोः प्राक् प्रयोक्तव्याः। तथा चैवोदाहृताः। तेग्रहणम् उपसर्गार्थम्। गतयो ह्यनन्तराः।
लघु-सिद्धान्त-कौमुदी
ते प्राग्धातोः ४२१, १।४।७९

ते गत्युपसर्गसंज्ञा धातोः प्रागेव प्रयोक्तव्याः॥
न्यासः
ते प्राग्धातोः , १।४।७९

नियमार्थमेतत्। नियमः पुनः संज्ञाननियमो वा स्यात्-- ते प्रादयो यदा धातोः प्राक प्रयुज्यते तदैव गत्युपसर्गसंज्ञकाः भवन्तीति? प्रयोगनियमो वा-- ते प्रादयो गत्युपसर्गसंज्ञकाः सन्तो धातोः प्राक् प्रज्ञोक्तव्या इति? यत्र यदि पूर्वो नियम आश्रीयेत तदा संज्ञावाक्यानामयमेकदेशो विज्ञायेत-- ते प्रादयो धातोः प्राक् प्रयुज्यमाना गत्युपसर्गसंज्ञका भवन्तीति। तथा च गत्युपसर्गसंज्ञयोरनभिनिर्वृत्तत्वात् ते गत्युपसर्गसंज्ञा इति प्रत्यवमर्शो न युज्यते। निपातसंज्ञायाश्चाभिनिर्वृत्तत्वात् त इत्यनेन निपाता एव प्रत्यवमृश्येरन्; ततश्च निपातसंज्ञाया नियमः स्यात्। इतरत्र तु नियमेनायं योगो गत्युपसर्गसंज्ञावाक्यानामेकदेशभूतो भवतीति न भवत्येव दोषप्रसङ्गः। संज्ञानियमस्य चाप्राक्प्रयुज्यमानानां संज्ञानिवृत्तिः फलं स्यात्, तच्चायुक्तम्; न ह्रप्राक्प्रयुज्यमानानां सत्यामपि संज्ञायां किञ्चिदनिष्टमापद्यते। इतरस्य तु नियमस्याप्राक्प्रयोगाभावः फलम्, तच्च युक्तम्; न हि गत्युपसर्गसंज्ञकानामप्राक्प्रयोग इष्यते। तस्मात् प्रयोगनियम एव न्याय्य इति तमाश्रित्याह-- "ते गत्युपसर्गसंज्ञकाः" इति। "तथा च" इत्यादि। यादृशो नियमः कृतस्तदनुरूपं तत्सदृशमेवेत्यर्थः। ननु च नैव कश्चित् प्रपठतीति प्रयोक्तव्ये "पठति प्र" इति प्रयुङक्ते, ततोऽनिष्टादर्शनादपार्थकमेतत्, नैतदस्ति; यद्यपि भाषायां धातोः परेण प्रयुज्यमानास्ते गत्युपसर्गसंज्ञका न दृश्यन्ते, छन्दसि तु दृश्यन्ते। तत्र य एव मन्दबुद्धिः प्रतिपत्ता तेषां छन्दसि धातोः परे प्रयोगं दृष्ट्वा यथैव ते छन्दसि विषये धातोः परेण प्रयुज्यन्ते, तथा भाषायमपि प्रयोक्तव्या इति मन्यते, तं प्रति व्युत्पादनार्थत्वान्नास्ति वैयथ्र्यप्रसङ्गः। अथ किमर्थं तेग्रहणम्? यावता प्रकृतत्वादेव गत्युपसर्गसंज्ञकानां प्राक्प्रयोगेण सम्बन्धो विज्ञस्यत इत्याह-- "तेग्रहणम्" इत्यादि। असति तेग्रहणे गतिसंज्ञकानामनन्तरत्वात् त एव प्राक्प्रयोगेण सम्बध्येरन्। तेग्रहणे तूपसर्गसंज्ञा अपि निर्दिश्यन्त इति तषामपि सम्बन्ध उपपद्यते। तस्मादुपसर्गाणामपि प्राक्प्रयोगनियमो यथा स्यादित्येवमर्थ तेग्रहणम्। ननु चयं प्रति क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञका भवन्तीत्यन्तरेणापि धातुग्रहणं धातोरेव प्राक् प्रयोगो विज्ञास्यते, न हि धातोरन्यत्र क्रियाऽस्ति, तत्कथं धातोरित्युच्यते? नैतदस्ति ; प्रकर्त्तृमिच्छति प्रचिकीर्षतीत्यत्रापि धातोश्च प्राक् प्रयोगो यथा स्यात्। अत्र सनः सम्बन्धिन्यषणक्रियया युक्तः प्रशब्द इति सनं गत्युपसर्गसंज्ञा यथा स्यात्। ततश्चासति धातुग्रहणे तत एव प्राक् प्रयुज्येत।धातुग्रहणे तु चिकीर्षतेर्धातोः प्राक्प्रयुज्यते, न सनः॥
बाल-मनोरमा
ते प्राग्धातोः ७७, १।४।७९

ते प्राग्धातोः। "ते" इत्यस्य विवरणं -- गत्युपसर्गसंज्ञा इति। "उपसर्गाः क्रियायोगे" "गतिश्चे"ति प्रकृतत्वादिति भावः। प्रागेवेति। न परतो, नापि व्यवहिता इत्यर्थ-। इह "धातोः प्रागेव प्रयुज्यमाना गत्युपसर्गाः स्यु"रिति संज्ञानियमपक्षोऽपि भाष्ये स्थितः।

तत्त्व-बोधिनी
ते प्राग्धातोः ५९, १।४।७९

न परतः, नापि व्यवहिता इत्यर्थः। अत एव "छन्दसि परेऽपि", "व्यवहिताश्चे"ति सूत्रितम्।