पूर्वम्: १।४।७९
अनन्तरम्: १।४।८१
 
प्रथमावृत्तिः

सूत्रम्॥ छन्दसि परेऽपि॥ १।४।८०

पदच्छेदः॥ छन्दसि ७।१ ८१ परे ७।१ अपि ते १।३ ७९ धातोः ५।१ ७९

काशिका-वृत्तिः
छन्दसि परे ऽपि १।४।८१

प्राक् प्रयोगे प्रप्ते छन्दसि परे ऽपि अभ्यनुज्ञायन्ते। छन्दसि विषये गत्युपसर्गसंज्ञकाः प्रे ऽपि पूर्वे ऽपि प्रयोक्तव्याः। न च प्रेषां प्रयुज्यमानानां संज्ञाकार्यं किञ्चिदस्ति। केवलं प्रप्रयोगे ऽपि क्रियायोगे एषाम् अस्ति इति ज्ञाप्यते। याति नि हस्तिना, नियाति हस्तिना। हन्ति नि मुष्टिना, निहन्ति मुष्टिना।
न्यासः
छन्दसि परेऽपि , १।४।८०